सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1122, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1122

निर्देशः ] सप्तमं कोशस्थानम् १०६६
अथ च पुनर्बालाः स्वगुणदारिद्रयहताधिमोक्षाः शृण्वन्तोऽपि तां
तादृशीं गुणसमृद्धिं बुद्धं च नाद्रियन्ते, तस्य च धर्मम् ।
पण्डितास्तु पुनर्मज्जाभिरपि तं भगवन्तमभिप्रपद्यन्ते, तस्य च धर्मम् ।
ते हि श्रद्धामात्रकेणाप्येकान्तिकेनाभिप्रसन्ना अनियतविपाकानां पापानां
राशीनभिभूय दैवीं मानुषीं च श्रियमभिभूय निर्वाणपरायणाः संवर्तन्ते ।
अतएव तथागता अनुत्तरं पुण्यक्षेत्रमुच्यन्ते; अबन्ध्येष्टप्रकृष्टाशुस्वन्त-
फलत्वात् ।
उक्तं हि भगवता-
“येऽन्यानपि जिने कारान् कारयन्ति विनायके ।
विचित्रं स्वर्गमागम्य ते लप्स्यन्तेऽमृतं पदम् ॥” ( ) इति ।
इमे तावदष्टादश बुद्धानामावेणिका धर्मा उच्यन्ते ॥ ३४ ॥
शिष्यसाधारणा अन्ये धर्माः,
श्रावकसाधारणास्त्वन्ये गुणा बुद्धानाम् ।
केचित् पृथग्जनैः ।
के पुनस्ते इति ? यथायोगम्
अरणप्रणिधिज्ञानप्रतिसंविद्गुणादयः ॥ ३५ ॥
अथ च पुनर्बालाः पृथग्जनाः स्वगुणदारिद्र्ये ऽनुमानभूतेन हताधि-
मोक्षाः हतरुचयः यावत् बुद्धं नाद्रियन्ते । बुद्धे नादरं कुर्वन्तीत्यर्थः ।
श्रद्धामात्रकेणापीति । निरधिगमेनेत्यर्थः । अनियतविपाकानामिति ।
नियतविपाकानामलङ्घनीयत्वादित्यभिप्रायः । देवेषु भवा दैवी । अबन्ध्येष्ट-
प्रकृष्टाशुस्वन्तफलत्वादिति । अवन्ध्यफलं फलदाननैयत्येनावस्थानात् ।
इष्टफलं दिव्यविपुलफलत्वात् । प्रकृष्टफलं प्रभूतफलत्वात् । आशुफलं
दृष्टधर्मादिवेदनीयफलत्वात् । स्वन्तफलं निर्वाणफलत्वात् । तद्भावात् ।
अनुत्तरं पुण्यक्षेत्रमुच्यते तथागत इति ।
कारानिति । उपकारान् पूजादिकान् ॥ ३४ ॥
यथायोगमिति । यथासम्भवम् । केचिद् गुणाः श्रावकसाधारणाः
बुद्धानां भगवतां अरण-प्रणिधि-ज्ञानादयः । केचित् पृथग्जनसाधारणाः