अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1218, कुल 1258 में से
संदर्भ में पढ़ेंविनिश्चयः ] अष्टमं कोशस्थानम् ११६५
यत्तदुक्तम्—यदिन्धनादन्योऽग्निः स्याद्, अनुष्णमिन्धनं स्यादिति !
किमिदमुष्णं नाम ? यदि तावदौष्ण्यम्, अनुष्णमेवेन्धनम्; अन्यभूतस्व-
भावत्वात् । अथ यदौष्ण्यवत्, अन्यदपि तदुष्णस्वभावादग्नेरुष्णं सिध्यति;
औष्ण्ययोगादिति । नास्त्यन्यत्वे दोषः । अथ पुनः सर्वमेव तत् प्रदीप्तं
काष्ठादिकमिन्धनं चाग्निश्चेष्यते ।
तदुपादायार्थश्च वक्तव्यः । स्कन्धा एव च पुद्गला इत्यनन्यत्व-
मनिवार्यं प्राप्नोति । तस्मान्न सिध्यत्येतत्—यथेन्धनमुपादायाग्निः प्रज्ञप्यते
एवं स्कन्धानुपादाय पुद्गल इति । यदि चायमन्यः स्कन्धेभ्यो न वक्तव्यः,
“पञ्चविधं ज्ञेयमतीतानागतं प्रत्युत्पन्नमसंस्कृतमवक्तव्यम्” ( ) इति
न वक्तव्यं प्राप्नोति । नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं वक्तव्यम् ।
यदा च पुद्गलः प्रज्ञप्यते, किं तावत् स्कन्धानुपलभ्य प्रज्ञप्यते ?
आहोस्वित् पुद्गलम् ? यदि तावत् स्कन्धान्, तेष्वेव पुद्गलप्रज्ञप्तिः
प्राप्नोति; पुद्गलस्यानुपलम्भात् । अथ पुद्गलम् ? कथमस्य स्कन्धानु-
पादाय प्रज्ञप्तिर्भवति । पुद्गल एव हि तस्या उपादानं प्राप्नोति ।
अथ मतम्—सत्सु स्कन्धेषु पुद्गल उपलभ्यते, ततः स्कन्धानुपादा-
यास्य प्रज्ञप्तिरुच्यत इति ? तदेवं रूपस्यापि चक्षुर्मनस्कारालोकेषु सत्सूप-
लम्भात् तान्युपादाय प्रज्ञप्तिर्वक्तव्या । रूपवच्च पुद्गलस्यान्यत्वं स्पष्टम् ।
इदं तावद् वक्तव्यम्—षष्णां विज्ञानानां कतमेन पुद्गलो विज्ञेयः ?
षड्भिरपीत्युच्यते । कथं कृत्वा ? चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य पुद्गलं
अन्यभूतस्वभावत्वादिति । पृथिवीधात्वादिस्वभावत्वात् । अन्यदपीति ।
न केवलमौष्ण्यमुष्णम्, अन्यदपि तत्प्रदीप्ताग्निसम्बन्धं भूम्यादिकमुष्णं
सिद्ध्यति । अतो यथा तस्यान्यत्वे न दोषः, तथास्यापीति । ततश्चावक्तव्य
इति । तत्पक्षलोपः स्यात् । काष्ठादिकमिति । काष्ठतृणगोमयादिकम् ।
अवक्तव्यमिति । पुद्गलः । अनिर्भिन्नत्वान्नपुंसकलिङ्गता । ‘किं ते
'जातम्' इति यथा । न वक्तव्यं प्राप्नोतीति । पञ्चविधं ज्ञेयमिति । कथं
तर्हि वक्तव्यम् ? इत्याह—नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं
वक्तव्यमिति ।
रूपस्यापीति । विस्तरः । रूपस्यापि प्रज्ञप्तिर्वक्तव्या । चक्षुरादिषु
सत्सु तस्योपलम्भात् तानि चक्षुरादीन्युपादाय रूपं प्रज्ञप्यत इति ।
प्रतिविभावयतीति । उपलक्षयति । तदुपादानत्वात् । न तु वक्तव्यो.