अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
। आदिवीजवत् । योगशब्दोऽत्र न्यायार्थः । समुदायः
प्रादुर्भावयोगेनेति । संनिकृष्टावस्थां हेतोर्दर्शयति । यतः क्षणादनन्तर-
मुत्पद्यते, समुदेत्यस्मादिति कृत्वा । प्रभवः प्रबन्धयोगेनेति । सन्ततियोगे-
नानुच्छेदं दर्शयति । वीजाङ्कुरकाण्डनालादिवत् । अभिनिष्पादनार्थेन
प्रत्यय इति । हेत्वादिभ्यो बहुभ्य उत्पद्यत इति दर्शयति । तद्यथा
मृत्पिण्डदण्डादिभ्यो बहुभ्यो निष्पाद्यते घटः, तद्वत् । अग्निनिर्वाणादिति ।
रागद्वेषमोहाग्निनिर्वाणादित्यर्थः । निरुपद्रवत्वादिति । निर्दुःखत्वादित्यर्थः ।
सर्वोपक्षालवियुक्तत्वादिति । सर्वदुःखकारणविमुक्तत्वात् । गमनार्थेन ।
निर्वाणस्य । योगयुक्तत्वाद् ! उपाययुक्तत्वाद्वा ।
सम्यक्प्रतिपादनार्थेन प्रतिपदिति । प्रतिपद्यते निर्वाणमनयेति प्रतिपत् ।
नैर्याणिक इति । अत्यन्तं निर्याणाय प्रभवतीति नैर्याण
निर्देशः ] सप्तमं कोशस्थानम् १०५९
णार्थेन प्रत्यय इति । असम्बन्धः सम्बन्धोपरमान्निरोधः १ । त्रिसंस्कृत-
लक्षणविमुक्तत्वाच्छान्तः । कुशलत्वात् प्रणीतः । परमाश्वासत्वान्निःसरणा-
मिति । कुमार्गविपक्षेण मार्गः । अन्यायविपक्षेण न्यायः । निर्वाणपुराविरोध-
नार्थेन प्रतिपत् । सर्वभवप्रतिपक्षत्वान्नैर्याणिक इति । एषां व्याख्यान-
मनेकपर्यायः । यथाभिप्रेतं प्रवक्ष्यामः । उदयव्ययत्वादनित्यम् । प्रतिकूल-
भावात् दुःखम् । आत्मरहितत्वाच्छून्यम् । स्वयमनात्मत्वादनात्मा ।
हेतुसमुदयप्रभवप्रत्ययत्वं तु यदेव सूत्र उक्तम्- "इमे पञ्चोपादानस्कन्धा-
श्छन्दमूलकाश्छन्दसमुदयाश्छन्दजातीयाश्छन्दप्रभवाः" इति । प्रभवशब्दः
केवलं पश्चात् पठितव्यः शास्त्रे ।
कः पुनरेषां छन्दानां विशेषः ? चतुर्विधो हि छन्दः । अस्मीत्यभेदे-
नात्मभावच्छन्दः । स्यामित्यभेदेन पुनर्भवच्छन्दः । इत्थं स्यामिति भेदेन
पुनर्भवच्छन्दः । प्रतिसन्धिवन्धच्छन्दश्चतुर्थः । कर्माभिसंस्कारच्छन्दो वा ।
अस्मादुत्पद्यत इत्यर्थः । उन्मज्जनयोगेनेति । अनागताध्वन उन्मज्जती-
वेति अर्थः । प्रसरणयोगेनेति । प्रबन्धयोगेन । प्रतिसरणार्थेन प्रत्यय
इति । जनिक्रियाप्रतिप्रधानभूत इत्यभिप्रायः । असम्बन्धः सम्बन्धोपरमा-
दिति । पूर्वस्य दुःखस्योपरमात् । उत्तरस्य सम्बन्धोपरमो निरोध इत्यर्थः ।
त्रिसंस्कृतलक्षणविमुक्तत्वाद् । उत्पाद-व्यय-स्थित्यन्यथात्वविमुक्तत्वात् ।
परमाश्वासत्वादिति । सर्वदुःखोच्छित्या परमक्षेमत्वात् । निर्वाणपुरा-
विरोधनार्थेन प्रतिपदिति । यस्मादनेन निर्वाणपुरं न विरोध्यते, न विसंवा-
द्यते, किं तर्हि ? प्रतिपद्यत एवेत्यतः प्रतिपत् । प्रतिपद्यत अनयेति कृत्वा ।
छन्दमूलका इति । छन्दहेतुका इत्यर्थः । तृष्णापर्याय इह छन्दः ।
छन्दसमुदया इति । छन्दसमुद्गमा इत्यर्थः । छन्दजातीया इति । छन्द-
प्रत्यया इत्यर्थः । प्रभवशब्दः केवलं पश्चात् पठितव्यः । आभिधर्मिकैरिति
वाक्याध्याहारः । सूत्रानुसरणं हि कर्तव्यमित्यभिप्रायः । हेतुतः समुदयतः
प्रत्ययतः प्रभवतश्चेति ।
कः पुनरेषां छन्दानां विशेषः ? अस्मीत्यभेदेनात्मभावश्छन्द इति ।
अनवधार्यकं द्रव्यं समस्तेषु पञ्चसूपादानस्कन्धेषु अस्मीत्यभेदेन प्रकारान्तर-
विशिष्टस्य प्रत्युत्पन्नस्यात्मभाववस्तुनोऽनालम्बनतः त्रैध्विकात्मभावाना-
लम्बनतो वा आत्मभावप्रार्थना आत्मभावच्छन्द इति प्रथमः । स्यामित्य-
भेदेनेति । पुनर्भवमात्रप्रार्थना, न विशेषरूपा प्रार्थनेति द्वितीयः । इत्थं
१ ०परमत्वा०-का० ।
तत्र प्रथमो दुःखस्यादिकारणत्वान्मूलहेतुः । फलस्येव बीजम् । द्वितीयः
समुदायः, तेन तत्समुदागमात् फलस्येवाङ्कुरादिप्रसवः । तृतीयस्तज्जातीयदुःख-
प्रत्ययः । फलस्येव क्षेत्रोदकपाश्यादिकम् । क्षेत्रादिवशेन हि फलस्य
गन्धरसवीर्यविपाकप्रभावभेदा भवन्ति । चतुर्थः प्रभवस्तत एव तत्सम्भवात् ।
फलस्येव पुष्पावसानमिति ।
अथ च¹ तृष्णाविचरितानां द्वौ पञ्चकौ, द्वौ चतुष्कौ, चत्वारश्छन्दाः ।
“अस्मीति भिक्षवः सति इत्थमस्मीति भवति, एवमस्मीति भवति, अन्यथाऽ-
स्यामिति । इदम्प्रकारः स्यामिति भेदेन पुनर्भवच्छन्दस्तृतीयः । प्रति-
सन्धिबन्धच्छन्दश्चतुर्थ इति । प्रतिसन्धिरैव बन्धः, प्रतिसन्धेर्वा बन्धः
प्रतिसन्धिबन्धः, तत्र छन्दः प्रार्थनेति चतुर्थः । कर्माभिसंस्कारच्छन्दो वा ।
चतुर्थ इत्यधिकृतम् । कर्मणो वाभिसंस्कारः, तत्र छन्दः—एवं चैवं च
दानं दास्यामीति । कथं पुनस्ते च्छन्दा मूलादिशब्दवाच्या इति प्रतिपाद-
यन्नाह—तत्र प्रथम इति विस्तरः । आदिः कारणम्, आदौ वा कारणम्
आदिकारणम् । तद्भावाच्छन्दमूलका । हेत्वर्थो हि मूलशब्दः । फलस्येव
