अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1127, कुल 1258 में से
संदर्भ में पढ़ें११०४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे
सा सर्वत्र,
सा पुनरेषार्थप्रतिसंवित् सर्वभूमिका।
अन्ये तु सांवृतम् ॥ ३९ ॥
अन्ये तु द्वे धर्मनिरुक्तिप्रतिसंविदौ संवृतिज्ञानस्वभावे; नामकायादि-
वागालम्बनस्वभावत्वात् ॥ ३९ ॥
कामध्यानेषु धर्मे वित्,
धर्मप्रतिसंवित् पञ्चभूमिका
नामकायाभावात्।
वाचि प्रथमकामयोः।
वाङ्निरुक्तिरित्येकोऽर्थः। निरुक्तिप्रतिसंवित्कामधातुप्रथमध्यानभूमिका;
ऊर्ध्वं वितर्काभावात्।
प्रज्ञप्तौ तु प्रतिसंविदामेव निर्देशः। "पदव्यञ्जने तस्यैवार्थे तस्यैक-
द्विबहुलस्त्रीपुरुषाद्यधिवचने तस्यासक्ततायामविवर्त्यज्ञानं धर्मादिप्रतिसंविद्"
नामकायादिवागालम्बनत्वादिति। न हि दुःखादिज्ञानमनास्रवं
दुःखैकदेशं समुदयैकदेशं वा स्वलक्षणाकारेणालम्बते, किं तर्हि ? पञ्चोपादान-
स्कन्धान् सामान्यलक्षणाकारैः। अतस्ते संवृतिज्ञानस्वभावे इति ॥ ३९ ॥
ऊर्ध्वं नामकायाभावादिति। आरूप्यधातौ धर्मप्रतिसंविन्नास्तीति।
यत्र च नामकायाः तत्रैव पदव्यञ्जनकाया इति तुल्यवार्ता। नामकायाभाव-
वचनेन पदव्यञ्जनकायाभावसिद्धिः।
ऊर्ध्वं वितर्काभावादिति। द्वितीयध्यानादिषु। "वितर्क्य विचार्य
वाचं भाषते" इति सूत्रम्। नामाद्यालम्बनत्वं पुनरासां प्रतिसंविदां समापन्न-
स्यापि। व्युत्थितस्यापि
भाषणं पुनस्तत्पृष्टेनैव।
स्त्रीपुरुषाद्यधिवचन इति। आदिशब्देन कालकारकादिसंग्रहः।
अधिवचनं पुनः पर्यायः। तदधिकृत्य वा वचनं तदधिवचनम्। तस्यासक्त-