अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1120, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] सप्तमं कोशस्थानम् १०६७
चतुर्विधा फलसम्पत्—ज्ञानसम्पत्, प्रहाणसम्पत्, प्रभावसम्पत्,
रूपकायसम्पच्च ।
चतुर्विधप्रकारसम्पत्—अपायत्रयसंसारदुःखात्यन्तनिर्मोक्षसम्पत्, यान-
त्रयसुगतिप्रतिष्ठापनसम्पद्वा ।
ज्ञानसम्पत् पुनश्चतुर्विधा—अनुपदिष्टज्ञानम्, सर्वत्रज्ञानम्, सर्वथा-
ज्ञानम्, अयत्नज्ञानम् च ।
चतुर्वि प्रहाणसम्पत्—सर्वक्लेशप्रहाणम्, अत्यन्तप्रहाणम्,
सवासनप्रहाणम्, सर्वसमाधिसमापत्त्यावरणप्रहाणं च ।
चतुर्विधा प्रभावसम्पत्—बाह्यविषयनिर्माणपरिणामाधिष्ठान-
सत्कृत्याभ्यासः तीव्रादरतया । चतुर्विधाः फलसम्पद इति । धर्मकायपरि-
निष्पत्त्या ज्ञानादिसम्पदश्चतस्रो भवन्तीति ता अपि फलसम्पद इति
व्यवस्थाप्यन्ते । ज्ञानसम्पत् चतुर्विधेति वक्ष्यति । तथा प्रहाणसम्पत्,
प्रभावसम्पत्, रूपकायसम्पत् च चतुर्विधेति वक्ष्यति । तदेवासां व्याख्यानं
भविष्यति । चतुर्विधोपकारसम्पत् । कथम् ? इत्याह—अपायत्रयसंसार-
दुःखात्यन्तनिर्मोक्षसम्पदिति । अपायत्रयं च नरकादि, संसारश्च, तयोर्दुःखम् ।
ततोऽत्यन्तनिर्मोक्षः, सैव सम्पदिति । यानत्रयसुगतिप्रतिष्ठापनसम्पदिति ।
यानत्रये च श्रावकयानादौ, सुगतौ च प्रतिष्ठापनम्, सैव सम्पदिति । इयं वा
चतुर्विधोपकारसम्पत् ।
अनुपदिष्टज्ञानमिति । स्वयमभिसम्बोधनार्थेन । सर्वत्र ज्ञानमिति ।
निरवशेषस्वलक्षणावबोधनार्थेन । सर्वथाज्ञानमिति । सर्वप्रकारावबोध-
नार्थेन । अयत्नज्ञानमिति । इच्छामात्रावबोधनार्थेन ।
सर्वक्लेशप्रहाणमिति । त्रैधातुकदर्शनभावनाहेयक्लेशोच्छित्तेः ।
अत्यन्तप्रहाणमिति । अपरिहाणितः । सवासनाप्रहाणमिति । अनुबन्धा-
भावतः । सर्वसमाधिसमापत्त्यावरणप्रहाणमिति । उभयतोभागविमुक्तेः ।
बाह्यविषयनिर्माणपरिणामाधिष्ठानवशित्वसम्पदिति । तत्राऽपूर्व-
बाह्यविषयोत्पादनं निर्माणम्, अश्मादीनां सुवर्णादिभावापादनं परिणामः,
दीर्घकालावस्थानमधिष्ठानमिति । आयुष उत्सर्गेऽधिष्ठाने च वशित्व-
सम्पद् आयुरुत्सर्गाधिष्ठानवशित्वसम्पदिति । आवृतेति विस्तरः ।
आवृतगमनं च, आकाशगमनं च, सुदूर-क्षिप्रगमनं च ।१ अल्पे बहूनां प्रवेशः
१. ब्राह्मणादिति अनवद् एकशेषः । —इत्येतावानधिकः पाठोऽत्र जा० पुस्तके
मुद्रितो दृश्यते ।