अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1220, कुल 1258 में से
संदर्भ में पढ़ेंविनिश्चयः ] अष्टमं कोशस्थानम् ११५७
पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्योऽन्यो न वक्तव्यः । इदं तर्हि
रूपमप्यालोकचक्षुर्मनस्कारेभ्योऽन्यन्न वक्तव्यम्; तेषां तदुपलब्धिकारणत्वात् ।
अथ रूपाण्युपलभमानः पुद्गलमुपलभते, किं तयैवोपलब्ध्योपलभते ?
...होस्विदन्यया ? यदि तयैव, रूपाद्भिन्नस्वभावः पुद्गलः प्राप्नोति, रूप
एव वा तत्प्रज्ञप्तिः । इदं च रूपमयं पुद्गल इति१ कथमिदं परिच्छिद्यते२ !
—...वं न परिच्छिद्यते, कथमिदं प्रतिज्ञायते — रूपमप्यस्ति पुद्गलोऽप्यस्तीति !
उपलब्धिवशेन हि तस्यास्तित्वं परिज्ञायते३ । एवं यावद्धर्मेभ्यो वक्तव्यम् ।
अथान्या ? भिन्नकालोपलम्भादन्यो रूपात् प्राप्नोति । नीलादिव
रूपेभ्योऽन्यो न वक्तव्य इति । इदं तर्हि वः प्रसज्यते रूपमपीति
विस्तरः । • यथा रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्योऽन्यो न
वक्तव्यः । आलोकचक्षुर्मनसिकारा अपि रूपोपलब्धेः कारणं भवन्ति, तदपि रूपं
तेभ्य आलोकादिभ्यो ऽन्यन्न वक्तव्यं भवद्भिः; तेषां तदुपलब्धिकारणत्वात् ।
तेषामालोकादीनां रूपोपलब्धिकारणत्वात् । रूपाद्भिन्नस्वभावः पुद्गलः
प्राप्नोति; तयैवैकोपलब्ध्योपलभ्यमानत्वात्, रूपान्तरवत् ।
रूप एव वा तत्प्रज्ञप्तिः । पुद्गलप्रज्ञप्तिः प्राप्नोतीति वर्तते । कुतः ?
तत एव हेतोः । इदं च रूपमिति विस्तरः । उपलब्धेरेकत्वे रूपपुद्गलयोः
परिच्छेदो न प्राप्नोतीति । अथैवं न परिच्छिद्यते 'इदं रूपम्' 'अयं पुद्गलः'
इति । कथमुभयं प्रतिज्ञायते । रूपमेव हि प्रतिज्ञातव्यं स्यात्, तदुपलब्धिसद्भा-
वात् । एवं यावद् धर्मेभ्यो वक्तव्यमिति । कथम् ? यच्चोच्यते—श्रोत्रविज्ञेयान्
शब्दान् प्रतीत्य पुद्गलं प्रतिविभावयतीति, कोऽस्य वाक्यस्यार्थः ? किं
तावच्छब्दाः पुद्गलोपलब्धेः कारणं भवन्ति, आहोस्विच्छब्दानुपलभमानः
पुद्गलमुपलभते इति ? यदि तावच्छब्दाः पुद्गलोपलब्धेः कारणं भवन्ति,
स च तेभ्योऽन्यो न वक्तव्यः । एवं तर्हि शब्दोऽप्यालोकश्रोत्रमनस्कारे-
भ्योऽन्यो न वक्तव्यः; तेषां तदुपलब्धिकारणत्वात् । अथ शब्दानुपलभमानः
पुद्गलमुपलभते, किं तयैवोपलब्ध्योपलभते, आहोस्विदन्यया ? यदि तयैव,
शब्दादभिन्नस्वभावः पुद्गलः प्राप्नोति । शब्दा एव वा तत्प्रज्ञप्तिः ।
'अयं च शब्दः', 'अयं च पुद्गलः' इति कथमिदं परिच्छिद्यते ! अथैवं
न परिच्छिद्यते, कथमिदं परिज्ञायते—शब्दोऽप्यस्ति, पुद्गलोऽप्यस्ति ।
उपलब्धिवशेन हि तस्यास्तित्वं परिज्ञायते । अनया दिशा यावद् धर्मेभ्यो
योजयितव्यम् ।
१. का० पुस्तके नास्ति । २. गम्यते—का० ।
३. प्रतिज्ञायते—का० ।