बीजमिति । यथा फलस्य बीजमादिकारणम्, विप्रकृष्टकारणं तद्वदय-
मादिच्छन्दो दुःखस्य । तेन तत्समुदागमादिति । तेन द्वितीयेन च्छन्देन
पुनर्भवस्य समुदागमात् क्षणपरम्परया । फलस्येवाङ्कुरादिप्रसवः । यथा
परम्परया अङ्कुरादिप्रसवः फलस्य समुदायः, तद्वत् । तृतीयश्छन्दः—इत्थं
स्यामिति । तज्जातीयदुःखप्रत्यय इति । यत्प्रकारः पुनर्भवच्छन्दः तत्प्र-
कारस्य दुःखस्य प्रत्ययः सम्भवति । तस्य विशेषरूपत्वात् विशेषफलरूपमेव
फलमुत्पद्यत इत्यभिप्रायः । फलस्यैव क्षेत्रोदकपाश्यादिकमिति । पाशिः =
शुष्को गोमयः । आदिशब्देन वातातपादिगृह्यते । ततोऽपि हि फलसम्प-
दिति । वीर्यम् । शीतवीर्यता, उष्णवीर्यतेति । विपाकः । उष्णपरिणामता,
मधुरपरिणामतेति । प्रभावः । सामर्थ्यविशेषः । तद्यथा—अम्लत्वे तुल्ये
बीजपूरकरसः पित्तं जनयति, आमलकरसस्तु शमयतीति । तत एव तत्स-
म्भवादिति । तत एव प्रतिसन्धिवन्धच्छन्दात् तस्य प्रतिसन्धिबन्धस्य
पुनर्भव लक्षणस्य सम्भवादुत्पादात् । फलस्येव पुष्पावसानम् । यथा पुष्पा-
वसानं फलस्य प्रभवः, तद्वत् । अत्र चतुर्थच्छन्दः साक्षाद्धेतुः पुनर्भवस्य, पूर्व-
कास्त्रयः पारम्पर्येण हेतवः । अथ चेति विस्तरः । तृष्णाविचरितानां द्वौ
पञ्चकौ गणौ द्वौ चतुष्कौ चत्वारश्छन्दा यथाक्रमं भवन्ति । प्रथमच्छन्दः
पञ्चाकारः, द्वितीयोऽपि पञ्चाकारः, तृतीयः चतुःप्रकारः, चतुर्थोऽपि चतुः-
१. वा०—का० ।
निर्देशः ] सप्तमं कोशस्थानम् १०६१
स्मीति, सदस्मीति, असदस्मीति । भविष्यामीत्यस्य भवति—न भविष्यामि,
इत्थं भविष्यामि, एवं भविष्यामि, अन्यथा भविष्यामि । स्यामित्यस्य
भवति—इत्थं स्याम्, एवं स्याम्, अन्यथा स्याम्, अपितु स्याम्, अपीत्थं स्याम्,
अप्येवं स्याम्, अप्यन्यथा स्यामित्यस्य भवति । प्रवृत्त्युपरमत्वान्निरोधः ।
निर्दुःखत्वाच्छान्तः ; “इति हि भिक्षवो दुःखाः संस्काराः शान्तं निर्वाणम्”
इति वचनात् । निरुत्तरत्वात् प्रणीतः । अपुनरावृत्तित्वान्निःसरणम् ।
पथिभूतत्वान्मार्गः । यथाभूतप्रवृत्तत्वान्न्यायः । प्रतिनियतत्वात् प्रतिपत् ।
यथोक्तम्—
“एष मार्गो हि नास्त्यन्यो दर्शनस्य विशुद्धये” ( ) इति ।
अत्यन्तनिर्याणान्नैर्याणिकः । अथवा नित्यसुखात्मीयात्मदृष्टिचरि-
तानां प्रतिपक्षेणानित्याद्यनुगमनान्याकाराः । अहेत्वेकहेतुपरिणामबुद्धि-
पूर्वकृतदृष्टिचरितानां १ प्रतिपक्षेण हेतुसमुदयप्रभवप्रत्ययाकाराः । 'नास्ति
प्रकारः । कथम् ? “अस्मीति भिक्षवः सत्यात्मदृष्टौ सत्यां इत्थमस्मीति
भवतीदमकारोऽस्मीति भवति । तद्योगात् ============= दित्यर्थः ।
एवमस्मीति । यथापूर्वमेव, नान्यथेत्यर्थः । अन्यथास्मीति अन्येन प्रकारेण,
वर्ण-बल-प्रतिभानादिदर्शनात् । सदस्मीति भवति । विपर्ययात् असदस्मीति ।
अयमभेदेन पञ्चधात्मभावच्छन्दः प्रथमः । भविष्यामीत्यस्य भवतीति शाश्वत-
रूपेण । न भविष्यामीत्युच्छेदूपेण । इत्थं भविष्यामीति विस्तरेण पूर्व-
वत् व्याख्यानम् । इत्ययमभेदेन पञ्चधापुनर्भवच्छन्दो द्वितीयः । स्याम्
इत्यस्य भवति—इत्थं स्याम्, एवं स्याम्, अन्यथा स्याम् इत्यस्य भवतीति ।
अयं भेदेन चतुर्धापुनर्भवच्छन्दस्तृतीयः । अपितु स्याम् इत्यस्य भवति—
अपीत्थं स्याम्, अप्येवं स्याम्, अप्यन्यथा स्याम् इत्यस्य चतुर्धाप्रतिसन्धिवन्ध-
च्छन्दश्चतुर्थः । तत्र प्रथमो दुःख्यादिकारणत्वान्मूलहेतुरिति विस्तरेण
पूर्ववत् योज्यम् । प्रतिनियतत्वात् प्रतिपदिति । नियतप्रतिपादनं प्रतिपद् ।
कथं पुनः प्रतिनियता ? अनयैव तद्गमनात् ।
यथोक्तमिति विस्तरः । नित्यसुखात्मीयात्मदृष्टिचरितानामिति ।
नित्यं सुखं आत्मीयम् आत्मेति वा दृष्टिचरितमेषाम् त इमे नित्यसुखात्मीया-
त्मदृष्टिचरिताः पुद्गलाः । तेषां प्रतिपक्षेण यथाक्रमं अनित्याद्याकाराः ।
नास्ति हेतुरित्यहेतुदृष्टिचरितानां प्रतिपक्षेण हेत्वाकाराः । एको हेतुः
ईश्वरः प्रधानं चेति एकहेतुदृष्टिचरितानां समुदयाकाराः । समुदयो
१. ०पूर्वकदृष्टि०—का० ।
१०६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
मोक्षः' इति दृष्टिचरितानां निरोधाकारः । 'दुःखो मोक्षः' इति दृष्टि-
चरितानां प्रणीताकारः । 'पुनः पुनः परिहाणितो नात्यन्तिको मोक्षः' इति
दृष्टिचरितानां निःसरणाकारः । 'नास्ति मार्गः, कुमार्गोऽयम्, अन्यो मार्गः,
पुनरावर्ती मार्गः' इति दृष्टिचरितानां मार्गन्यायप्रतिपन्नैर्याणिकाकारा इति ।
आकारो नाम क एष धर्मः ?
प्रज्ञाकारः,
एवं तहि प्रज्ञा साकारा न भविष्यति, प्रज्ञान्तरासंयोगात् ? एवं तु
युक्तं स्यात्—सर्वेषां चित्तचैत्तानामालम्बनग्रहणप्रकार आकार इति ।
अथ किं प्रज्ञैवाकारयति ? नेत्याह । किं तर्हि ?
