अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1221, कुल 1258 में से
संदर्भ में पढ़ें११९८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
पीतम्, क्षणादिव च क्षणान्तरम् । एवं यावद्धर्मेभ्यो वक्तव्यम् ।
अथ रूपपुद्गलवत् तदुपलब्ध्योरप्यन्यान्यत्वमवक्तव्यम् । तेन तर्हि
संस्कृतमप्यवक्तव्यं१ भवतीति सिद्धान्तभेदः ।
यदि चायमस्ति—नो तु वक्तव्यो रूपाणि वा नो वा, किं तर्हि
एतद्२ भगवतोक्तम्—"रूपमनात्मा इति३. यावद्विज्ञानमनात्मा" इति !
येन चायं चक्षुर्विज्ञानेन पुद्गल उपलभ्यते, किं तद्रूपाणि प्रतीत्यो-
त्पद्यते ? आहोस्वित् पुद्गलम् ? उभयं वा ?
यदि रूपाणि प्रतीत्योत्पद्यते ? नोत्सहिष्यते पुद्गलं विज्ञातुं शब्दादि-
नीलादिव पीतमिति । यदा परिच्छेदेन नीलमुपलभ्यते, न तदा
पीतमुपलभ्यते, पश्चात्तुपलभ्यत इति । अन्योपलब्ध्योपलभ्यते । तच्च
'नीलात् पीतमन्यत्' इति प्रतीतम् । तथा च पुद्गलोऽन्योपलब्ध्योप-
लभ्यत इति । रूपादन्यः प्राप्नोति । एवं क्षणादपि क्षणान्तरमन्यदित्युदा-
हार्यम् । एवं यावद् धर्मेभ्यो वक्तव्यम् इति । कथम् ? अथान्यया भिन्न-
कालोपलम्भात् अन्यः शब्दः प्राप्नोति, यथा भेरीशब्दान्मृदङ्गशब्दः ।
क्षणादिव च क्षणान्तरम् । यथा पूर्वमुक्तम्—नीलादिव पीतम्, क्षणादिव
क्षणान्तरम् इति । भिन्नलक्षणे विषये अभिन्नलक्षणे च भिन्नकालोपलब्ध्या
अन्यत्वं दर्शितमेव । अथान्ययेति विस्तरेण यावद् धर्मेभ्यो योज्यम् !
अथ रूपपुद्गलवदिति४ विस्तारः । यथा रूपपुद्गलयोरन्यान्यत्वम-
वक्तव्यम्, एवं तदुपलब्ध्योरपि अन्यान्यत्वमवक्तव्यमित्येवं यदि ब्रूयात्
तेन तर्हि संस्कृतमप्यवक्तव्यं भवति । तदुपलब्धिलक्षणं संस्कृतमप्येतद-
वक्तव्यमिति । सिद्धान्तभेदः । योऽयं सिद्धान्तः—'पुद्गल एवावक्तव्यः' इति,
अयं भिद्यते । संस्कृतमप्यवक्तव्यमिति कृत्वा ।
यदि चायमिति विस्तारः । यद्येवं रूपाणि नो वेति न वक्तव्यः,
किं तर्हि एतद् भगवतोक्तम्—रूपमनात्मेति । यावद् विज्ञानमनात्मेति ।
एवं हि ब्रुवतो वक्तव्य एव पुद्गलः, नावक्तव्य इति दर्शितं भवति ।
शब्दादिवदिति । न रूपविज्ञानेनोपलभ्यते पुद्गलः; तदनालम्बन-
१. संस्कृतेऽप्य०—का० ।
२. ३. का० पुस्तके नास्ति ।
४. रूपपुद्गलयोरिति—जा० ।