सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1131, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1131

११०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
षडभिज्ञाः । आसां पञ्च पृथग्जनैः साधारणाः ।
सर्वास्त्वेताः—
मुक्तिमार्गक्षीः ॥ ४२ ॥
विमुक्तिमार्गप्रज्ञास्वभावाः श्रामण्यफलवत् ॥ ४२ ॥
चतस्रः संवृतिज्ञानम् ,
चेतःपर्यायास्रवक्षयज्ञानाभिज्ञे हित्वा ।
चेतसि ज्ञानपञ्चकम् ।
चेतःपर्यायाभिज्ञा पञ्च धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि ।
क्षयाभिज्ञा बलं यद्वत्,
यथास्रवक्षयज्ञानबलमुक्तं तथा वेदितव्या । षड् दश ज्ञानानीति ।
पर्यायो विशेषः । रक्तं द्विष्टं मूढमिति वा क्रमो वा पर्यायः । कदाचित्
रक्तम्, कदाचिद् द्विष्टम् मूढं चेति, तत्र ज्ञानम्, तस्य साक्षात्क्रिया ।
पूर्वे निवासः, 'स्कन्धेगः' इवालुक्, तस्यानुस्मृतिः, तत्र ज्ञानम्, तस्य
साक्षात्क्रियेति । च्युतिश्चोपपादश्च च्युत्युपपादौ, तयोर्ज्ञानम्, तस्य
साक्षात्क्रिया । आस्रवाणां क्षयः, तत्र ज्ञानम्, तस्य साक्षात्क्रियाभिज्ञेति
प्रत्येकमभिसम्बन्धः ।
श्रामण्यफलवदिति । यथा संस्कृतं श्रामण्यफलं विमुक्तिमार्गस्वभावम्,
तद्वत् ॥ ४२ ॥
“चेतसि ज्ञानपञ्चकम्” इति । चेतसि चेतःपर्यायैर्याभिज्ञा, सा
ज्ञानपञ्चकस्वभावेत्यर्थः । अनास्रवस्य परचित्तज्ञानस्य धर्मान्वयमार्गपरचित्त-
ज्ञानत्वसम्भवात् । सास्रवस्य च संवृतिपरचित्तज्ञानसम्भवात् ।
“बलं यद्वत्” इति । यथा आस्रवक्षयज्ञानबलम् । आस्रवक्षयज्ञानमास्रव-
क्षयालम्बनमिति चेत् ? षट् ज्ञानानि । निरोधज्ञानस्य धर्मान्वयक्षयानुत्पाद-
ज्ञानसंज्ञितत्वात् । संवृतिज्ञानस्य च निरोधालम्बनत्वसम्भवात् । आस्रवक्षये
सति यज्ज्ञानं क्षीणास्रवसन्ताने दशज्ञानसद्भावात् । एवमास्रवक्षये आलम्बन-
भूते याऽभिज्ञा सा चेदास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा, षड् ज्ञानानि ।
तद्वत् । आस्रवक्षये सति याऽभिज्ञा सा चेत्, दश ज्ञानानि तद्वदिति ।