तया सह ।
आकारयन्ति सालम्बाः,
प्रज्ञा चान्ये च सर्वे सालम्बना धर्मा आकारयन्ति ।
सर्वमाकार्यते तु सत् ॥ १३ ॥
यत् किञ्चिदस्ति सर्वमाकार्यते । तदेवं कृत्वा सिद्धं भवति—प्रज्ञा
आकारश्चाकारयति चाकार्यते च । अन्ये सालम्बना आकारयन्त्याकार्यन्ते
च । आलम्बना आकार्यन्त एवेति ॥ १३ ॥
हेतुर्नैकहेतुरिति । परिणमते भाव इति परिणामदृष्टिचरितानां प्रभवा-
काराः । आदिभवोऽयं न तु पूर्वमवस्थित परिणमत इति । बुद्धिपूर्वकंकृतोऽयं
लोक इति बुद्धिपूर्वककृतदृष्टिचरितानां प्रत्ययाकाराः । नेदम् ईश्वरबुद्धिकृतं
जगत् । किं तर्हि ? तं तं प्रतीत्य तत् तद्भवतीति वीप्सार्थो हि प्रतिशब्दः ।
तस्मादनेकप्रत्ययजनितं जगद्—इति ज्ञापितं भवति ।
एवं तु युक्तं स्यात् इति । सौत्रान्तिकमतम् । आलम्बनग्रहणप्रकार
आकार इति । नैरुक्तो१ विधिरिति दर्शयति । आलम्बनशब्दात् आकारं
गृहीत्वा प्रकारशब्दाच्च कारशब्दम्, शेषवर्णलोपे च कृते 'आकार'
इति रूपं भवति । तदेवं सति प्रज्ञापि साकारा भवतीति सिद्धम् । सालम्बा
इति । आलम्बेत्याकारान्तमेतच्छब्दरूपम् । घञन्तं वा आलम्ब इति ।
सहालम्बेन, सहालम्बया वा वर्तन्ते सालम्बाः । सालम्बना इत्यर्थः ॥ १३ ॥
१. नैरुक्तो विधि०—जा० ।
निर्देशः ] सप्तमं कोशस्थानम् १०६३
अतः परमेषां ज्ञानानां कुशलादिभेदं निर्देक्ष्यामः ।
त्रिधाद्यं कुशलान्यन्यानि,
संवृतिज्ञानं श्लोकादौ भवत्वादाद्यम् । तत् त्रिविधम्—कुशलाकुशला-
व्याकृतम् । अन्यानि नव ज्ञानानि कुशलान्येव ।
आद्यं सर्वासु भूमिषु ।
कामधातौ यावद् भवाग्रे ।
धर्माख्यं षट्सु,
धर्मज्ञानं चतुर्षु ध्यानेष्वनागम्ये ध्यानान्तरे च ।
नवसु त्वन्वयाख्यम्,
अन्वयज्ञानं तास्वेव च षट्सु भूमिष्वारूप्यत्रये च ।
तथैव षट् ॥ १४ ॥
दुःखसमुदयनिरोधमार्गाक्षयानुत्पादज्ञानान्यप्येतास्वेव नवसु भूमिष्व-
भेदेन । भेदेन पुनर्धर्मज्ञानसंगृहीतानि षट्सु, अन्वयज्ञानसंगृहीतानि
नवसु ॥ १४ ॥
ध्यानेष्वन्यमनोज्ञानम्,
परचित्तज्ञानं चतुर्ष्वेव ध्यानेषु, नान्यत्र ।
कामरूपाश्रयं च तत् ।
कामरूपधात्वोश्च तत् परचित्तज्ञानं सम्मुखीक्रियते ।
कामाश्रयं तु धर्माख्यम्,
धर्मज्ञानं तु कामधात्वाश्रयमेव न रूपारूप्यधात्वोः सम्मुखीक्रियते ।
कुशलादिभेदमिति । आदिशब्देन अकुशलाव्याकृतभूम्याश्रयग्रहणम् ।
श्लोकादौ भवत्वादाद्यमिति । इहाद्यम्, न शास्त्रमिति व्याचष्टे ।
शास्त्रे हि धर्मज्ञानमाद्यं पठितमिति ।
“धर्माख्यं षट्सु” इति । कामावचरदुःखाद्यालम्बनत्वात् । आरूप्यत्रये
चास्ति भावनामार्गसंगृहीतमेवान्वयज्ञानम् ।
“तथैव षट्” इति । दुःखज्ञानादीनामन्वयज्ञानस्वभावत्वसम्भवात् ।
न रूपारूप्यधात्वोः सम्मुखीक्रियत इति । युक्तं तावत् आरूप्यधातौ धर्मज्ञानं
अभि० को० ४ : ३
१०६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
अन्यत् त्रैधातुकाश्रयम् ॥ १५ ॥
किं पुनरन्यत् ? परचित्तज्ञानं धर्मज्ञाननिर्मुक्तम् ॥ १५ ॥
कृतो भूम्याश्रयनिर्देशः ॥
स्मृत्युपस्थानसंग्रहो वक्तव्यः, सोऽथमुच्यते—
स्मृत्युपस्थानमेकं धीर्निरोधे,
धीः, प्रज्ञा, ज्ञानमिति पर्यायाः । निरोधज्ञानमेकं धर्मस्मृत्युपस्थानम् ।
परचित्तधीः ।
त्रीणि,
परचित्तज्ञानं त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि ।
चत्वारि शेषाणि,
निरोधपरचित्तज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि ।
न सम्मुखीक्रियत इति । आरूप्याणां कामावचरदुःखाद्यनालम्बनत्वात् ।
रूपधातौ तु कस्मान्न सम्मुखीक्रियते ? केचिद् आहुः—कामधातुविदूषणपरं
धर्मज्ञानम् । रूपधातूपपन्नस्य च धर्मज्ञानं न कामधातुं विदूषयितुमुपजायते ;
तस्य वैराग्यभूमिसञ्चारपरित्यक्तत्वात् । कामधातूपपन्नस्तु तद्वीतरागोऽपि
तत् सम्मुखीकरोति ; कामधातूपपत्तेः सावशेषत्वादिति । अतो न रूपधातौ
धर्मज्ञानं सम्मुखीक्रियते ।
आचार्यसङ्घभद्र आह—धर्मज्ञानं कामधातावेव सम्मुखीक्रियते, न
रूपारूप्यधात्वोः ; तत्समापत्तिव्युत्थानचित्तानां कामधातावेव सद्भावात्,
अनुपरिवर्तकाश्रयाभावाद् वा । धर्मज्ञानानुपरिवर्तकस्य हि शीलस्य कामा-
वचराण्येव भूतान्याश्रयः ; दौःशील्यसमुत्थापकक्लेशप्राप्तिविवन्धक-
त्वात् प्रातिपक्षिकत्वात् । तानि च तत्र न सन्तीति धर्मज्ञानं कामधात्वा-
श्रयमेवेति ॥ १४-१५ ॥
निरोधज्ञानमेकं धर्मस्मृत्युपस्थानम् । धर्मस्मृत्युपस्थाननिर्देश उक्तम्—
‘धर्मः कायवेदनाचित्तेभ्योऽन्यः’ इति । अन्यानि ज्ञानानि चत्वारि स्मृत्युप-
स्थानानीति । धर्मान्वय-संवृति-दुःख-समुदय-मार्ग-क्षयानुत्पादज्ञानानि चतुः-
स्मृत्युपस्थानस्वभावानि सन्ति । दुःख-ज्ञानमपि हि कदाचित् कायालम्बनम्,
निर्देशः ] सप्तम कोशस्थानम् १०६५
कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् ?
धर्मधीगोचरो नव ॥ १६ !
धर्मज्ञानस्य नव ज्ञानान्यालम्बनम् ; अन्यत्रान्वयज्ञानात् ॥ १६ ॥
नव मार्गान्वयधियोः,
अन्वयज्ञानस्यापि नव ज्ञानान्यालम्बनम्, अन्यत्र धर्मज्ञानात् ।
मार्गज्ञानस्यापि नव ज्ञानान्यालम्बनम्, अन्यत्र संवृतिज्ञानात् ।
दुःखहेतुधियोर्द्वयम् ।
दुःखसमुदयज्ञानयोर्द्वे संवृतिपरचित्तज्ञाने आलम्बनम् ।
चतुर्णां दश,
संवृतिपरचित्तक्षयानुत्पादज्ञानानां दश ज्ञानान्यालम्बनम् ।
नैकस्य,
एकस्य निरोधज्ञानस्य नैव ज्ञानमालम्बनम् ।
योज्या धर्माः पुनर्दश ॥ १७ ॥
कतमे दश ?
