सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] सप्तमं कोशस्थानम् १०६३
स्मृतिप्रज्ञात्मकं त्रयम् ॥ ३२ ॥
स्मृतिसम्प्रजन्यस्वभावान्येतानि¹ त्रीणि स्मृत्युपस्थानानि । यदा
श्रावकस्यापि शुश्रूषमाणाशुश्रूषमाणोभयेषु नन्दी² न भवति, आघातो वा ।
कस्मादेते आवेणिका बुद्धधर्मा उच्यन्ते ? सवासनप्रहाणात् । अथवा
यस्य श्रावकास्तस्य तच्छुश्रूषमाणाशुश्रूषमाणोभयेषु सौमनस्याद्यवकाशः
सुतरां न तथाऽन्येस्येति तस्यैव तदनुत्पादादाश्चर्यं व्यवस्थाप्यते,
नान्यस्येति ॥ ३२ ॥
महाकरुणेदानीं वक्तव्या, सेयमुच्यत-
महाकृपा संवृतिधीः,
“पुनरपरं भिक्षवः यावच्छासने । तत्र तथागतस्य न नन्दी भवति, न
सौमनस्यम्, न चेतस उत्प्लावितत्वम् । नाघातो नाक्षान्तिः नाप्रत्ययो न
चेतसोऽनभिराद्धिः । उपेक्षकस्तत्र तथागतो विहरति स्मृतः सम्प्रजानन्—
इदं तृतीयं स्मृत्युपस्थानम् । यदार्यः सेवते यदार्यः सेवमानोऽर्हति गुण-
मनुशासितुम्” इति । ( )
स्मृतिसम्प्रजन्यमिति । उभयस्वभावमिति दर्शयति । ‘स्मृतः सम्प्र-
जानन्’ इति वचनात् । यदा श्रावकस्यापीति विस्तरः । यदा श्रावकस्यापि
हीनक्लेशस्य शुश्रूषमाणेषु च शिष्येषु अशुश्रूषमाणेषु च उभयेषु च
शुश्रूषमाणाशुश्रूषमाणेषु च । नन्दी अनुनयो न भवति आघातो वा
द्वेषो वा ।
कस्मादेते आवेणिका असाधारणा बुद्धधर्मा उच्यन्ते । सवासना-
प्रहाणादिति । सवासनानां नन्द्यादीनां³ प्रहाणात् । का पुनरियं वासना
नाम श्रावकाणाम् ? यो हि यत्क्लेशचरितः पूर्वम् तस्य तत्कृतः काय-
वाक्चेष्टाविकारहेतुसामर्थ्यविशेषश्चित्ते वासनेत्युच्यते । ‘अव्याकृतश्चित्त-
विशेषो वासना’ इति भदन्तान्तवर्मा ।
अथवेति विस्तरेणाचार्यः । यस्य श्रावकाः बुद्धस्य भगवतः श्रावकाः
भवन्ति नान्यस्य । किं कारणम् ? सर्वे हि श्रावकाः बुद्धमुद्दिश्य प्रव्रजिता
१. स्मृतिसम्प्रज्ञान ०—का० । २. ०ष्व,नन्दी—का० ।
३. आनन्द्या०—जा० ।

संवृतिज्ञानात्मिका महाकरुणा । अन्यथा हि न सर्वसत्त्वालम्बना
सिद्ध्येत्, न च त्रिदुःखताकारा, करुणावत् ।
कस्मादियं महाकरुणेत्युच्यते ?
सम्भाराकारगोचरैः ।
समत्वादाधिमात्राच्च,
सम्भारेण महापुण्यज्ञानसम्भारसमुदागमात् । आकारेण त्रिदुःखता-
करणात् । आलम्बनेन त्रैधातुकासत्त्वालम्बनात् १ । समत्वेन सर्वसत्त्वेषु
समवृत्तित्वात् । अधिमात्रत्वेन ततोऽधिमात्रतराभावात् ।
इति । तेषां श्रावकाणां शुश्रूषमाणे चाशुश्रूषमाणे चोभयस्मिंश्च शुश्रूषमाणा-
शुश्रूषमाणेषु उभयेषु तस्यैव श्रावकवतस्तदनुत्पादः । नन्द्याघातानुत्पादः ।
आश्चर्यम् अद्भुतं व्यवस्थाप्यते, नान्यस्य श्रावकस्येत्यर्थः ॥ ३२ ॥
अन्यथा हीति विस्तरः । यदि संवृतिज्ञानस्वभावा न स्याद्
अद्वेषस्वभावा स्यात्, करुणावत् । न सर्वसत्त्वालम्बना सिद्ध्येत् । न
त्रैधातुकसत्त्वालम्बना, सिद्ध्येदित्यर्थः । यथा करुणा न त्रैधातुक-
सत्त्वालम्बना, किं तर्हि ? कामावचरसत्त्वालम्बना; दुःखितसत्त्वा-
लम्बनत्वाद् एवं सिद्धं स्यादित्यभिप्रायः । न च त्रिदुःखाकारा । सिद्ध्येदिति
वर्तते । करुणावत् । यथा करुणा दुःखताकारैव, न त्रिदुःखताकारा—दुःख-
दुःखता-संस्कार- तथा न स्यात् । इष्यते च
त्रिदुःखताकारेति । अथ संवृतिज्ञान स्वभावेति ।

निर्देशः ] सप्तमं कोशस्थानम् १०६५
करुणामहाकरुणयोः किं नानाकरणम् ?
नानाकरणमष्टधा ॥ ३३ ॥
स्वभावतः; अद्वेषामोहस्वभावत्वात् । आकारतः; एकत्रिदुःखताकार-
त्वात् । आलम्बनतः; एकत्रैधात्वालम्बनत्वात् । भूमितः; चतुर्ध्यानचतुर्थ-
ध्यानभूमिकत्वात् । सन्तानतः; श्रावकादिबुद्धसन्तानजत्वात् । लाभतः;
कामभवाग्रवैराग्यलभ्यत्वात्१ । अपरत्राणापरित्राणतः; अतुल्यतुल्यकरणा-
यनाच्च ॥ ३३ ॥
करोतीति महाकरुणा । आकारेण त्रिदुःखताकरणात् । यस्मात् तिसृ-
भिरपि दुःखताभिराकारयति, न दुःखदुःखतयैव, करुणावत् । आलम्बनेन
त्रैधातुकसत्त्वालम्बनत्वात् । यस्मात् त्रैधातुकोपपन्नान् सत्त्वान् आलम्बते,
न च कामधातुपपन्नानेव, करुणावत् । "कामसत्त्वास्तु गोचर" इति
वचनात् ।
समत्वेन सर्वसत्त्वेषु समवृत्तित्वात् । यस्मात् सर्वसत्त्वेषु त्रैधातुकपर्या-
पन्नेषु समं वर्तते संस्कारदुःखताकारेण, अतोऽपि महाकरुणेत्युच्यते ।
ततोऽधिमात्रतराभावादिति । प्रज्ञास्वभावतया तीक्ष्णतरत्वात् । यथा हि
तया करुणायते, न तथा करुणयेति ।
नानाकरणम् विशेषः ।
अद्वेषामोहस्वभावत्वादिति । यथाक्रमं करुणाया अद्वेषस्वभावत्वात्,
महाकरुणायाश्चामोहस्वभावत्वादित्यर्थः । एकत्रिदुःखताकारत्वादिति ।
एकदुःखताकारत्वात् करुणायाः, त्रिदुःखताकारत्वाच्च महाकरुणायाः—
इत्युभयत्रापि सर्वत्र यथासंख्येन योजयितव्यम् ।
चतुर्ध्यानचतुर्थध्यानभूमिकत्वादिति । करुणा चतुर्ध्यानभूमिका ।
अनागम्यध्यानान्तरयोः प्रथमध्यानाहरणेन ग्रहणात् षड्भूमिकेत्युक्तम् । महा-
करुणा तु चतुर्थध्यानभूमिकैव, सर्वसमाधिकर्मण्यत्वेन तस्यैव तदुत्पादन-
समर्थत्वात् । श्रावकादिबुद्धसन्तानजत्वादिति । आदिशब्देन प्रत्येकबुद्ध-
पृथग्जनानां ग्रहणम् । कामभवाग्रवैराग्यलब्धत्वादिति । कामवैराग्यलभ्या
करुणा । भवाग्रवैराग्यलभ्या महाकरुणा । अपरत्राणपरित्राणत इति ।
करुणया श्रावकादयः करुणायन्त एव । केवलमनुग्लायन्त्येवेत्यर्थः । न
संसारभयात् परित्रायन्ते२ । अतुल्यतुल्यकरणायनात् । करुणया अतुल्यं
करुणायते; दुःखितानामेव करुणायनात् । महाकरुणया तु तुल्यम्;
सर्वसत्त्वसमकरणायनात् ॥ ३३ ॥
१. कामधातुभवा०—का० । २. परित्रायते—जा० ।
अभि० को० ४ : ५

