सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1223, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1223

मनश्चैषां प्रतिशरणम्" इति ।
न वा पुद्गलो विषयः । न चेद् विषयो न हि विज्ञेयः । यद्येवम्,
मनइन्द्रियस्याप्यव्यभिचारः प्राप्नोति । "षडिमानीन्द्रियाणि नानागोचराणि
नानाविषयाणि स्वकं स्वकं गोचरविषयमाकाङ्क्षन्ते" इत्युक्तं षट्प्राणकोपमे ?
न तत्रेन्द्रियमेवेन्द्रियं कृत्वोक्तम् । पञ्चानां दर्शनाद्याकाङ्क्षणासम्भ-
वात्, तद्विज्ञानानां च । अतस्तदाधिपत्याध्याहृतं¹ तु² मनोविज्ञानमिन्द्रियम्²
भवन्तीति उक्तं भवति । मनश्चैषां प्रतिशरणमिति । अनुषङ्गेनेदमुक्तम्,
नेदमुदाहरणम् । तथापि तु मनश्चैषामिन्द्रियाणां प्रतिशरणमिति तद-
पेक्षाणीन्द्रियाणि विज्ञानोत्पत्तौ कारणं भवन्तीत्यर्थः ।
न वा पुद्गलो विषय इति । यदि सूत्रं प्रमाणीक्रियते । ततः किम् ?
इत्याह—न चेद् विषय इति । यदि न कस्यचिद् विज्ञानस्य विषयः ।
न तर्हि विज्ञेयः । ततश्च 'पञ्चविधं ज्ञेयम्' इति स्वसिद्धान्तो बाध्यते ।
यद्येवम् । सूत्रे वचनात् नान्यदन्यस्य गोचरविषयं प्रत्यनुभवतीति
पञ्चानां चक्षुरादीनां प्रमाणीक्रियते स्वविषयाव्यभिचारः । स्वविषया-
व्यभिचारे च न चक्षुर्विज्ञानादिभिर्विज्ञेयः पुद्गलः । तदेवं सति मन-
इन्द्रियस्याप्यव्यभिचारः प्राप्नोति । षडिमानीन्द्रियाणि नानागोचराणीति
विस्तरेण सूत्रे वचनात् । कुक्कुर-पक्षि-शृगाल-शिशुमार-सर्प-मर्कटाः षट्
प्राणकाः केनचिद् बद्धा मध्ये ग्रन्थि कृत्वोत्सृष्टाः । ते स्वकं स्वकं गोचर-
विषयमाकाङ्क्षन्ते । ग्रामाकाश-श्मशानोदकान्त-वल्मीक-वनाकाङ्क्षणात् ।
एवमेव षडिमानीन्द्रियाणि स्वकं स्वकं गोचरविषयमाकाङ्क्षन्ते । इत्येव-
मुपमात्र क्रियते । अथ सत्यपि सूत्रवचने मनइन्द्रियस्य व्यभिचारः, एवं.
चक्षुरादीनामनीन्द्रियाणां व्यभिचारः, व्यभिचारे च चक्षुर्विज्ञानादिभिर्विज्ञेयः
पुद्गलो भविष्यतीति ।
अत्र ब्रूमः— न तत्रेति विस्तरः । तत्र षट्प्राणकोपमे सूत्रे नेन्द्रियमेव
चक्षुरादिकम् इन्द्रियं कृत्वोक्तम् । किं कारणम् ? चक्षुरादीनां पञ्चानाम्
इन्द्रियाणां दर्शनाद्याकाङ्क्षणासम्भवात् । यस्मादेषां दर्शन श्रवणाद्या-
काङ्क्षणं न सम्भवति; रूपस्वभावत्वात् । तद्विज्ञानानां च । चक्षुरादि-
विज्ञानानां च दर्शनाद्याकाङ्क्षाऽसम्भवात् । कस्मादेषां दर्शनश्रवणाद्या-
१-१. ०त्याध्याहृतमत्र—का० ।
२. ० विज्ञानेन्द्रि०—का० ।