त्रैधातुकामला धर्मा अकृताश्च द्विधा द्विधा ।
कदाचित्... यावत् धर्मालम्बनम् । एवं समुदयज्ञानम् । मार्गज्ञानमपि
यदनास्रवसंवरलम्बनम्, कायस्मृत्युपस्थानं तद् भवति । शेषं सुगमम् ।
अन्यत्रान्वयज्ञानादिति । धर्मज्ञानं यदनास्रवं ज्ञानमालम्बेत, धर्म-
ज्ञानपक्षमेवालम्बेत । एवमन्वयज्ञानमन्वयज्ञानपक्षमेवालम्बेत—इति नियमः ।
तत्र धर्मज्ञानस्य मार्गज्ञानभूतस्य धर्मज्ञानान्तरं दुःखज्ञानादीनि चानुत्पाद-
ज्ञानान्यालम्बनं सम्भवन्ति । दुःखसमुदयज्ञानभूतस्य तु संवृतिज्ञानमा-
लम्बनं सम्भवति । परचित्तज्ञानभूतस्य परचित्तज्ञानमालम्बनं सम्भवतीति
नव ज्ञानानि तस्यालम्बनमिति ॥ १६ ॥
एवमन्वयज्ञानमपि योज्यम् । मार्गज्ञानस्यापि नवैव अन्यत्र संवृति-
ज्ञानात् । न हि मार्गज्ञानं संवृतिज्ञानमालम्बते, अनास्रवमार्गालम्बननियमात् ।
द्वे संवृतिपरचित्तज्ञाने इति । दुःखसमुदयसत्यान्तर्भूते । परचित्तज्ञानं यदनास्र-
१०६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
संस्कृता धर्मा अष्टधा क्रियन्ते ; कामरूपारूप्यावचरानास्रवाणां
सम्प्रयुक्तविप्रयुक्तभेदात् । असंस्कृता द्विधा क्रियन्ते ; कुशलाव्याकृतभेदात् ।
इमे दश धर्माः कथं योज्याः कस्य ज्ञानस्य कत्यालम्बनमिति ?
तत्र संवृतिज्ञानस्य सर्वे दश धर्मा आलम्बनम् । धर्मज्ञानस्य पञ्च ।
कामावचरानास्रवाश्चत्वारः कुशलं चासंस्कृतम् । अन्वयज्ञानस्य सप्त ।
रूपारूप्यावचरानास्रवाः षट् कुशलं चासंस्कृतम् । दुःखसमुदयज्ञानयोः
कामरूपारूप्यावचराः षट् । निरोधज्ञानस्यैकः कुशलमेवासंस्कृतम् । मार्गज्ञानस्य
द्वावनास्रवौ । परचित्तज्ञानस्य त्रयः कामरूपावचरानास्रवाः सम्प्रयुक्ताः ।
क्षयानुत्पादज्ञानयोः नव धर्मा आलम्बनमव्याकृतमसंस्कृतं मुक्त्वा ।
स्यादेकेन ज्ञानेन सर्वधर्मान् जानीयात् ? न स्यात् । अपि तु
सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः ॥ १८ ॥
संवृतिज्ञानं स्वस्मात्कलापाद् अन्यान् सर्वधर्माननात्मतो जानीयात्—सर्वधर्मा
वम्, तस्य नवानास्रवाणि ज्ञानान्यालम्बनम् । यत सास्रवं तस्य संवृतिज्ञानं
परचित्तज्ञानं चालम्बनं सम्भवति । क्षयानुत्पादज्ञाने दुःखज्ञानादिस्वभावे इति
दशापि ज्ञानानि तयोरालम्बनानि भवन्ति ॥ १७ ॥
सम्प्रयुक्तविप्रयुक्तभेदादिति । 'सम्प्रयुक्ताश्चित्तचैत्ताः' (अभि० को०
२.३४) इति । विप्रयुक्ताः प्राप्त्यादयः । कुशलाव्याकृतभेदादिति । कुशलं
प्रतिसंख्यानिरोधः, परमक्षेमत्वात् । अव्याकृतौ आकाशाप्रतिसंख्यानिरोधा-
विति । कामावचरानास्रवाश्चत्वार इति । सम्प्रयुक्तविप्रयुक्तभेदात् । रूपारूप्या-
वचरानास्रवाः षडिति । प्रत्येकं सम्प्रयुक्तविप्रयुक्तभेदात् । कामरूपारूप्या-
वचरा अपि तत एव भेदात् षट् । द्वावनास्रवाविति । तत एव । कामरूपावच-
रानास्रवाः सम्प्रयुक्ता इति । आरूप्यावचराणां चित्तचैत्तानां विप्रयुक्ता-
संस्कृतानां च सर्वेषां परचित्तज्ञानाविषयत्वात् । अव्याकृतमसंस्कृतं मुक्त्वेति ।
क्षयानुत्पादज्ञानयोश्चतुःसत्यालम्बनत्वात् अव्याकृतस्य चासंस्कृतस्य तद्व्यति-
रिक्तत्वात् ।
स्याद्—एकेन ज्ञानेन सर्वधर्मान् जानीयात् ? न स्यादिति । कथं
गम्यते ? सूत्रात् । "इहास्माकं भो गौतम ! उपस्थानशालायां सन्निषण्णानां
सन्निपतितानाम् एवरूपान्तराकथासमुदाहारोऽभूत् । श्रमणो गौतमः
किलैवमाह—'नास्ति स कश्चिच्छ्रमणो वा ब्राह्मणो वा यः सकृत् सर्वं
निर्देशः ] सप्तमं कोशस्थानम् १०६७
अनात्मान इति । स्वभावस्तत्सहभुवश्च धर्मास्तस्य स्वकलापः । तेषामग्रहणं
विषयिविषयभेदाद्, एकालम्बनत्वाद्१, अतिसन्निकृष्टत्वाच्च२ । तच्च कामा-
वचरं श्रुतचिन्तामयम्, रूपावचरं श्रुतमयम्, भावनामयम्; तस्यै० [ ]च्छिन्न-
भूम्यालम्बनत्वात् । अन्यथा हि युगपत् सर्वतो वैराग्यं स्यात् ।। १८ ।।
गतमेतत् ।।
इदं तु वक्तव्यम्—कः कतिभिर्ज्ञानैः समन्वगत इति ? पृथग्ज..ताव-
देकेन समन्वगतः—संवृतिज्ञानेन । वीतरागस्तु परचित्तज्ञानेनापि ।
आर्य्यः पुनः—
जानीयात्, सर्वं पश्येत्’ इति । तथ्यमिदं भो गौतम ? स्मरामि भजतोऽहमेवं
वक्तुम् । अपि तु नास्ति स कश्चित् श्रमणो वा ब्राह्मणो वा यः सकृत्
सर्वं ज्ञास्यति वा द्रक्ष्यति वा” ( ) इति ।
विषयिविषयभेदादिति विस्तरः । विषयिणो विषयस्य च भेदात् ।
यस्माद् यो विषयी, न स एव तस्य विषयो भवति ; स्वात्मनि वृत्तिविरोधात् ।
नहि सैवासिधारा तयैव छिद्यते । तस्मात् तेन संवृतिज्ञानेन स्वभावो न
गृह्यते । नापि तेन चैत्ताः सहभुवो गृह्यन्ते । एकालम्बनत्वात् । यदेव
हि तस्य संवृतिज्ञानस्यालम्बनं तदेव सम्प्रयुक्तानाम् । यदि च ते सम्प्रयुक्ता
गृहेरन् स्वभावालम्बनाः स्युः, संवृतिज्ञानेनैकालम्बनत्वात् ; न चैतद् युक्तम्;
तस्मान्न ते तेन गृह्यन्ते । अतिसन्निकृष्टत्वाच्च । न तेन विप्रयुक्ताः
सहभुवोऽपि गृह्यन्ते चक्षुषोऽञ्जनशलाकादर्शनवत् । तच्चेति । संवृतिज्ञानम् ।
तस्य व्यवच्छिन्नभूम्यालम्बनत्वादिति । यस्माद् भावनामयं रूपावचरं संवृति-