१०६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
किं पुनः सर्वे बुद्धाः सर्वप्रकारसामान्या भवन्ति ? नेत्याह ।
सम्भारधर्मकायाभ्यां जगतश्चार्थचर्यया ।
समता सर्वबुद्धानाम् , नायुर्ज्ञातिप्रमाणतः ॥ ३४ ॥
त्रिभिः कारणैः साम्यं सर्वबुद्धानाम्—१. पूर्वपुण्यज्ञानसम्भारसमुदा-
गमतः१, २. धर्मकायपरिनिष्पत्तितः, ३. अर्थचर्यया च लोकस्य ।
आयुर्जातिगोत्रप्रमाणकृतस्तु भेदो भवति । चिराल्पजीवनात्२,
क्षत्रियब्राह्मणजातिभेदात्, काश्यपगौतमादिगोत्रभेदात्, अल्पानल्पप्रमाण-
भेदाच्च यथाकालमिति ।
एतामेव च त्रिविधां सम्पदं मनसिकुर्वाणेन विदुषा शक्यं बुद्धानां
भगवतामन्तिके तीव्रप्रेम गौरवं चोत्पादयितुं यदुत हेतुसम्पदम्, फलसम्पदम्,
उपकारसम्पदं च ।
तत्र चतुर्धा हेतुसम्पत्—सर्वगुणज्ञानसम्भाराभ्यासः३, दीर्घकाला-
भ्यासः, निरन्तराभ्यासः, सत्कृत्याभ्यासश्च ।
पूर्वपुण्यज्ञानसम्भारसमुदागमत इति । पूर्वेषु ज्ञानेषु पुण्यसम्भारेण,
पूर्वोक्तेन ज्ञानसम्भारेण च समुदागमतः । धर्मकायपरिनिष्पत्तित इति ।
अनास्रवधर्मसम्भारसन्तानो धर्मकायः । आश्रयपरिवृत्तिर्वा । अर्थचर्यया
चेति । स्वर्गापवर्गकारणम् अर्थो लोकस्य, तस्य सम्पादनम् = अर्थचर्या ।
तुल्या हि सर्वेषां बुद्धानां महाकरुणा परार्थहेतुः । यथाकालमिति । सर्वत्रा-
भिसम्बध्यते । कथम् ? चिराल्पजीवनाद् यथाक्रमं दीर्घायुषि प्रजायां
दीर्घायुषो बुद्धा भवंति, अल्पायुषि अल्पायुषः । यथासम्भवं क्षत्रियगुरुके
लोके क्षत्रिया भवन्ति, ब्राह्मणगुरुके ब्राह्मणाः । यथाकालमेव च काश्यपादि-
गोत्राः । गौतमगोत्राश्च । तथाल्पप्रमाणे लोके अल्पप्रमाणाः, अनल्पप्रमाणौ
अनल्पप्रमाणा इति ।
हेतुसम्पदम् । पुण्यज्ञानसम्भारलक्षणाम् । फलसम्पदम् धर्मकाय-
लक्षणाम् । उपकारसम्पदम् जगदर्थचर्यालक्षणाम् । सर्वगुणज्ञानसम्भाराभ्यास
इति गुणाः पञ्चपारमितास्वभावाः । ज्ञानानि४ च प्रज्ञापारमितास्वभावानि ।
तेषां सर्वेषां गुणज्ञानानां सम्भारः । तस्याभ्यासः = पुनः पुनः प्रयोगः ।
दीर्घकालाभ्यासः त्रिभिरसंख्येयैर्महाकल्पैः । निरन्तराभ्यासः असान्तरतया ।
१. सर्वपुण्य०—का० । २. ०ल्पतरजी०—का० ।
३. सर्वपुण्यज्ञान०—का० । ४. ज्ञानानानि—जा० ।

निर्देशः ] सप्तमं कोशस्थानम् १०६७
चतुर्विधा फलसम्पत्—ज्ञानसम्पत्, प्रहाणसम्पत्, प्रभावसम्पत्,
रूपकायसम्पच्च ।
चतुर्विधप्रकारसम्पत्—अपायत्रयसंसारदुःखात्यन्तनिर्मोक्षसम्पत्, यान-
त्रयसुगतिप्रतिष्ठापनसम्पद्वा ।
ज्ञानसम्पत् पुनश्चतुर्विधा—अनुपदिष्टज्ञानम्, सर्वत्रज्ञानम्, सर्वथा-
ज्ञानम्, अयत्नज्ञानम् च ।
चतुर्वि प्रहाणसम्पत्—सर्वक्लेशप्रहाणम्, अत्यन्तप्रहाणम्,
सवासनप्रहाणम्, सर्वसमाधिसमापत्त्यावरणप्रहाणं च ।
चतुर्विधा प्रभावसम्पत्—बाह्यविषयनिर्माणपरिणामाधिष्ठान-
सत्कृत्याभ्यासः तीव्रादरतया । चतुर्विधाः फलसम्पद इति । धर्मकायपरि-
निष्पत्त्या ज्ञानादिसम्पदश्चतस्रो भवन्तीति ता अपि फलसम्पद इति
व्यवस्थाप्यन्ते । ज्ञानसम्पत् चतुर्विधेति वक्ष्यति । तथा प्रहाणसम्पत्,
प्रभावसम्पत्, रूपकायसम्पत् च चतुर्विधेति वक्ष्यति । तदेवासां व्याख्यानं
भविष्यति । चतुर्विधोपकारसम्पत् । कथम् ? इत्याह—अपायत्रयसंसार-
दुःखात्यन्तनिर्मोक्षसम्पदिति । अपायत्रयं च नरकादि, संसारश्च, तयोर्दुःखम् ।
ततोऽत्यन्तनिर्मोक्षः, सैव सम्पदिति । यानत्रयसुगतिप्रतिष्ठापनसम्पदिति ।
यानत्रये च श्रावकयानादौ, सुगतौ च प्रतिष्ठापनम्, सैव सम्पदिति । इयं वा
चतुर्विधोपकारसम्पत् ।
अनुपदिष्टज्ञानमिति । स्वयमभिसम्बोधनार्थेन । सर्वत्र ज्ञानमिति ।
निरवशेषस्वलक्षणावबोधनार्थेन । सर्वथाज्ञानमिति । सर्वप्रकारावबोध-
नार्थेन । अयत्नज्ञानमिति । इच्छामात्रावबोधनार्थेन ।
सर्वक्लेशप्रहाणमिति । त्रैधातुकदर्शनभावनाहेयक्लेशोच्छित्तेः ।
अत्यन्तप्रहाणमिति । अपरिहाणितः । सवासनाप्रहाणमिति । अनुबन्धा-
भावतः । सर्वसमाधिसमापत्त्यावरणप्रहाणमिति । उभयतोभागविमुक्तेः ।
बाह्यविषयनिर्माणपरिणामाधिष्ठानवशित्वसम्पदिति । तत्राऽपूर्व-
बाह्यविषयोत्पादनं निर्माणम्, अश्मादीनां सुवर्णादिभावापादनं परिणामः,
दीर्घकालावस्थानमधिष्ठानमिति । आयुष उत्सर्गेऽधिष्ठाने च वशित्व-
सम्पद् आयुरुत्सर्गाधिष्ठानवशित्वसम्पदिति । आवृतेति विस्तरः ।
आवृतगमनं च, आकाशगमनं च, सुदूर-क्षिप्रगमनं च ।१ अल्पे बहूनां प्रवेशः
१. ब्राह्मणादिति अनवद् एकशेषः । —इत्येतावानधिकः पाठोऽत्र जा० पुस्तके
मुद्रितो दृश्यते ।

