अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1225, कुल 1258 में से
संदर्भ में पढ़ेंसंन्निपातः स्पर्शः स्पर्शसहजाता वेदना संज्ञा चेतना इतीमे चत्वारो रूपिणः
स्कन्धाश्चक्षुरिन्द्रियं च रूपम्—एतावन्मनुष्यत्वमुच्यते । अत्रेयं संज्ञा—सत्त्वो
नरो मनुष्यो मानवश्च पोषः पुरुषः पुद्गलो जीवो जन्तुरिति । अत्रेयं
प्रतिज्ञा—अहं चक्षुषा रूपाणि पश्यामीति । अत्रायं व्यवहारः—इत्यपि स
आयुष्मानेवंनामा एवंजन्य¹ एवंगोत्र एवमाहार एवसुखदुःखप्रतिसंवेदी
एवंदीर्घायुरेवंचिरस्थितिक एवमायुःपर्यन्त इति । इति हि भिक्षवः संज्ञामात्रक-
मेवैतद्, व्यवहारमात्रकमेवैतत् । सर्वे इमे धर्मा अनित्याः संस्कृताश्चेति
ताः प्रतीत्यसमुत्पन्नाः” इति ।
नीतार्थं च सूत्रं प्रतिशरणमुक्तं भगवता । तस्मान्न पुनः परीक्ष्यते ।
तथा चोक्तम्— “सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानि” इति ।
यदि चायं पुद्गलो नायतनम्, न सोऽस्तीति सिद्धम् । अथायतनम्, न तर्हि-
वक्तव्यः । तेषामपि चैवं पश्यतः “यावता भिक्षो चक्षुर्यावता रूपाणि,
विस्तरेण, एतावता भिक्षो तथागतः सर्वं च · प्रज्ञापयति च” इति ।
बिम्बिसारसूत्रे चोक्तम्— “आत्मा आत्मेति भिक्षवो बालोऽश्रुतवान् पृथग्जनः
प्रज्ञप्तिमनुपतितः । न त्वत्रात्मा वा आत्मीयं वा दुःखमिदमुत्पद्यमानमुत्पद्यते”
इति विस्तरः ।
शैलयाप्यर्हन्त्या मारमारभ्योक्तम्—
“मन्यसे किं नु सत्त्वेति मारदृष्टिगतं हि ते ।
शून्यः संस्कारपुञ्जोऽयं नहि सत्त्वोऽत्र विद्यते ॥
यथैव ह्यङ्गसम्भाशत् संज्ञा रथ इति स्मृता ।
एवं स्कन्धानुपादाय संवृत्या सत्त्व उच्यते” ।। इति ।
क्षुद्रकेऽपि चागमे दरिद्रब्राह्मणमधिकृत्योक्तम्—
“शृणु त्वं स्वादरे धर्मं सर्वग्रन्थिप्रमोचनम् ।
यथा संक्लिश्यते चित्तं यथा चित्तं विशुध्यति ॥
नीतार्थं च सूत्रं प्रतिशरणमुक्तमिति । “चत्वारीमानि भिक्षवः
प्रतिशरणानि । कतमानि चत्वारि ? १. धर्मः प्रतिशरणम्, न पुद्गलः ।
२. अर्थः प्रतिशरणम्, न पुद्गलः । ३ नीतार्थसूत्रं प्रतिशरणम्, न नेयार्थम् ।
४. ज्ञानं प्रतिशरणम्, न विज्ञानम्” ( ) इति ।
प्रज्ञप्तिमनुपतित² इति । यत्रैव प्रज्ञप्तिः कृता--आत्मेति व्यव-
हारार्थम् तामेव । आत्मेत्यभिनिविष्ट इत्यर्थः ।
१. एवंजात्य—का० । २. ०मनूपपतित—जा० ।