ज्ञानं व्यवच्छिन्नमेव भूमिमालम्बते कामधातुं वा, प्रथमं वा ध्यानम्, यावद्,
भवाग्रं वा, किं कारणम् ? आनन्तर्यविमुक्तिमार्गाणामधरोत्तरभूम्यालम्बनत्वात्
यथाक्रमम् । “शान्ताद्युदाराद्याकारा उत्तराधरगोचराः” (अभि० को ६.५०)
इति वचनात् । यदि च तत् सर्वभूम्यालम्बनं स्यात्, सर्वतो युगपद्
वैराग्यं स्यात् । प्रयोगविशेषमार्गयोरपि यथासम्भवं काचिदेव भूमिरा-
लम्बनम् । कथम् ? निर्वेधभागीयप्रयोगमार्गसंगृहीतस्य हि यस्य कामधातुर्रा-
लम्बनम्, न तस्येतरौ धातू । यस्येतरौ धातू, न तस्य कामधातुरलम्बनम् ।
अशुभाप्रमाणाभिभ्वायतनादिविदूषणे विशेषमार्गसंगृहीतस्य कामधातुरेवा-
लम्बनम्, नेतरौ धातू ।। १८ ।।
१. ०लम्बनत्वादिति—का० । २. सन्निकृ०—का० ।
१०६८ भाष्यस्फुटार्थामहितेऽभिधर्मकोशे [ ज्ञान-
एकज्ञानान्वितो रागी प्रथमेऽनास्रवक्षणे ।
कामावीतरागो दुःखधर्मज्ञानक्षान्तावेकेनैव संवृतिज्ञानेन समन्वागतो भवति ।
द्वितीये त्रिभिः,
दुःखधर्मज्ञाने त्रिभिः संवृतिज्ञानधर्मज्ञानदुःखज्ञानैः ।
ऊर्ध्वस्तु चतुष्वेवैकवृद्धिमान् ॥ १९ ॥
अतः परं चतुर्षु क्षणेषु एकैकज्ञानवृद्धिरस्य ज्ञातव्या—दुःखेऽन्वयज्ञाने-
ऽन्वयज्ञानं वर्धते, समुदयनिरोधमार्गधर्मज्ञानेषु समुदयनिरोधमार्गज्ञानानि
वर्धन्त इति । मार्गधर्मज्ञाने सप्तभिर्ज्ञानैः समन्वागतो भवति । वीतरागस्तु
सर्वत्राधिकेन परचित्तज्ञानेन समन्वागतो वेदितव्यः ॥ १९ ॥
अथ कस्यामवस्थायां कति ज्ञानानि भाव्यन्ते ?
यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने ।
अनागतानि,
“एकज्ञानान्वितो रागी प्रथमेऽनास्रवक्षणे” इति । यस्मात् क्षान्तिर्ज्ञानं
न भवत्यन्येनापि अनास्रवग ज्ञानेन समन्वागतः, न भवति रागीति ग्रहणम् ।
यस्माद्वीतरागः परचित्तज्ञानेनापि समन्वागतो भवति ।
“द्वितीये त्रिभिः” इति । तदेव दुःखे धर्मज्ञानं चोच्यते, दुःखज्ञानं चेति ।
नामभेदाद् द्वित्वोपचारः । धर्मज्ञानेन, दुःखज्ञानेन, संवृतिज्ञानेन चेति
त्रिभिः समन्वागतः ।
चतुर्ष्विति । दुःखेऽन्वयज्ञानक्षणे समुदय-मार्ग-निरोध-धर्मज्ञानक्षणेषु
च । क्षान्तिषु पूर्ववदेवामसन्वागमात् दुःखेऽन्वयज्ञानक्षणे हि अन्वयमेव वर्धते,
न धर्मज्ञानम् ; तेन मसन्वाात्पूर्वत्वात् । समुदयधर्मज्ञानक्षणे समुदयज्ञानमेव
वर्धते, न धर्मान्वयज्ञाने, पूर्वमेव ताभ्यां समन्वागतत्वात् । एवं निरोध-मार्ग-
धर्मज्ञानक्षणयोनिरोधमार्गज्ञाने एव वर्धेते डति वक्तव्यम् । वीतरागस्तु
सर्वत्राधिकेन परचित्तज्ञानेनेति दुःखे धर्मज्ञानक्षान्तौ, यावत्, मार्गे
धर्मज्ञानक्षणे परचित्तज्ञानेनापि समन्वागतः, तैश्च यथोक्तैर्ज्ञानैरिति वेदि-
तव्यम् । मार्गेऽन्वयज्ञाने तु तेनैव सप्तभिरवीतरागः समन्वागतः । वीतरागस्तु
अष्टाभिः—तैश्च परचित्तज्ञानेन चेति । क्षयानुत्पादज्ञानाभ्यां त्वहंन्नेव
समन्वागत इति सुबोधान्न तदर्थं सूत्रितमित्यवगन्तव्यम् ॥ १९ ॥
“यथोत्पन्नानि भाव्यन्ते” इति । इह द्विविधा भावना अधिकृता—
निर्देशः ] सप्तमं कोशस्थानम् १०६६
दर्शनमार्गे यद्यदेवोत्पद्यते क्षान्तिर्ज्ञानं वा तज्जातीयमनागतं भावनां
गच्छन्ति१ तदाकाराः२ चत्वारः ।
कस्माद्दर्शनमार्गे सभागज्ञानाकारभावनैव ? गोत्राणामप्रतिलब्धत्वात् ।
तत्रैव सांवृतं चान्वयत्रये ॥ २०॥
प्रतिलम्भभावना, निषेवणभावना च । प्रतिलम्भभावना प्राप्तिः, निषेवण-
भावना सम्मुखीभावः ।
यथोत्पन्नानि भाव्यन्त इति । यानि यान्युत्पन्नानि तानि तानि भाव्यन्त
इति । तद्यथा—दुःखधर्मज्ञानक्षान्तावुत्पन्नायां तज्जातीया क्षान्तिरेवानागता
भाव्यते । तदाकाराश्चत्वार इति । क्षान्त्याकारा अनित्यादयश्चत्वारः;
सभागत्वात् । नान्ये । एवं दुःखे धर्मज्ञा उत्पन्ने तदेवानागतं भाव्यते ।
तदाकाराश्चत्वार एव भावनां गच्छन्ति । एवं दुःखान्वयज्ञानक्षान्त्यादिषु
योज्यम् ।
सभागज्ञानाकारभावनैवेति । कस्मात् सभागज्ञानभावना सभागकार-
भावना च दर्शनमार्ग एव भवति, न भावनामार्गे इति ? क्षान्तीनामपरिप्रश्नः;
भावनामार्गे तेषामभावात् । तेषामपि वा प्रश्नः कर्तव्यः, तेषामपिं
सभागभावनात् । न हि दुःखक्षान्तावुत्पन्नायां समुदयादिदुःखक्षान्त्याकारा
भाव्यन्ते । उदाहरणमात्रार्थत्वात्तु ज्ञानपरिप्रश्नः, न क्षान्तिपरिप्रश्न इति ।
गोत्राणामप्रतिलब्धत्वादिति । सभागहेतूनामप्रतिलब्धत्वादित्यर्थः । कथं
कृत्वा ? दुःखे धर्मज्ञानक्षान्तौ उत्पन्नायां तद्गोत्रम्, तदाकाराणां च
चतुर्णां गोत्राणि लब्धानि भवन्ति, न दुःखधर्मज्ञानादीनाम् । किं पुनः
कारणम्-अनित्यादीनामाकाराणाम् एकैकस्मिन्नाकारे सम्मुखीभूते
परिशिष्टानामाकाराणां गोत्राणि प्रतिलभ्यन्ते ? यतस्ते भावनानां
गोचराणि; तुल्यालम्बनतया सभागत्वात् सर्वेषां गोत्राणि प्रतिलब्धानि
भवन्ति । एवं दुःखे धर्मज्ञान उत्पन्ने, यावत्, मार्गेऽन्वयज्ञानक्षान्तावुत्पन्नायां
तद्गोत्राणि तदाकाराणि च चतुर्णां गोत्राणि लब्धानि भवन्ति—इति तदेव