वशित्वसम्पत्¹, आयुरुत्सर्गाधिष्ठानवशित्वसम्पत्, आवृताकाशसुदूरक्षिप्र-
गमनाल्पबहुत्वप्रवेशवशित्वसम्पत्², विविधनिजाश्चर्यधर्मसम्पच्च ।
चतुर्विधा रूपकायसम्पत्—लक्षणसम्पत्, अनुव्यञ्जनसम्पत्, बलसम्पत्,
वज्रसारास्थिशरीरतासम्पत्³ । इति ।
एतत् सामासिकं बुद्धानां माहात्म्यम् ।
अनन्तप्रभेदं तु तद्भिद्यमानं जायते । तच्च पुनर्भुद्धा एव सकलं ज्ञातुं
वक्तुं च समर्थाः, यद्यनेकासंख्येयकल्पं⁴ जीवितमधितिष्ठेयुः । एवं च
तावदनन्ताद्भुतगुणज्ञानप्रभावोपकारमहारत्नाकरास्तथागताः ।
परमाणौ बहूनां हस्त्यादीनां प्रवेशः, स चेति आवृताकाश-सुदूर-क्षिप्रगमना-
ल्पबहुप्रवेशः । तयोर्वशित्वसम्पदिति योज्यम् । विविधा नानाप्रकारा
निजाः स्वाभाविकाः । के ? आश्चर्यधर्माः । तेषां सम्पदिति योज्यम् ।
धर्मतैषा बुद्धानां भगवतां यत् तेषां गच्छतां निम्नस्थलं च समीभवति, यदुच्चं
तन्नीचीभवति, यन्नीचं तदुच्चीभवति । अन्धाश्च चक्षूंषि प्रतिलभन्ते,
बधिराः श्रोत्रम्, उन्मत्ताः स्मृतिमिति यथासूत्रं सर्वमनुसर्तव्यम् ।
लक्षणसम्पदिति । द्वात्रिंशतां महापुरुषलक्षणानां ऊर्णोष्णीषादीनां
सम्पत् । अनुव्यञ्जन सम्पदिति । वृत्ताङ्गुलिताऽतुङ्गनखत्वादीनाम-
शीतेरनुव्यञ्जनानां सम्पत् । बलसम्पत् । नारायणं बलम् । वज्रसारा-
ण्यस्थीन्यस्येति वज्रसारास्थि, वज्रसारास्थि शरीरमस्येति वज्रसारास्थि-
शरीरः, तद्भावः, तस्य सम्पदिति वज्रसारास्थिशरीरतासम्पदिति ।
एतत् सामासिकं सापेक्षिकम् । ये केचित् प्रसादजाताः सत्पुरुषाः
बुद्धं भगवन्तमस्ताविषुः, स्तुवन्ति, स्तोष्यन्ति वा । सर्वे ते एतयैव त्रिविधया
सम्पदेति⁵ । यद्यनेके असंख्येयाः कल्पा अस्येति अनेकासंख्येयकल्पं जीवितम्,
तद्यदि अधितिष्ठेयुर्बुद्धा भगवन्तः एवं ते सकलं तन्माहात्म्यं ज्ञातुं वक्तुं च
समर्थाः । तस्यानन्तप्रभेदत्वेनातिबहुत्वादित्यभिप्रायः । एवं च तावदिति
विस्तरः । गुणाश्च ज्ञानानि च प्रभावश्चोपकारश्चेति द्वन्द्वः । अनन्ताश्च ते-
ऽद्भुताश्चेति पुनः कर्मधारयः । एत एव महारत्नानि । तेषामाकारास्त-
थागताः ।
१. ०णामना०—का० ।
२. ०काशदूर० प्रवेशन०—का० ।
३. ०स्थिसम्पत्—का० ।
४. ०ख्येयं कल्पं—का० । ५. सम्पदिति—ज० ।

निर्देशः ] सप्तमं कोशस्थानम् १०६६
अथ च पुनर्बालाः स्वगुणदारिद्रयहताधिमोक्षाः शृण्वन्तोऽपि तां
तादृशीं गुणसमृद्धिं बुद्धं च नाद्रियन्ते, तस्य च धर्मम् ।
पण्डितास्तु पुनर्मज्जाभिरपि तं भगवन्तमभिप्रपद्यन्ते, तस्य च धर्मम् ।
ते हि श्रद्धामात्रकेणाप्येकान्तिकेनाभिप्रसन्ना अनियतविपाकानां पापानां
राशीनभिभूय दैवीं मानुषीं च श्रियमभिभूय निर्वाणपरायणाः संवर्तन्ते ।
अतएव तथागता अनुत्तरं पुण्यक्षेत्रमुच्यन्ते; अबन्ध्येष्टप्रकृष्टाशुस्वन्त-
फलत्वात् ।
उक्तं हि भगवता-
“येऽन्यानपि जिने कारान् कारयन्ति विनायके ।
विचित्रं स्वर्गमागम्य ते लप्स्यन्तेऽमृतं पदम् ॥” ( ) इति ।
इमे तावदष्टादश बुद्धानामावेणिका धर्मा उच्यन्ते ॥ ३४ ॥
शिष्यसाधारणा अन्ये धर्माः,
श्रावकसाधारणास्त्वन्ये गुणा बुद्धानाम् ।
केचित् पृथग्जनैः ।
के पुनस्ते इति ? यथायोगम्
अरणप्रणिधिज्ञानप्रतिसंविद्गुणादयः ॥ ३५ ॥
अथ च पुनर्बालाः पृथग्जनाः स्वगुणदारिद्र्ये ऽनुमानभूतेन हताधि-
मोक्षाः हतरुचयः यावत् बुद्धं नाद्रियन्ते । बुद्धे नादरं कुर्वन्तीत्यर्थः ।
श्रद्धामात्रकेणापीति । निरधिगमेनेत्यर्थः । अनियतविपाकानामिति ।
नियतविपाकानामलङ्घनीयत्वादित्यभिप्रायः । देवेषु भवा दैवी । अबन्ध्येष्ट-
प्रकृष्टाशुस्वन्तफलत्वादिति । अवन्ध्यफलं फलदाननैयत्येनावस्थानात् ।
इष्टफलं दिव्यविपुलफलत्वात् । प्रकृष्टफलं प्रभूतफलत्वात् । आशुफलं
दृष्टधर्मादिवेदनीयफलत्वात् । स्वन्तफलं निर्वाणफलत्वात् । तद्भावात् ।
अनुत्तरं पुण्यक्षेत्रमुच्यते तथागत इति ।
कारानिति । उपकारान् पूजादिकान् ॥ ३४ ॥
यथायोगमिति । यथासम्भवम् । केचिद् गुणाः श्रावकसाधारणाः
बुद्धानां भगवतां अरण-प्रणिधि-ज्ञानादयः । केचित् पृथग्जनसाधारणाः

