सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1126, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1126

निर्देशः ] सप्तमं कोशस्थानम् ११०३
'अविवर्त्यं ज्ञानम्' इति वर्तते। युक्तमुक्ताभिलापिताया समाधिवशि-
सम्प्रख्यानम्¹, तत्र चाविवर्त्यं ज्ञानं प्रतिभानप्रतिसंवित्² ॥ ३८ ॥
वाङ्मार्गालम्बना चासौ,
वाक्च मार्गश्च तस्याः आलम्बनम्।
नव ज्ञानानि,
नवज्ञानस्वभावा प्रतिभानप्रतिसंविद्; अन्यत्र निरोधज्ञानात्।
सर्वभूः।
सर्वभूमिका चासौ कामधातौ यावद् भवाग्रे; वाङ्मार्गयोरन्यतरा-
लम्बनात्।
दश षड् वाऽर्थसंवित्,
अर्थधर्मसंवित् सर्वधर्मश्चेदर्थः³. दश ज्ञानानि। निर्वाणं चेदर्थः,
षड् ज्ञानानि
युक्तमुक्ताभिलापितायामिति। युक्तमर्थसम्बन्धम्, मुक्तमसक्तम्,
युक्तमुक्तमभिवदतीति युक्तमुक्ताभिलापी, तद्भावः, तस्याम् युक्तमुक्ताभिलापि-
तायाम्। समाधौ वशी समाधिवशी, समाधिवशिनः सम्प्रख्यानम् = असम्मोहः
समाधिवशिसम्प्रख्यानम्, तत्र चाविवर्त्तव्यं ज्ञानं प्रतिभानप्रतिसंविदिति
विशेष ॥ ३८ ॥
कथं नवज्ञानस्वभावा प्रतिभानप्रतिसंवित्। या वागालम्बना सा
दुःखसमुदयधर्मान्वयक्षयानुत्पादसंवृतिज्ञानस्वभावा, या मार्गालम्बना सा
मार्गधर्मान्वयक्षयानुत्पादपरचित्तसंवृतिज्ञानस्वभावा—इत्यभिसमस्य नवज्ञान-
स्वभावा; अन्यत्र निरोधज्ञानात्।
सर्वधर्माश्चेदर्थो दश ज्ञानानीति। न हि सोऽस्ति धर्मः, यो दशानां
ज्ञानानां यथासम्भवं नालम्बनीभवति। निर्वाणं चेदर्थः, षट् ज्ञानानीति।
निरोधज्ञानस्य धर्मज्ञानादिपञ्चस्वभावत्वात्।
१ ०प्रख्याने--का०।
२. प्रतिमानसंवित्--का०।
३. ०दर्था--का०।