भावनां गच्छति, नान्यत् । भावनामार्गे तु पुनः सर्वेषा ज्ञानानां सभाग-
विषभागानां तदाकाराणां च सम्मुखीभावात् सर्वेषां हेतावलब्धा भवन्तीति ।
तद्विशिष्टा ज्ञानाकारा भावनां गच्छन्त्यनागताः ।
“सांवृतं चान्वयत्रये” इति । अलब्धपूर्वम् ।
१. गच्छति—का० । २. तदाकारा एव—का० ।
१०७० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
तत्रैव दर्शनमार्गे संवृतिज्ञानं चापि भाव्यते त्रिषु दुःखसमुदयनिरोधा-
न्वयज्ञानेषु, न धर्मज्ञानेषु; अकृत्स्नसत्याभिसमयात् ॥ २० ॥
अतोऽभिसमयान्त्याख्यन्,
अत एव तदाभिसमयान्तिकं संवृतिज्ञानमाख्यायते; एकैकसत्याभि-
समयान्ते भावनात् । कस्मान्न मार्गान्वयज्ञाने भावनां गच्छति ? मार्गस्य १
पूर्वं लौकिकेन मार्गेणानभिसमितत्वात्, अकृत्स्नाभिसमयाच्च । कृत्स्नं हि दुःखं
शक्यते परिज्ञातुम्, समुदायः प्रहातुम्, निरोधः साक्षात्कर्तुम्, न तु मार्गः शक्यते
कृत्स्नो भावयितुमित्यभिसमयान्ताभावान्न तस्मिन्नाभिसमयान्तिकं भाव्यते ।
समुदयोऽपि तदा न सर्वः प्रहीणो भवतीति न स्यादाभिसमयान्तिकम् ?
न; तत्सत्यदर्शनहेयः सर्वः प्रहीणो भवति । मार्गस्तद्दर्शनहेयप्रतिपक्षो न सर्वः
शक्यते भावयितुम्; बहुगोत्रत्वात् — इत्यस्ति महान् विशेषः । दर्शनमार्ग-
परिवारत्वादित्यपरे । तदिदं साध्यत्वादज्ञापकम् ।
न धर्मज्ञानेषु अकृत्स्नसत्याभिसमयादिति । नहि तदानीं रूपारूप्यावचरं
दुःखं परिज्ञातम्, समुदायः परिहीणः, तन्निरोधः साक्षात्कृत इति ॥ २० ॥
मार्गस्य पूर्वं लौकिकेन मार्गेणानभिसमितत्वादिति । लौकिकमार्गेण
पूर्वमनादिगतिसंसारे दुःखसमुदयनिरोधा अभिसमिताः, न तु संवृतिज्ञानेन
कदाचित् मार्गो मार्गादिभिराकारैरभिसमितः । तस्मात् त्रयाणामेकैकस्य सत्य-
स्याभिसमयान्ते भावनां गच्छति । न मार्गान्वयज्ञाने । न तु मार्गः शक्यते
कृत्स्नो भावयितुमिति सम्मुखीकर्तुमित्यर्थः ।
समुदयोऽपि तदा न सर्वः प्रहीण इति । निरोधमार्गदर्शनभावनाप्रहा-
तव्यः । दुःखं पुनः सर्वं त्रैधातुकं परिज्ञातम्; तस्य परिज्ञेयत्वात् — इत्यतः
समुदायमेव प्रतिचोद्यते । तत्सत्यदर्शनहेय इति । समुदायसत्यदर्शनहेय
इत्यर्थः । बहुगोत्रत्वादिति । अनेकजातिमानान्वयविशेषेण गोत्रम् ।
तानि बहूनि गोत्राण्यस्येति बहुगोत्रो मार्गः । श्रावकगोत्रात् प्रत्येकबुद्धगोत्र-
मन्यत् । तथा बुद्धगोत्रम् श्रावकगोत्रमन्योन्यं भिन्नम्; मृद्वधिमात्रा-
दिभेदात् । तेषां कश्चिदेव दर्शनहेयप्रतिपक्षो भाव्यते । सम्मुखीक्रियत
इत्यर्थः ।
न मार्गः शक्यते कृत्स्नो भावयितुम्; दर्शनमार्गपरिवारत्वादिति ।
दर्शनमार्गस्य परिवारः संवृतिज्ञानम् । अतः सत्यत्रयान्ते एव दर्शनमार्गो
१. मार्गसत्यस्य—का० ।
निर्देशः ] सप्तमं कोशस्थानम् १०७१
किं पुनस्तदाभिसमयान्तिकं संवृतिज्ञानं कदाचित् सम्मुखीक्रियते ? न
कदाचित् । एकान्तेन हि
तदानुत्पत्तिधर्मकम् ।
कथं पुनस्तद्भावितं भवति ? अलब्धलाभात् । कथमिदानीं तत्प्रति-
लब्धं यदि नैव सम्मुखीकर्तुं शक्यते ? प्राप्तितः । यस्माल्लब्धं तस्माल्लब्ध-
मित्यपूर्वेषा निर्देशजातिः । तस्मान्नैव भावना सिध्यति ।
एवं तु सिध्यति, यदाहुः पूर्वाचार्याः ।
कथं च पूर्वाचार्या आहुः ? लोकोत्तरमार्गसामर्थ्यात् संवृतिज्ञानं भाव्यते
यद्व्युत्थितः सत्यालम्बनं विशिष्टतरं लौकिकं ज्ञानं सम्मुखीकरोति । एष एव
च तस्य लाभो यस्तत्समुखीभावसमर्थाश्रयलाभः¹ । गोत्रेऽभिलब्धे² लब्धं
गौत्रिकं भवति ।
'एवं तु नेच्छामि' इति³ वैभाषिकाः ।
कतिभूमिकं पुनस्तत्संवृतिज्ञानं भाव्यते ? दर्शनमार्गस्य
स्वाधोभूमि,
यद्भूमिको दर्शनमार्गो भवति तद्भूमिकं चाधरभूमिकं च संवृतिज्ञानं
भाव्यते । अनागम्यभूमिकश्चेद्भवति द्विभूमिकं भाव्यते—अनागम्यभूमिकम्,
भाव्यते, न मार्गसत्यान्ते; तस्य भावनामार्गत्वात् ।
साध्यत्वादज्ञापकमिति । साध्यमिदं दर्शनमार्गपरिवार एव । न
भावनामार्गपरिवारोऽपीति । वयं हि 'भावनामार्गपरिवारोऽपि तत्'
इति ब्रूमः ।
सत्यालम्बनं विशिष्टतरमिति । दर्शनावस्थायां यल्लौकिकं
पूर्वमासीत्, ततो विशिष्टमेव च लौकिकमित्यभिप्रायः । यस्तत्सम्मुखी-
भावसमर्थाश्रयलाभ इति । तस्य संवृतिज्ञानस्य सम्मुखीभावे समर्थाश्रयस्य
यो लाभः एष एव तस्य लाभः, नार्थान्तरभूत इति । गोत्रेऽभिलब्धे
लब्धं गौत्रिकमिति । गोत्रं तदुत्पादनसमर्थो हेतुः, तत्र भवं गौत्रिकम्,
संवृतिज्ञानम् । एतदुक्तं भवति—तत्सम्मुखीभावसमर्थाश्रयलाभे तदपि
तेनाश्रयेणोत्पद्यमानं भवति । अथ कस्माद् एवं नेच्छामीति वैभाषिकाः ।
दर्शनमार्गलब्धं तत् । तस्य कथं भावनामार्गे सम्मुखीभावो भविष्यतीति ।
दर्शनमार्गे चोत्पत्त्यनवकाशोऽस्यास्ति तदनुत्पत्तिधर्मकमिति वर्ण्यन्ते ।
१. यत्तत्०—का० । २. गोत्रे हि लब्धे—का० । ३. नेच्छन्ति—का० ।
१०७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
कामावचरं च । एवं यावच्चतुर्थध्यानभूमिके दर्शनमार्गे सप्तभूमिकं संवृति-
ज्ञानं भाव्यते ।
तत्र पुनः कति स्मृत्युपस्थानानि ?