११०० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
अरणाप्रणिधिज्ञानप्रतिसंविदभिज्ञाध्यानारूप्याप्रमाणविमोक्षाभिभ्वा-
यतनकृत्स्नायतनादयः ॥ ३५ ॥
तत्रारणा नाम कश्चिदेवार्हन् क्लेशप्रभवं सत्त्वानां दुःखं विदित्वा,
आत्मानं च दक्षिणीयविशेषम्, परेषां तदालम्बनं क्लेशोत्पादं परिहर्तुका-
मस्तादृशं ज्ञानमुत्पादयति येन परेषां सर्वथापि रणं नोत्पादयति । न
कस्यचित्तदालम्बनो राग उत्पद्यते, द्वेषः, मानो वा । नैषा प्रतिपत् कञ्चिदेव
रणायतीत्यरणा । सा पुनरेषा—
संवृतिज्ञानमरणा,
अयमस्याः स्वभावः ।
ध्यानेऽन्त्ये,
चतुर्थध्यानभूमिका, सुखप्रतिपदामग्रत्वात् ।
अकोप्यधर्मणः ।
नान्यस्यार्हतः । अन्यो हि स्वसन्तानादपि कदाचित् क्लेशरणं परिहर्तुं
न शक्नोति ।
नृजा,
मनुष्येष्वेवोत्पद्यते त्रिषु द्वीपेषु ।
अभिज्ञा-ध्यानारूप्यादयः । आदिशब्देन शून्यतानिमित्ताप्रणिहितादयो
गृह्यन्ते ॥ ३५ ॥
न कस्यचित्तदालम्बनो राग उत्पद्यते द्वेषो मानो वेति । तेनात्मनो
दर्शनादिपरिहारात् । यथा यथा च तेनाभिसमितं भवति अरणासमाधे-
रभ्युत्थितेनास्य मां दृष्ट्वा राग उत्पत्स्यते, अस्य द्वेषः, अस्य मानः, अस्या-
प्रसाद उत्पत्स्यत इति; तथा तथा व्युत्थितोऽपि तस्मात् समाधेरनुवेष्टते ।
परचित्तरक्षणोपायविशेषे तु तस्यारणासमाधेरुत्पत्तिमात्रसामर्थ्यादेव परेषां
क्लेशो नोत्पद्यत इत्यर्थो गृह्यते । रणयतीति । क्लेशयतीत्यर्थः । सुखप्रति-
पदामग्रत्वाच्च चतुर्थध्यानस्य तद्भूमिकैवारणा, नान्यभूमिका ।
परिहर्तुं न शक्नोतीति । परिहाणिसम्भवात् ।

निर्देशः ] सप्तमं कोशस्थानम् ११०१
अनुत्पन्नकामाप्तसवस्तुकक्लेशगोचराः ॥ ३६ ॥
अनागताः कामावचराः सवस्तुकाः क्लेशाः अस्या आलम्बनम्;
नापरेषां क्लेश उदपादीत्येवं प्रवृत्तत्वात् । अवस्तुकास्तु क्लेशा न शक्याः
परिहर्तुम्; सर्वत्रगाणां सकलस्वभूम्यालम्बनत्वात् ॥ ३६ ॥
यथा चारणोक्ता,
तथैव प्रणिधिज्ञानम्,
तदपि हि संवृतिज्ञानं ध्यानेऽन्त्येऽकोप्यधर्मणः, मनुष्याश्रयं च ।
सर्वालम्बं तु तत्,
सर्वधर्मालम्बनं तु प्रणिधिज्ञानमित्येव विशेषः । आरूप्यास्तु न
साक्षात् प्रणिधिज्ञानेन ज्ञायन्ते । किं तर्हि ? निष्यन्दचरितविशेषात्¹ ।
कार्षकनिदर्शनं² चात्रेति वैभाषिकाः । प्रणिधिपूर्वकं ज्ञानं प्रणिधिज्ञानम् । यदि
सवस्तुकाः क्लेशाः । के ? रागादयो भावनाप्रहातव्या । अवस्तुकाः
क्लेशाः । दर्शनप्रहातव्याः । सर्वत्रगाः । सकलस्वभूम्यालम्बनत्वात्
परसन्तत्यालम्बना अपि भवन्तीति परिहर्तुमशक्याः सर्वत्रगाः ॥ ३६ ॥
“सर्वालम्बनं तु तत्” इति । सर्वमालम्बत इति सर्वालम्बनम् । सर्वो
वास्यालम्बन इति सर्वालम्बनम् । नारूपात् क्लेशमात्रालम्बनम्, किं
तर्हि ? रूपाद्यालम्बनपीत्यर्थः । आरूप्यास्तु न साक्षात् प्रणिधिज्ञानेन
ज्ञायन्ते । किं कारणम् ? यस्मात् प्रणिधिज्ञानं चतुर्थध्यानभूमिकम् ।
वक्ष्यति च— “न्वाधोभूमिविपद्या लभ्या³” (अभि० को० ७.४४) इति ।
प्रणिधिज्ञानं चाभिज्ञात्वाद् भवतीति । निष्यन्दचरितविशेषादिति ।
तत्र निष्यन्दः = मन्दमन्दता ।
कार्येणास्यानुमानम्, कारणेन च कार्यस्येति परिदीपितम् । ततः प्रच्युतानां
तत्समापत्तिलाभिनां च तदुभयं प्रत्यक्षम् । कार्षकनिदर्शनं चात्रेति । यथा
कार्षकः फलेन बीजं प्रतिपद्यते, बीजेन वा फलमिति । यथा वा कार्षको
१. ० निष्पत्त०—का० ।
२. कर्षक०—का० ।
३. स्वधो भूमिविपयाभिज्ञा—जा० ।

