अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1217, कुल 1258 में से
संदर्भ में पढ़ें११९४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
पादानात्। तच्चोभयमष्टद्रव्यकं तच्चेन्धनं प्रतीत्याग्निरुत्पद्यते। यथा
क्षीरं प्रतीत्य दधि, मधु प्रतीत्य शुक्तम्। तस्मादिन्धनमुपादायेत्युच्यते।
अन्यश्च सः; तस्माद्भिन्नकालत्वात्।
यदि चैवं पुद्गलः स्कन्धान् प्रतीत्योत्पद्यते, स तेभ्योऽन्यश्चानित्यश्च
प्राप्नोति। अथ पुनस्तत्रैव काष्ठादौ प्रदीप्ते यदौष्ण्यं तदग्निः, तत्सहजातानि
त्रीणि भूतानीन्धनमिष्यन्ते। तयोरपि सिद्धमन्यत्वम्; लक्षणभेदात्;
उपादायार्थस्तु वक्तव्यः—कथं तदिन्धनमुपादाय सोऽग्निः प्रज्ञप्तः
इति? न हि तत्तस्य कारणम्, नापि तत् प्रज्ञप्तेः। अग्निरेव हि तत्प्रज्ञप्तेः
कारणम्। यद्याश्रयार्थः; उपादायार्थः सहभावोऽर्थो१ वा। स्कन्धा
अप्येवं पुद्गलस्याश्रयसहभूताः प्राप्नुवन्तीति स्कन्धतः स्पष्टमन्यत्वं२ प्रति-
ज्ञायते। तदभावे च पुद्गलाभावः प्राप्नोति। इन्धनाभाव इवाग्न्यभावः।
भस्मीक्रियते। सन्ततिविकारापादानात्। भस्मतापादानादित्यर्थः। इध्यते
दह्यते चेति पर्यायावित्यपरे। तच्चोभयमष्टद्रव्यकमिति। इन्धनं चाग्नि-
श्चैतदुभयमप्यष्टद्रव्यकम्—चत्वारि महाभूतानि चत्वारि चोपादायरूपाणि
रूपम् यावत् स्प्रष्टव्यमिति; “कामेऽष्टद्रव्यकोऽशब्दः” (अभि० को० २.२३)
इति सिद्धान्तात्।
भिन्नकालत्वादिति। पूर्वमिन्धनम्, पश्चादग्निः। भिन्नकालयो-
श्चान्यत्वं दृष्टं बीजाङ्कुरयोः। अनित्यश्च प्राप्नोतीति। उत्पत्तिमतो
रूपादेरनित्यत्वदर्शनात्। तत्रैव काष्ठादौ प्रदीप्त इति। तदुभयलक्षणे
समुदाये। तयोरपि सिद्धमन्यत्वम्, लक्षणभेदादिति। तयोरपि अग्नीन्धन-
योरेवंलक्षणयोः सिद्धमन्यत्वम्; लक्षणभेदात्। पृथिवीधात्वादीनां
लक्षणान्यत्वात्। भिन्नलक्षणानां ह्यन्यत्वं दृष्टं रूप-वेदनादीनाम्।
उपादायार्थस्तु वक्तव्य इति। अनन्यत्वादित्यभिप्रायः। न हि तत्
तस्य कारणमिति। न हि तदिन्धनं भूतत्रयलक्षणं तस्योष्णलक्षणस्याग्नेः
कारणं युज्यते; सहजातत्वात्। सव्येतरगोविषाणवत्। नापि तत्प्रज्ञप्तेरिति।
अग्नि-तत्प्रज्ञप्तेः। यद्याश्रयार्थ इति। इन्धनमुपादाय = इन्धनमाश्रित्येत्यर्थः।
सहभावोऽर्थो वेति। सहोत्पादार्थः। इन्धनं सहभूत्वेनागृह्णात्यर्थः।
आश्रयसहभूताः प्राप्नुवन्तीति। आश्रयभूताः, सहभूताश्च प्राप्नुवन्तीत्यर्थः।
स्कन्धतः स्पष्टमन्यत्वं प्रतिज्ञायते वात्सीपुत्रीयैः। तदभाव इति।
स्कन्धाभावे।
१. सहभावार्थो—का०। २. विस्पष्टम०—का०।