निरोधेऽन्त्यम्,
निरोधेऽभिसमिते यत् संवृतिज्ञानं तदन्त्यं स्मृत्युपस्थानं धर्मस्मृत्यु-
पस्थानम् । एकस्य परिसंख्यानात्सिद्धं भवति शेषं चत्वारि स्मृत्युपस्थानानीति ।
तच्चैतदाभिसमयान्तिकं संवृतिज्ञानं
स्वसत्याकारम्,
यत्सत्याभिसमयाल्लभ्यते तत्सत्याकारमेव । तदाकारवचनादालम्बनस्य
तदेव सत्यमित्युक्तं भवति । दर्शनमार्गलभ्यत्वाच्च तत् ।
यात्निकम् ॥ २१ ॥
प्रायोगिकमित्यर्थः । सपरिवारग्रहणात् कामरूपावचाराणि चतुष्पञ्च-
स्कन्धस्वभावानि ॥ २१ ॥
एवं यावच्चतुर्थध्यानभूमिक इति । प्रथमध्यानभूमिकश्चेद् भवति,
त्रिभूमिकं भावयेत्— प्रथमध्यानभूमिकम्, अनागम्यभूमिकम्, कामावचरं च ।
ध्यानान्तरभूमिकश्चेत्, चतुर्भूमिकं भावयेत्— ध्यानान्तरभूमिकम्, प्रथम-
ध्यानभूमिकादीनि च पूर्वोक्तानि । एवं द्वितीयध्यानभूमिकश्चेत्, पञ्च-
भूमिकम्— द्वितीयध्यानभूमिकम्, यावत् कामावचरम् । तृतीयध्यानभूमि-
कश्चेत्, षड्भूमिकम्—तृतीयध्यानभूमिकम्, यावत् कामावचरम् । चतुर्थ-
ध्यानभूमिकश्चेद् भवति, सप्तभूमिकं भावयेत्—चतुर्थध्यानभूमिकम्, यावत्
कामावचरं चेति ।
एकस्य परिसंख्यानात् सिद्धं भवति शेषं चत्वारीति । निरोधेऽन्त्यमेव,
अन्त्यमेव च निरोध इत्युभयावधारणाच्छेषं चतुःस्मृत्युपस्थानं सिद्धं भवति ।
दुःखेऽभिसमिते यत् संवृतिज्ञानं भाव्यते, तच्चत्वारि स्मृत्युपस्थानानि;
दुःखस्य कायादिस्वभावत्वात् । एवं समुदयेऽपि वक्तव्यम् । तत्सत्याकार-
मेवेति । दुःखेऽभिसमिते यत् संवृतिज्ञानं भाव्यते तत् प्रत्येकमनित्यदुःख-
शून्यात्माकारम् । एवं समुदये, निरोधे च वक्तव्यम् । आलम्बनस्य
तदेवेति । तस्याकारस्य तदालम्बनत्वात् ।
प्रायोगिकमिति । नोपपत्तिलभ्यः । चतुःपञ्चस्कन्धस्वभावानीति ।
निर्देशः ] सप्तमं कोशस्थानम् १०७३
षोडशे षट् सरागस्य,
'भाव्यन्ते' इति वर्तते । अवीतरागस्य षोडशे मार्गान्वयज्ञानक्षणे द्वे
ज्ञाने प्रत्युत्पन्ने—मार्गज्ञानमार्गान्वयज्ञाने । अनागतानि¹ षट् भाव्यन्ते—
धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि ।
वीतरागस्य सप्त तु ।
वीतरागस्य परचित्तज्ञानं सप्तमं भाव्यते ।
सरागभावना मार्गे तदूर्ध्वं सप्तभावना ॥ २२ ॥
षोडशात् क्षणादूर्ध्वं भावनामार्गे यावन्न वीतरागो भवति तावत् सर्वेषु
प्रयोगानन्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते—धर्मान्वयदुःख-
समुदयनिरोधमार्गसंवृतिज्ञानानि । लौकिकश्चेत् भावनामार्गः, संवृतिज्ञानं
प्रत्युत्पन्नम् । लोकोत्तरश्चेत्, चतुर्णां धर्मज्ञानानामन्यतमत् ' । २२ ।।
कामावचरम् अनुपरिवर्तकरूपाभावाच्चतुःस्कन्धस्वभावम् । वेदना-
संज्ञा-संस्कार-विज्ञानस्कन्धस्वभावमित्यर्थः । ऊर्ध्वभूमिकानि तु पञ्च-
स्वभावानि—ध्यान-संवर-लक्षण-रूप-स्कन्धस्वभावत्वात् ॥ २१ ॥
द्वे ज्ञाने प्रत्युत्पन्ने इति । अन्वयज्ञानम्, मार्गज्ञानं च; मार्गान्वय-
ज्ञानस्य तदुभयस्वभावत्वात् । अनागतानि षडिति । धर्मज्ञानादीनि ।
न संवृतिज्ञानं भाव्यते ; लब्धपूर्वत्वात् । वक्ष्यति हि—"लब्धपूर्वं न भाव्यते"
( अभि० को० ७.३२ ) इति । न परचित्तज्ञानम्, अवीतरागत्वात् ।
“तदूर्ध्वं सप्तभावना" इति । एकप्रकारप्रहाणे, यावत्, अष्टप्रकार-
प्रहाणे ।
यावन्न वीतरागो भवतीति । यावन्न प्रहीणनवप्रकारो भवति ।
अत्रान्तरे प्रयोगानन्तर्यविमुक्तिविशेषमार्गेषु भाव्यमानेषु सप्त ज्ञानानि
भाव्यन्ते । धर्मज्ञानादीनि परचित्तज्ञानवर्जितानि भाव्यन्ते । लौकिकश्चेत् ।
यदि शान्ताद्युदाराद्य कारो भावनामार्गः । संवृतिज्ञानं प्रत्युत्पन्नम् । चतुर्णां
धर्मज्ञानानामिति । दुःख-समुदय-निरोध-मार्ग-धर्मज्ञानानामन्यतमत् । अन्वय-
ज्ञानानां कामधात्वप्रतिपक्षत्वन्नान्वयज्ञानमन्यतमत् ॥ २२ ॥
१. पुरागतानि—का० ।
१०७४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ ज्ञान-
सप्तभूमिजयाऽभिज्ञाकोप्याप्त्याकीर्णभाविते ।
आनन्तर्येऽथेषूर्ध्वं मुक्तिमार्गाष्टकेऽपि च ॥ २३ ॥
'सप्त ज्ञानानि भाव्यते' इति वर्तते । सप्त भूमयः, चत्वारि ध्यानानि,
त्रयश्चारूप्याः, तासां जयः = वैराग्यम्, तस्मिन् सप्तभूमिके वैराग्ये पञ्चसु
चाभिज्ञासु अकोप्यप्रतिवेधे च व्यवकीर्णभाविते च ध्याने शैक्षस्य यावन्तः
आनन्तर्यमार्गास्तेष्वपि सर्वेषु सप्त ज्ञानानि भाव्यन्ते, तान्येव । लौकिकश्चेद्
भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् । लोकोत्तरश्चेत्, चतुर्णामन्वयज्ञानानां
द्वयोश्च धर्मज्ञानयोरन्यतमत् । अकोप्यप्रतिवेधे तु संवृतिज्ञानं न भाव्यते;