११०२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
प्रणिधाय प्रान्तकोटिकं चतुर्थं ध्यानं समापद्यते। इदं जानीयामिति
तद्यथाभूतं जानाति यावांस्तत्समाधिविषयः¹।
तथा।
धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः ॥ ३७ ॥
चतस्रो हि प्रतिसंविदः—धर्मप्रतिसंवित्, अर्थप्रतिसंवित्, निरुक्ति-
प्रतिसंवित्, प्रतिभानप्रतिसंविच्च। ता अपि धर्मार्थनिरुक्तिप्रतिभानप्रति-
संविदस्तथैव, यथा अरणा। किमासां तथैव? अकोप्यधर्ममनुष्याश्रयत्वम्।
आलम्बनभूमिस्वभावविशेषस्त्वासां पृथगुच्यते ॥ ३७ ॥
तिस्रो नामार्थवाग्ज्ञानमविवर्त्यं यथाक्रमम्।
नामपदव्यञ्जनकायेष्वर्थवाचिता, अविवर्त्यज्ञानम्, धर्मार्थनिरुक्तिप्रति-
संविदो यथाक्रमम्।
चतुर्थीयुक्तमुक्ताभिलापमार्गवशित्वयोः ॥ ३८ ॥
जानीते—ईदृशे क्षेत्रे ईदृशफलं धान्यं भविष्यतीति, धान्यं वा दृष्ट्वा
क्षेत्रमनुमिनोति—ईदृशमस्य क्षेत्रमिति। एवं शान्तमूर्तिं सत्त्वं दृष्ट्वा
अनुमिनोति—आरूप्ये च्युतोऽयम्, आरूप्येषु चोत्पत्स्यते इति। वैभाषिका
इति वचनं परेषामस्त्येनेनारूप्यज्ञानमिति सूचयति। न हि बुद्धानामस्त्यविषय
इति अभिप्रायः। प्रणिधिपूर्वकमिति आभोगपूर्वकम्। प्रणिधाय आभुज्येत्यर्थः।
यावांस्तत्समाधिविषय इति। यावान् श्रावकस्य विषयः तावान् जानाति।
प्रत्येकबुद्धस्य च, यावत्, स्वविषय इत्यादि।
धर्मप्रतिसविदिति। इह देशना धर्मः। अनेकार्थो हि धर्मशब्दः।
तद्यथा—"धर्मं वो भिक्षवो देशयिष्यामि, आदौ कल्याणं मध्ये कल्याणं
पर्यवसाने कल्याणम् स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं ब्रह्मचर्यं
सम्प्रकाशयिष्यामि" ( ) इत्यत्र देशनाधर्मः। "धर्मः कतमः ?
आर्याष्टाङ्गमार्गः" ( ) इत्यत्र प्रतिपत्तिधर्मः। तथा "धर्मं शरणं
गच्छामि" ( ) इत्यत्र फलधर्मो निर्वाणमित्यादि। अविवर्त्यमिति।
अशक्यं विवर्तयितुम्। अकोप्यधर्म-मनुष्याश्रयत्वमिति। तथा-शब्देनेदमे-
वार्थद्वयं सम्बद्ध्यते; आलम्बनादीनां पृथग्वचनात् ॥ ३७ ॥
१. सर्वंन्तत्०—का० ।

निर्देशः ] सप्तमं कोशस्थानम् ११०३
'अविवर्त्यं ज्ञानम्' इति वर्तते। युक्तमुक्ताभिलापिताया समाधिवशि-
सम्प्रख्यानम्¹, तत्र चाविवर्त्यं ज्ञानं प्रतिभानप्रतिसंवित्² ॥ ३८ ॥
वाङ्मार्गालम्बना चासौ,
वाक्च मार्गश्च तस्याः आलम्बनम्।
नव ज्ञानानि,
नवज्ञानस्वभावा प्रतिभानप्रतिसंविद्; अन्यत्र निरोधज्ञानात्।
सर्वभूः।
सर्वभूमिका चासौ कामधातौ यावद् भवाग्रे; वाङ्मार्गयोरन्यतरा-
लम्बनात्।
दश षड् वाऽर्थसंवित्,
अर्थधर्मसंवित् सर्वधर्मश्चेदर्थः³. दश ज्ञानानि। निर्वाणं चेदर्थः,
षड् ज्ञानानि
युक्तमुक्ताभिलापितायामिति। युक्तमर्थसम्बन्धम्, मुक्तमसक्तम्,
युक्तमुक्तमभिवदतीति युक्तमुक्ताभिलापी, तद्भावः, तस्याम् युक्तमुक्ताभिलापि-
तायाम्। समाधौ वशी समाधिवशी, समाधिवशिनः सम्प्रख्यानम् = असम्मोहः
समाधिवशिसम्प्रख्यानम्, तत्र चाविवर्त्तव्यं ज्ञानं प्रतिभानप्रतिसंविदिति
विशेष ॥ ३८ ॥
कथं नवज्ञानस्वभावा प्रतिभानप्रतिसंवित्। या वागालम्बना सा
दुःखसमुदयधर्मान्वयक्षयानुत्पादसंवृतिज्ञानस्वभावा, या मार्गालम्बना सा
मार्गधर्मान्वयक्षयानुत्पादपरचित्तसंवृतिज्ञानस्वभावा—इत्यभिसमस्य नवज्ञान-
स्वभावा; अन्यत्र निरोधज्ञानात्।
सर्वधर्माश्चेदर्थो दश ज्ञानानीति। न हि सोऽस्ति धर्मः, यो दशानां
ज्ञानानां यथासम्भवं नालम्बनीभवति। निर्वाणं चेदर्थः, षट् ज्ञानानीति।
निरोधज्ञानस्य धर्मज्ञानादिपञ्चस्वभावत्वात्।
१ ०प्रख्याने--का०।
२. प्रतिमानसंवित्--का०।
३. ०दर्था--का०।

११०४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे
सा सर्वत्र,
सा पुनरेषार्थप्रतिसंवित् सर्वभूमिका।
अन्ये तु सांवृतम् ॥ ३९ ॥
अन्ये तु द्वे धर्मनिरुक्तिप्रतिसंविदौ संवृतिज्ञानस्वभावे; नामकायादि-
वागालम्बनस्वभावत्वात् ॥ ३९ ॥
कामध्यानेषु धर्मे वित्,
धर्मप्रतिसंवित् पञ्चभूमिका
नामकायाभावात्।
वाचि प्रथमकामयोः।
वाङ्निरुक्तिरित्येकोऽर्थः। निरुक्तिप्रतिसंवित्कामधातुप्रथमध्यानभूमिका;
ऊर्ध्वं वितर्काभावात्।
प्रज्ञप्तौ तु प्रतिसंविदामेव निर्देशः। "पदव्यञ्जने तस्यैवार्थे तस्यैक-
द्विबहुलस्त्रीपुरुषाद्यधिवचने तस्यासक्ततायामविवर्त्यज्ञानं धर्मादिप्रतिसंविद्"
नामकायादिवागालम्बनत्वादिति। न हि दुःखादिज्ञानमनास्रवं
दुःखैकदेशं समुदयैकदेशं वा स्वलक्षणाकारेणालम्बते, किं तर्हि ? पञ्चोपादान-
स्कन्धान् सामान्यलक्षणाकारैः। अतस्ते संवृतिज्ञानस्वभावे इति ॥ ३९ ॥
ऊर्ध्वं नामकायाभावादिति। आरूप्यधातौ धर्मप्रतिसंविन्नास्तीति।
यत्र च नामकायाः तत्रैव पदव्यञ्जनकाया इति तुल्यवार्ता। नामकायाभाव-
वचनेन पदव्यञ्जनकायाभावसिद्धिः।
ऊर्ध्वं वितर्काभावादिति। द्वितीयध्यानादिषु। "वितर्क्य विचार्य
वाचं भाषते" इति सूत्रम्। नामाद्यालम्बनत्वं पुनरासां प्रतिसंविदां समापन्न-
स्यापि। व्युत्थितस्यापि
भाषणं पुनस्तत्पृष्टेनैव।
स्त्रीपुरुषाद्यधिवचन इति। आदिशब्देन कालकारकादिसंग्रहः।
अधिवचनं पुनः पर्यायः। तदधिकृत्य वा वचनं तदधिवचनम्। तस्यासक्त-

