सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1128, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1128

निर्देशः ] सप्तमं कोशस्थानम् ११०५
इति। अत एवासां क्रमसिद्धिः। निर्वचनम् = निरुक्तिः। यथा—रूप्यते
तस्माद्रूपमित्येवमादि। उत्तरोत्तरप्रतिभा प्रतिभानमित्यपरे।
आसां च किल प्रतिसंविदां गणितं बुद्धवचनं शब्दविद्या हेतुविद्या च
पूर्वप्रयोगो यथाक्रमम्। नाप्येतेष्वकृतकौशलस्ता उत्पादयितुं शक्नोति।
बुद्धवचनमेव तु सर्वासां प्रयोगं वर्णयन्ति। यस्य चैका तस्यावश्यं
चतस्रः प्रतिसंविदो भवन्ति।
विकलाभैर्न तल्लाभी,
नहि विकलाभिस्ताभिः प्रतिसंविल्लाभी भवति।
ये चैत उपदिष्टा अरणादयो गुणाः,
षडेते प्रान्तकोटिकाः ॥ ४० ॥
प्रान्तकोटिकध्यानबलेनैषां लाभः ॥ ४० ॥
त् षड्विधम्,
तदपि प्रान्तकोटिकं चतुर्थं ध्यानं षडात्मकम्। अरणप्रणिधिज्ञानं
तिस्रः प्रतिसंविदः। तदेव प्रान्तकोटिकम्। निरुक्तिप्रतिसंविदस्तद्बलेन
लाभः, न तु सा चतुर्थध्यानभूमिः।
तायामिति। तस्याधिवचनस्य, तस्य पदव्यञ्जनस्य वा। अत एवासां
क्रमसिद्धिरिति। यथा पदव्यञ्जनगुणेन रेण्वार्द्रग्रन्थितानि, तन्मर्कटि बहुस्त्री-
पुरुषाद्यधिवचनम्, तस्यासक्ता—इत्यतः क्रमसिद्धिरिति।
तस्माद् रूपमित्येवमादि। आदिशब्देन विजानातीति विज्ञानम्,
चिनोतीति चित्तम्—इत्येवमादिसंग्रहः। उत्तरोत्तरप्रतिभा प्रतिभानमिति
वादन्यायेन।
यथाक्रममिति। धर्मप्रतिसंविदो गणितं पूर्वप्रयोगः। अर्थप्रति-
संविदो बुद्धवचनम्। निरुक्तिप्रतिसंविदः शब्दविद्या। प्रतिभानप्रति-
संविदो हेतुविद्येति। बुद्धवचनमेवेति वैभाषिकाः ॥ ४० ॥
“तत्षड्विधम्” इति। किञ्चित् चतुर्थं ध्यानमरणाम्तकम्, किञ्चित्
प्रणिधिज्ञानात्मकम्। किञ्चित् त्रिप्रतिसंविदात्मकम्। किञ्चित् तद्व्याकृतं
केवलं प्रान्तकोटिकम् इति। तिस्रः प्रतिसंविद इति। निरुक्तिप्रतिसंविदं
मुक्त्वा तत्र वितर्काभावात्। सवितर्कविचारेण तद्व्युत्थापनम्।
कथं तर्ह्यविशेषेणैतदुक्तम्—‘षडेते प्रान्तकोटिकाः’ ( अभि० को०
७.४० ) इति ? एते उच्यन्ते निरुक्तिप्रतिसंविदः तद्बलेन लाभो न तु सा