भवाग्राप्रतिपक्षत्वात् । तत्र क्षयज्ञानं सप्तमं वेदितव्यम् । सप्तभूमिवैराग्यादपि
चो
निर्देशः ] सप्तमं कोशस्थानम् १०७५
संवृतिज्ञानस्याप्युभयोरिति केचित् । तत्र मतविकल्पज्ञापनार्थो
वाशब्दः । प्रयोगमार्गे तु तयोः संवृतिज्ञानस्यापि भावना ।
आनन्तर्यपथे षण्णाम्,
वीतरागस्यावीतरागस्य वा शैक्षस्येन्द्रियोत्तापनायामानन्तर्यमार्गे षण्णां
भावना पूर्ववत् । न संवृतिज्ञानस्य, दर्शनमार्गसादृश्यात् । न परचित्तज्ञानस्य,
सर्वानन्तर्यमार्गप्रतिषिद्धत्वात् ।
किमर्थं प्रतिषिध्यते ? अप्रतिपक्षत्वात् ।
भवाग्रविजये तथा ॥ २४ ॥
भवाग्रवैराग्येऽप्यानन्तर्यमार्गेषु षण्णां भावना तथैव ॥ २४ ॥
नवानां तु क्षयज्ञाने,
भवाग्रवैराग्ये नवमो विमुक्तिमार्गः क्षयज्ञानम् । तत्र नवानां ज्ञानानां
भावना; अन्यत्रानुत्पादज्ञानात् ।
उभयोरपि सरागवीतरागयोः विमुक्तिमार्गे भावनेति । प्रयोगमार्गे तु
तयोरिति । तयोरेव सराग-वीतरागयोः । संवृतिज्ञानस्यापि तत्र तदभि-
समयान्तिकत्वाद् भाव्यत इत्येके । न चाभिसमयोऽस्ति, दर्शनमार्गसादृश्यं
चेत्यपरे । इत्येवं विवादः ।
षण्णां भावना पूर्ववदिति । धर्मान्वय-दुःख-समुदय-निरोध-मार्ग-
ज्ञानानाम् ।
न संवृतिज्ञानस्य, दर्शनमार्गसादृश्यादिति । किमत्र दर्शनमार्गेण
सादृश्यम् ? फलप्राप्तिः । यथा दर्शनमार्गेण स्रोतापत्तिफलं वा, सकृदा-
गाम्यनागामिफलं वा प्राप्यते; एवमनेनाप्यानन्तर्यमार्गेण शैक्षस्य शैक्षे-
न्द्रियोत्तापनायां तीक्ष्णेन्द्रियसंगृहीतानि संस्कृतानि स्रोतापत्तिफलादीनि
प्राप्यन्ते ! दर्शनमार्गे चानन्तर्यमार्गावस्थायां न संवृतिज्ञानभावनास्ति ।
एवमिहापि । इत्येवं दर्शनमार्गसादृश्यादानन्तर्यमार्गे न संवृतिज्ञानस्य
भावना ।
तथैवेति । धर्मान्वय-दुःख-समुदय-निरोधमार्गज्ञानानाम् । अत्रापि
संवृतिज्ञानं न भाव्यते; भवाग्राप्रतिपक्षत्वात् । न परचित्तज्ञानम्; सर्वानन्तर्य-
मार्गे प्रतिषेधत्वात् ॥ २४ ॥
१०७६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
अकोप्यस्य दशभावना।
यस्त्वकोप्यधर्मा भवति, तस्य दशानां ज्ञानानां भावना, अनुत्पाद-
ज्ञानलाभात्।
तत्सञ्चारेऽन्त्यमुक्तौ च,
योऽप्यकोप्यतां सञ्चरति, तस्याप्यन्त्ये विमुक्तिमार्गे दशानां भावना।
प्रोक्तशेषेऽष्टभावना ॥ २५ ॥
किं पुनः शेषम् ? कामवैराग्ये नवमो विमुक्तिमार्गः सप्तभूमि-
वैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गः। अकोप्यप्रतिवेधोऽष्टौ विमुक्त-
मार्गाः। सर्वे च वीतरागस्य प्रयोगविशेषमार्गाः।
तेषु सर्वेष्वष्टौ ज्ञानानि भाव्यन्ते, अनागतभावनया क्षयानुत्पादज्ञाने
हित्वा।
शैक्षस्यैवम्।
अशैक्षस्य पुनरभिज्ञादिप्रयोगविमुक्तविशेषमार्गेषु नव ज्ञानानि दश वा।
किं पुनः शेषमिति विस्तरः। कथं कामवैराग्ये नवमो विमुक्तिमार्गः
शेषः ? “सरागभावनामार्गे तदूर्ध्वं सप्तभावना” (अभि० को० ७.२२)
इति वचनात्। सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गः
शेषः।
“सप्तभूमिजयाभिज्ञाकोप्याप्त्याकीर्णभाविते।
आनन्तर्यपथेषु” (अभि० को० ७.२३) इति वचनात्। तथा यो-
ऽकोप्यतां सञ्चरति, तस्याप्यन्ते विमुक्तिमार्गे दशानां भावनेति वचनात्।
अष्टौ विमुक्तिमार्गाः शेषाः भवन्ति, सर्वे च वीतरागस्यानागामिनः
प्रयोगविशेषमार्गाः शेषाः; तेषां भावनायामवचनात्।
शैक्षस्यैवमिति। यदपदिष्टं “प्रोक्तशेषेऽष्टभावना” (अभि० को०
७.२५) इति।
कथं पुनरेवमविशेषिते विशेषप्रतिपत्तिर्लभ्यते ? अशैक्षस्यावश्यं
नव-दशज्ञानभावनायोगात्। अत एवाह—अशैक्षस्य पुनरभिज्ञादीति।
निर्देशः ] सप्तम कोशस्थानम् १०७७
अभिज्ञाव्यवकीर्णाभावितानन्तर्यविमुक्तिमार्गेषु तु अष्टौ नव च¹। द्वयोस्त्व-
भिज्ञाविमुक्तमार्गयोरव्याकृतत्वान्न किञ्चिदनागतं भाव्यते।
पृथग्जनस्य तु कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गे² ध्यानभूमिकेषु च
प्रयोगाभिज्ञात्रयविमुक्तिमार्गप्रमाणादिगुणाभिनिर्हारिषु संवृतिज्ञानमनागतं
भाव्यते। परचित्तज्ञानं चान्यत्र निर्वेधभागीयेभ्यः।
आदिशब्देन व्यवकीर्णाभावनाध्यानादिग्रहणम्। अभिज्ञाभिनिहारे व्यवकीर्णा-
भावनायां च ये प्रयोगविमुक्तिविशेषमार्गाः, तेषु यदि समयविमुक्तः, नव
ज्ञानानि भाव्यन्ते। अनुत्पादज्ञानं हित्वा। यद्यकोप्यधर्मा दश तदेव प्रक्षिप्य।
अष्टौ नव चेति। समयविमुक्तस्याष्टौ, अकोप्यधर्मणो नव, परचित्तज्ञानं हित्वा;
तस्यानन्तर्यमार्गेषु प्रतिषेधात्। द्वयोस्त्वभिज्ञविमु