निर्देशः ] सप्तमं कोशस्थानम् ११०५
इति। अत एवासां क्रमसिद्धिः। निर्वचनम् = निरुक्तिः। यथा—रूप्यते
तस्माद्रूपमित्येवमादि। उत्तरोत्तरप्रतिभा प्रतिभानमित्यपरे।
आसां च किल प्रतिसंविदां गणितं बुद्धवचनं शब्दविद्या हेतुविद्या च
पूर्वप्रयोगो यथाक्रमम्। नाप्येतेष्वकृतकौशलस्ता उत्पादयितुं शक्नोति।
बुद्धवचनमेव तु सर्वासां प्रयोगं वर्णयन्ति। यस्य चैका तस्यावश्यं
चतस्रः प्रतिसंविदो भवन्ति।
विकलाभैर्न तल्लाभी,
नहि विकलाभिस्ताभिः प्रतिसंविल्लाभी भवति।
ये चैत उपदिष्टा अरणादयो गुणाः,
षडेते प्रान्तकोटिकाः ॥ ४० ॥
प्रान्तकोटिकध्यानबलेनैषां लाभः ॥ ४० ॥
त् षड्विधम्,
तदपि प्रान्तकोटिकं चतुर्थं ध्यानं षडात्मकम्। अरणप्रणिधिज्ञानं
तिस्रः प्रतिसंविदः। तदेव प्रान्तकोटिकम्। निरुक्तिप्रतिसंविदस्तद्बलेन
लाभः, न तु सा चतुर्थध्यानभूमिः।
तायामिति। तस्याधिवचनस्य, तस्य पदव्यञ्जनस्य वा। अत एवासां
क्रमसिद्धिरिति। यथा पदव्यञ्जनगुणेन रेण्वार्द्रग्रन्थितानि, तन्मर्कटि बहुस्त्री-
पुरुषाद्यधिवचनम्, तस्यासक्ता—इत्यतः क्रमसिद्धिरिति।
तस्माद् रूपमित्येवमादि। आदिशब्देन विजानातीति विज्ञानम्,
चिनोतीति चित्तम्—इत्येवमादिसंग्रहः। उत्तरोत्तरप्रतिभा प्रतिभानमिति
वादन्यायेन।
यथाक्रममिति। धर्मप्रतिसंविदो गणितं पूर्वप्रयोगः। अर्थप्रति-
संविदो बुद्धवचनम्। निरुक्तिप्रतिसंविदः शब्दविद्या। प्रतिभानप्रति-
संविदो हेतुविद्येति। बुद्धवचनमेवेति वैभाषिकाः ॥ ४० ॥
“तत्षड्विधम्” इति। किञ्चित् चतुर्थं ध्यानमरणाम्तकम्, किञ्चित्
प्रणिधिज्ञानात्मकम्। किञ्चित् त्रिप्रतिसंविदात्मकम्। किञ्चित् तद्व्याकृतं
केवलं प्रान्तकोटिकम् इति। तिस्रः प्रतिसंविद इति। निरुक्तिप्रतिसंविदं
मुक्त्वा तत्र वितर्काभावात्। सवितर्कविचारेण तद्व्युत्थापनम्।
कथं तर्ह्यविशेषेणैतदुक्तम्—‘षडेते प्रान्तकोटिकाः’ ( अभि० को०
७.४० ) इति ? एते उच्यन्ते निरुक्तिप्रतिसंविदः तद्बलेन लाभो न तु सा

११०६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
किं पुनरिदं प्रान्तकोटिकं नाम ?
ध्यानमन्त्यम्,
चतुर्थं ध्यानम् ।
सर्वभूम्यनुलोमितम् ।
वृद्धिकाष्ठागतं तच्च,
कथं सर्वभूम्यनुलोमितम् ? कामावचराच्चित्तात् प्रथमं ध्यानं
समापद्यते, ततो द्वितीयम्, एवं क्रमेण यावन्नैवसंज्ञानासंज्ञायतनम् ।
प्रतिलोमं पुनर्यावत् कामावचरं चित्तम् । ततः पुनरनुलोमं यावच्चतुर्थ-
ध्यानम् । एवं सर्वभूम्यनुलोमितम् ।
कथं वृद्धिकाष्ठागतम् ? नवाभिनिर्हारात्—मृदुनो मध्यम्, मध्यादधिमात्रं
समापद्यते । वृद्धिप्रकर्षो हि वृद्धिकाष्ठा । इदमीदृशं प्रान्तकोटिकम्,
प्रगताऽन्ता¹ कोटिरस्येति कृत्वा । कोटिः पुनरत्र वृद्धिः, प्रकारो वा ।
चतुष्कोटिकवत् ।
एते पुनः बुद्धगु

निर्देशः ] सप्तमं कोशस्थानम् ११०७
ऋद्धिविषया¹ ज्ञानसाक्षात्क्रिया अभिज्ञा। दिव्यश्रोत्र-चेतःपर्याय-
नानुस्मृति-च्युत्युत्पादास्रवक्षयज्ञानसाक्षात्क्रिया² अभिज्ञाः ! एताः
दिव्यचेतःपर्यायपूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा इति ।
सूत्रं चात्र-
"इह भिक्षुरनेकविधम् ऋद्धिविषयं प्रत्यनुभवति । एको भूत्वा बहुधा
भवति, बहुधा भूत्वा एको भवति" इति विस्तरग्रन्थे ऋद्धिपादा इत्यत्र लिखितो
द्रष्टव्यः । यावत्, "इयमुच्यते-ऋद्धिविषयज्ञानसाक्षात्क्रियाभिज्ञेति । इह
भिक्षुर्दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्यकेन उभयान् शब्दान् शृणोति-
मानुषान् अमानुषानपि, ये वा दूरे ये वा अन्तिके इति इयमुच्यते-दिव्यश्रोत्र-
ज्ञानसाक्षात्क्रियाभिज्ञा । इह भिक्षुर्दिव्येन चक्षुषा विशुद्धे नातिक्रान्त-
मानुष्यकेन सत्त्वान् पश्यति" इति बहुः सूत्रवद् ग्रन्थः । यावद् "इयमुच्यते
दिव्यचक्षुर्ज्ञानसाक्षात्क्रियाभिज्ञा । इह भिक्षुरनेकविधं पूर्वनिवासमनुस्मरति"
इति सूत्रवद् ग्रन्थः । "इयमुच्यते-पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियाभिज्ञा ।
इह भिक्षुः परसत्त्वानां परपुद्गलानां वितर्कितं विचारितं³ मनसा मानसं
यथाभूतं प्रजानाति । सरागचित्तं 'सरागं चित्तम्' इति यथाभूतं प्रजा-
नाति, विगतरागं 'विगतरागम्' इति यथाभूतं प्रजानाति, सद्वेषम्,
विगतद्वेषम्, संमोहम्, विगतमोहम्, विक्षिप्तम्, संक्षिप्तम्, लीनम्,
प्रगृहीतम्, उद्धतम्, अनुद्धतम्, अव्युपशान्तम्, व्युपशान्तम्, समा-
हितम्, असमाहितम्, अभावितम्, भावितम्. अविमुक्तं चित्तम् 'अविमुक्तं
चित्तम्' इति यथाभूतं प्रजानाति । विमुक्तं चित्तं 'विमुक्तं चित्तम्' इति
यथाभूतं प्रजानाति, इयमुच्यते-प्रत्ययज्ञानसाक्षात्क्रियाभिज्ञा । इह भिक्षुः
'इदं दुःखमार्यसत्यम्' इति यथाभूतं प्रजानाति । 'अयं दुःखसमुदयः', 'अयं
दुःखनिरोधः', 'इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम्' इति यथाभूतं
प्रजानाति, तस्यैवं जानत एवं पश्यतः कामास्रवाच्चित्तं विमुच्यते, भवास्रवा-
च्चित्तं विमुच्यते, अविद्यास्रवाच्चित्तं विमुच्यते, विमुक्तस्य 'विमुक्तोऽस्मि-'
इति ज्ञानदर्शनं भवति- 'क्षीणा मे जातिः, यावत्, नायमस्मात् भवं
प्रजानामि' इति । इयमुच्यते-आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा ।"
ऋद्धिः = समाधिः । ऋद्धिविषयो निर्माणं गमनं च ऋद्धिविषये ज्ञानम्,
तस्य साक्षात्क्रिया = सम्मुखीभावः -
दिव्यं श्रोत्रम्, तत्र ज्ञानम्, तस्य साक्षात्क्रिया-दिव्यश्रोत्रज्ञानसाक्षात्क्रिया ।
१. ०विषये-का० । २. ०पूर्वनिवासा०त्युत्पादा०-का० ।
३. विचारितं-जा० ।

