अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1118, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] सप्तमं कोशस्थानम् १०६५
करुणामहाकरुणयोः किं नानाकरणम् ?
नानाकरणमष्टधा ॥ ३३ ॥
स्वभावतः; अद्वेषामोहस्वभावत्वात् । आकारतः; एकत्रिदुःखताकार-
त्वात् । आलम्बनतः; एकत्रैधात्वालम्बनत्वात् । भूमितः; चतुर्ध्यानचतुर्थ-
ध्यानभूमिकत्वात् । सन्तानतः; श्रावकादिबुद्धसन्तानजत्वात् । लाभतः;
कामभवाग्रवैराग्यलभ्यत्वात्१ । अपरत्राणापरित्राणतः; अतुल्यतुल्यकरणा-
यनाच्च ॥ ३३ ॥
करोतीति महाकरुणा । आकारेण त्रिदुःखताकरणात् । यस्मात् तिसृ-
भिरपि दुःखताभिराकारयति, न दुःखदुःखतयैव, करुणावत् । आलम्बनेन
त्रैधातुकसत्त्वालम्बनत्वात् । यस्मात् त्रैधातुकोपपन्नान् सत्त्वान् आलम्बते,
न च कामधातुपपन्नानेव, करुणावत् । "कामसत्त्वास्तु गोचर" इति
वचनात् ।
समत्वेन सर्वसत्त्वेषु समवृत्तित्वात् । यस्मात् सर्वसत्त्वेषु त्रैधातुकपर्या-
पन्नेषु समं वर्तते संस्कारदुःखताकारेण, अतोऽपि महाकरुणेत्युच्यते ।
ततोऽधिमात्रतराभावादिति । प्रज्ञास्वभावतया तीक्ष्णतरत्वात् । यथा हि
तया करुणायते, न तथा करुणयेति ।
नानाकरणम् विशेषः ।
अद्वेषामोहस्वभावत्वादिति । यथाक्रमं करुणाया अद्वेषस्वभावत्वात्,
महाकरुणायाश्चामोहस्वभावत्वादित्यर्थः । एकत्रिदुःखताकारत्वादिति ।
एकदुःखताकारत्वात् करुणायाः, त्रिदुःखताकारत्वाच्च महाकरुणायाः—
इत्युभयत्रापि सर्वत्र यथासंख्येन योजयितव्यम् ।
चतुर्ध्यानचतुर्थध्यानभूमिकत्वादिति । करुणा चतुर्ध्यानभूमिका ।
अनागम्यध्यानान्तरयोः प्रथमध्यानाहरणेन ग्रहणात् षड्भूमिकेत्युक्तम् । महा-
करुणा तु चतुर्थध्यानभूमिकैव, सर्वसमाधिकर्मण्यत्वेन तस्यैव तदुत्पादन-
समर्थत्वात् । श्रावकादिबुद्धसन्तानजत्वादिति । आदिशब्देन प्रत्येकबुद्ध-
पृथग्जनानां ग्रहणम् । कामभवाग्रवैराग्यलब्धत्वादिति । कामवैराग्यलभ्या
करुणा । भवाग्रवैराग्यलभ्या महाकरुणा । अपरत्राणपरित्राणत इति ।
करुणया श्रावकादयः करुणायन्त एव । केवलमनुग्लायन्त्येवेत्यर्थः । न
संसारभयात् परित्रायन्ते२ । अतुल्यतुल्यकरणायनात् । करुणया अतुल्यं
करुणायते; दुःखितानामेव करुणायनात् । महाकरुणया तु तुल्यम्;
सर्वसत्त्वसमकरणायनात् ॥ ३३ ॥
१. कामधातुभवा०—का० । २. परित्रायते—जा० ।
अभि० को० ४ : ५