११०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
षडभिज्ञाः । आसां पञ्च पृथग्जनैः साधारणाः ।
सर्वास्त्वेताः—
मुक्तिमार्गक्षीः ॥ ४२ ॥
विमुक्तिमार्गप्रज्ञास्वभावाः श्रामण्यफलवत् ॥ ४२ ॥
चतस्रः संवृतिज्ञानम् ,
चेतःपर्यायास्रवक्षयज्ञानाभिज्ञे हित्वा ।
चेतसि ज्ञानपञ्चकम् ।
चेतःपर्यायाभिज्ञा पञ्च धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि ।
क्षयाभिज्ञा बलं यद्वत्,
यथास्रवक्षयज्ञानबलमुक्तं तथा वेदितव्या । षड् दश ज्ञानानीति ।
पर्यायो विशेषः । रक्तं द्विष्टं मूढमिति वा क्रमो वा पर्यायः । कदाचित्
रक्तम्, कदाचिद् द्विष्टम् मूढं चेति, तत्र ज्ञानम्, तस्य साक्षात्क्रिया ।
पूर्वे निवासः, 'स्कन्धेगः' इवालुक्, तस्यानुस्मृतिः, तत्र ज्ञानम्, तस्य
साक्षात्क्रियेति । च्युतिश्चोपपादश्च च्युत्युपपादौ, तयोर्ज्ञानम्, तस्य
साक्षात्क्रिया । आस्रवाणां क्षयः, तत्र ज्ञानम्, तस्य साक्षात्क्रियाभिज्ञेति
प्रत्येकमभिसम्बन्धः ।
श्रामण्यफलवदिति । यथा संस्कृतं श्रामण्यफलं विमुक्तिमार्गस्वभावम्,
तद्वत् ॥ ४२ ॥
“चेतसि ज्ञानपञ्चकम्” इति । चेतसि चेतःपर्यायैर्याभिज्ञा, सा
ज्ञानपञ्चकस्वभावेत्यर्थः । अनास्रवस्य परचित्तज्ञानस्य धर्मान्वयमार्गपरचित्त-
ज्ञानत्वसम्भवात् । सास्रवस्य च संवृतिपरचित्तज्ञानसम्भवात् ।
“बलं यद्वत्” इति । यथा आस्रवक्षयज्ञानबलम् । आस्रवक्षयज्ञानमास्रव-
क्षयालम्बनमिति चेत् ? षट् ज्ञानानि । निरोधज्ञानस्य धर्मान्वयक्षयानुत्पाद-
ज्ञानसंज्ञितत्वात् । संवृतिज्ञानस्य च निरोधालम्बनत्वसम्भवात् । आस्रवक्षये
सति यज्ज्ञानं क्षीणास्रवसन्ताने दशज्ञानसद्भावात् । एवमास्रवक्षये आलम्बन-
भूते याऽभिज्ञा सा चेदास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा, षड् ज्ञानानि ।
तद्वत् । आस्रवक्षये सति याऽभिज्ञा सा चेत्, दश ज्ञानानि तद्वदिति ।

कोशस्थानम् ११०६
Karika & text:
सर्वभूमिकाऽप्येषा तथैव ज्ञातव्या ।
शेषास्तु
पञ्च ध्यानचतुष्टये ॥ ४३ ॥
पञ्चाभिज्ञाः चतुर्ध्यानभूमिकाः ।
कस्मादारूप्यभूमिका न सन्ति ? तिस्रस्तावन्न सन्ति; रूपालम्बन-
त्वात् । चेतःपर्यायाभिज्ञापि नास्ति; रूपतीर्थाभिनिष्पाद्यत्वात्¹। पूर्वनिवास-
स्मृतिरप्यनुपूर्वावस्थान्तरस्मरणामिनिष्पत्तेः । स्थानगोत्राद्यालम्बनत्वाच्च ।
सर्वभूमिकाप्येषेति । 'बलं यद्वद्' इत्यनेनैव वचनेनायमर्थो लभ्यते ।
यस्माच्च 'पञ्चैव ध्यानचतुष्टये' इत्यवधार्यते, तस्मादपीयं षष्ठ्यभिज्ञा
सर्वभूमिकेति गम्यते ।
तिस्रस्तावन्न सन्तीति । ऋद्धि-दिव्यश्रोत्र-दिव्यचक्षुरभिज्ञाः । कस्मात् ?
रूपालम्बनत्वात् । नह्यारूप्याणां रूपमालम्बन

१११० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
परचित्तं हि ज्ञातुकाम आत्मनः कायचित्तयोर्निमित्तमुद्गृह्णाति—
कीदृशेऽपि मे काये कीदृशं चित्तं भवति । एवं परेषामप्याभुजतश्चित्तज्ञानादभि-
ष्पन्ना भवति । अभिनिष्पन्नायामभिज्ञायां रूपनिरपेक्षो जानाति ।
पूर्वनिवासं समनुस्मर्तुकामः समनन्तरनिरुद्धमनोविज्ञानो निमित्तमुद्गृह्य
प्रातिलोम्येन¹ अवस्थान्तराणि मनसिकरोति । यावत् सन्धिश्चित्तम् ।
ततोऽन्तराभवस्यैकक्षणं मरणोऽपि निष्पन्नो भवति । एवं परस्यापि स्मरति
अभिनिष्पन्नायां विलङ्घ्यापि स्मरणम् । अनुभूतपूर्वस्यैव स्मरणम् ।
शुद्धावासानां कथं स्मरणम् ? श्रवणेनानुभूतत्वात् । आरूप्यच्युत-
स्येहोपपन्नस्य परसन्तत्यधिष्ठानेनोत्पादनम् । अन्येषां स्वसन्तत्यधिष्ठानेन ।
ऋद्ध्यादीनां तु लघुत्वशब्दालोकमनसिकरणं प्रयोगः ॥ ४३ ॥
ताः पुनरेताः पञ्चाभिज्ञाः—
स्वाधोभूविषयाः,
यद्भूमिका ऋद्ध्यभिज्ञा भवति तां भूमिं तया गच्छति । निर्मिणोति
परचित्तं हि ज्ञातुकाम इति विस्तरः । आभुजत इति । आभोगं कुर्वतः ।
निमित्तमुद्गृह्णाति । चित्तप्रकारं परिच्छिद्येत्यर्थः । तत्प्रातिलोम्येनेति ।
तस्यैव चित्तस्य प्रतीपं समनन्तरनिरुद्धानि अवस्थान्तराणि मनसि करोति
विलङ्घ्यापि स्मरणमिति । एकं जन्म द्वे वा विलङ्घ्यापि व्यतिक्रम्यापि
स्मरणम् ।
शुद्धावासानां कथं स्मरणमिति । यद्यनुभूतपूर्वस्यैव स्मरणम्,
न हि शुद्धावासानामिहागमनमस्ति ; अनागामित्वात् तेन नैषामिहानुभूतिः ।
नापि तत्र, पृथग्जनानां तत्रानुपपत्तेः ? श्रवणेनानुभूतत्वादिति । श्रुतं हि
तेन भवति—शुद्धावासा नाम देवा एवम्भूता इति । द्विविधो ह्यनुभवः—
दर्शनानुभवः, स्मरणानुभवश्च । परसन्तत्यधिष्ठानेनोत्पादनमिति । ध्यान-
संगृहीतं पूर्वनिवासानुस्मृतिज्ञानम्, तेन चारूप्यावचरं चित्तं न गृह्णाति ।
कथं च पुनः परसन्तत्यधिष्ठानेनोत्पादनम् ? समनन्तरनिरुद्धान्मनोविज्ञानात्
परकीयं निमित्तमुद्गृह्णेति विस्तरः । अन्येषामिति । ये आरूप्येभ्यो न
प्रच्युताः, तेषां स्वसन्तत्यधिष्ठानेनैवोत्पादनम्; पूर्वनिवासानुस्मृतिज्ञानस्य
सुकरत्वात् ।
ऋद्ध्यादीनामिति । ऋद्धि-दिव्यश्रोत्र-दिव्यचक्षुरभिज्ञानां तिसृणां
यथाक्रमं लघुत्वमनसिकरणम् ऋद्धेः प्रयोगः । शब्दमनसिकरणं दिव्यश्रोत्रस्य ।
आलोकमनसिकरणं दिव्यचक्षुषः ॥ ४३ ॥
१. तत्समनन्तरप्राति०—का० ।

निर्देशः ] सप्तमं कोशस्थानम् १२११
वा अधराम्, नोत्तराम् । एवं दिव्यश्रोत्राभिज्ञया स्वभूमिकमेव शब्दं शृणोति
अधरभूमिकं वा, नोर्ध्वभूमिकम् । चेतःपर्यायाभिज्ञया नोर्ध्वभूमिकं चित्तं
जानाति । पूर्वनिवासानुस्मृत्या न स्मरति । च्युतोपपादाभिज्ञया न पश्यति ।
अत एवारूप्यभूमिकं चित्तं चेतःपर्यायपूर्वनिवासाभिज्ञाभ्यां न गृह्णाति;
ऊर्ध्वभूमिकत्वात् ।
कथमेता लभ्यन्ते ? अनुचिताः प्रयोगतः
लभ्याः, उचितास्तु विरागतः ।
जन्मान्तराभ्यस्ता अभिज्ञा वैराग्यतो लभ्यन्ते, वैशेषिक्यः प्रयोगतः ।
सर्वासाम् तु प्रयोगेणोत्पादनम् ।
तृतीया त्रीण्युपस्थानानि,
चेतःपर्यायाभिज्ञा त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि; चित्तचैत्ता-
लम्बनत्वात् ।
आद्यं श्रोत्रं द्विचक्षुषी ॥ ४४ ॥
'अभिज्ञा' इति वर्तते । ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञाः स्मृत्युपस्थान-
मित्यर्थः । रूपालम्बनत्वात् । ऋद्धिश्चतुर्बाह्यायतनालम्बना, अन्यत्र शब्दात् ।
दिव्यश्रोत्रचक्षुरभिज्ञे शब्दरूपायतनालम्बने ।
कथं तर्हि "च्युत्युपपादज्ञानेनैव १ अमी २ बत ३ भवन्तः सत्त्वाः काय-
कथमेता लभ्यन्त इति । प्राप्तिमधिकृत्य प्रश्नः । सम्मुखीभावस्तु
चित्तानाम् । अनुचितानां च प्रयोगत एव । अनुचिताः प्रयोगत इति ।
वैशेषिक्यो या अनुत्पादपूर्वाः । सर्वासाम् तु प्रयोगेणोत्पादनमिति । याश्च
वैराग्याल्लभ्यन्ते, याश्च प्रयोगतः, तासां सर्वासाम् ।
अन्यत्र शब्दादिति । उच्छेदित्वात् शब्दो न निर्मीयते । वक्ष्यति हि—
“कामाप्तं निर्मितं वाह्यं चतुरायतनम्” (अभि० को० ७.४९) इति ।
कथं तर्हीति विस्तरः । यदि चक्षुरभिज्ञा रूपायतनालम्बना, कथं
१. च्युतोपपाद०—का० । २. जानाति अमी—का० ।
३. का० पुस्तके नास्ति ।
अभि० को० ४ : ६

१११२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
दुश्चरितेन समन्वागताः” इत्येवमादि ? न तत्तेन जानाति । अभिज्ञापरिवार-
ज्ञानं तु तदन्यदार्याणामुत्पद्यते येनैवं जानन्ति । अनिर्धारणाच्छेषे चतुःस्मृत्यु-
पस्थानस्वभावे इति सिद्धम् ।। ४४ ।।
अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः ।
दिव्यचक्षुःश्रोत्राभिज्ञे अव्याकृते । ते पुनश्चक्षुःश्रोत्रविज्ञानसम्प्रयुक्तप्रज्ञे ।
कथं तर्हि ते चतुर्ध्यानभूमिके सिद्धयतः ? आश्रयवशेन तद्भूमि-
निर्देशात् । तदाश्रये हि चक्षुःश्रोत्र चतुर्ध्यानभूमिके । आनन्तर्यमार्गवशेन
वा । अन्याश्चतस्रः कुशलाः । यत्तर्हि प्रकरणेषूक्तम्—“अभिज्ञा कतमा ?
कुशला प्रज्ञा” ( ) इति ? प्राधानिक एष निर्देशः, बाहुलिको वा ।
तर्हि च्युत्युपपादज्ञानेन अमी बत भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता
इत्येवमादि । न वाङ्मनस्कर्मसमन्वागमाश्चक्षुर्विज्ञानेन गृह्यन्ते । आदि-
शब्देन मिथ्यादृष्टिग्रहणम् । न तदिति । तद् वाङ्मनस्कर्मसमन्वागमादि
तेन चक्षुर्ज्ञानेन न जानाति । केन तर्हि ? इत्याह—अभिज्ञापरिवारज्ञानं तु
तदिति । मानसं तदित्यर्थः । शेषे इति । पूर्वेनिवासानुस्मृति-आस्रवक्षयाभिज्ञे ।
ते चतुःस्मृत्युपस्थानस्वभावे । कथम् ? आस्रवक्षयाभिज्ञा चतुःस्मृत्युप-
स्थानस्वभावा; दशज्ञानस्वभावत्वात् । षड्ज्ञानस्वभावत्वेऽपि कायवेदना-
चित्तस्मृत्युपस्थानान्यपि अन्यगतानि भाव्यन्ते ।। ४४ ।।
कथं तर्हि ते चतुर्ध्यानभूमिके सिद्धयतः ? न हि द्वितीयादिध्यान-
भूमिकं चक्षुर्ज्ञानं श्रोत्रज्ञानं वास्ति; चक्षुःश्रोत्रविज्ञानसम्प्रयुक्तत्वात् ।
तयोश्च द्वितीयादिषु ध्यानेषु अभावात् । वक्ष्यति हि—
“कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
द्वितीयादौ तदाद्याप्तम्” (अभि० को० ८.१३) इति ।
आश्रयवशेनेति विस्तरः । चक्षुःश्रोत्राश्रयवशेन तज्ज्ञानयोरपि
चतुर्ध्यानभूमिकत्वम् । चक्षुःश्रोत्रे चतुर्ध्यानभूमिके व्यवस्थाप्येते । प्राधानिक
एष निर्देशो बाहुलिको वेति । प्रधाने भवः प्राधानिकः । एवं बाहुलिकः ।
कुशला अभिज्ञा प्रधानभूता । अतस्तदपेक्ष्यनिर्देशः क्रियते—कुशला प्रज्ञा
अभिज्ञेति । अथवा—बाहुल्येनाभिज्ञाः कुशलाः । अत एवं निर्देश इति ।
मुद्गादिभावेऽपि माषराशिवद्व्यपदेशवत् ।।