अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] षष्ठं कोशस्थानम् १०१७
कतमानि दश ?
श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रोत्युपेक्षणे ।
प्रश्रब्धिशीलसङ्कल्पाः,
इत्येतानि दश द्रव्याणि ।
कथं कृत्वा ?
प्रज्ञा हि स्मृत्युपस्थितिः ॥ ६८ ॥
वीर्यं सम्यक्प्रहाणाख्यमृद्धिपादाः समाधयः ।
प्रज्ञावीर्यसमाधिस्वभावा हि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः । अत
इन्द्रियाणि तावद् बलानि च नामग्राहिकया श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाद्रव्याणि पञ्च ।
स्मृत्युपस्थानानि धर्मप्रविचयसम्बोध्याङ्गं सम्यग्दृष्टिश्च प्रज्ञैव । सम्यक्प्रहाणानि
दश द्रव्याणीति। केषाञ्चिन्मतेन। हि "वैभाषिकाणामेकादश काय-
वाक्कर्मणोरसम्भिन्नत्वात्" इति ॥ ६७॥
"प्रज्ञा हि स्मृत्युपस्थितिः" इति प्रज्ञा स्मृत्युपस्थानमित्यर्थः । स्मृति-
रुपतिष्ठतेऽनयेति कृत्वा। तथा हि सूत्र उक्तम्- "काये कायानुपश्यी" इति
विस्तरः।
"वीर्यं सम्यक्प्रहाणाख्यम्" इति। यस्मादुक्तम्- "उत्पन्नानां पापकानाम-
कुशलानां धर्माणां प्रहाणाय छन्दं जनयति, व्यायच्छते, वीर्यमारभते" इति
सर्वम् ।
"ऋद्धिपादाः समाधयः" इति। यस्मादुक्तम्- "छन्दसमाधिप्रहाणसंस्कार-
समन्वागतमृद्धिपादं भावयति" इति सर्वम्। प्रहाणसंस्काराः पुनरत्राष्टौ सूत्रे
पठ्यन्ते। कथम् ? तथाभूतस्य यश्छन्दः यो व्यायामः या श्रद्धा या प्रश्रब्धिः या
स्मृतिः यत्सम्प्रजन्यम् या चेतना योपेक्षा-इम उच्यन्ते प्रहाणसंस्कारा इति। इन्द्रि-
याणि तावदिति विस्तरः। स्वनामग्रहणेन यानीन्द्रियबलस्वभावानि श्रद्धावीर्यस्मृति-
समाधिप्रज्ञा द्रव्याणि पञ्च। तेषां प्रज्ञैव सा यानि चत्वारि स्मृत्युपस्थानानि।
यच्च बोध्यङ्गेषु धर्मप्रविचयसम्बोध्याङ्गम्। या च मार्गाङ्गेषु सम्यग्दृष्टिः। न
द्रव्यानन्तरम्। वीर्यमेव तद्यानि चत्वारि सम्यक्प्रहाणानि। यच्च बोध्यङ्गेषु
वीर्यसम्बोध्याङ्गम्। यश्च मार्गाङ्गेषु सम्यग्व्यायामः। समाधिरेव च सः। ये चत्वार
५०१८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
वीर्यसम्बोध्याङ्गं सम्यग्व्यायामश्च वीर्यमेव। ऋद्धिपादाः समाधिसम्बोध्याङ्गं
सम्यक्समाधिश्च समाधिरेव। स्मृतिसम्बोध्याङ्गं सम्यक्स्मृतिश्च स्मृतिरेव।
किमवशिष्यते? प्रीतिप्रस्रब्ध्युपेक्षासम्बोध्याङ्गानि, सम्यक्सङ्कल्पः१,
शीलाङ्गानि च। तान्येतानि पञ्च द्रव्याणि। एवमेते बोधिपक्ष्या दश द्रव्याणि
भवन्ति।
वैभाषिकाणामेकादश। कायवाक्कर्मणोरसम्भिन्नत्वात् शीलाङ्गानि द्वे द्रव्ये
इति।
यत्त्वेतदुक्तम्—“प्रज्ञावीर्यसमाधिस्वभावाः स्मृत्युपस्थानादयः” इति।
अत्र वेदितव्यम्—
प्रधानग्रहणं सर्वे गुणाः प्रायोगिकास्तु ते ॥ ६९ ॥
प्रधानग्रहणेनैवमुक्तम्। सर्वे तु प्रायोगिका गुणाः स्मृत्युपस्थानसम्यक्-
प्रहाणर्द्धिपादाः।
ऋद्धिपादाः। यच्च बोध्यङ्गेषु समाधिसम्बोध्याङ्गम्, यच्च मार्गाङ्गेषु
सम्यक्समाधिः।
किमवशिष्यते। यन्न प्रज्ञेन्द्रियादिस्वभावम्। बोध्यङ्गेषु प्रीतिप्रश्रब्ध्युपेक्षा-
सम्बोध्यङ्गान्यवशिष्यन्ते; मार्गाङ्गेषु सम्यक्संकल्पाः, शीलाङ्गानि च त्रीणि—
सम्यग्वाक्, सम्यक्कर्मान्त, सम्यगाजीव इति।
दश द्रव्याणीति। श्रद्धादीनि पञ्च, प्रीतिसम्बोध्याङ्गादीनि च पञ्चेति
शीलाङ्गानि त्रीण्यविज्ञप्तिस्वभावानीति कृत्वैकं द्रव्यं व्यवस्थाप्यते।
वैभाषिकाणामेकादश द्रव्याणि। कायवाक्कर्मणोरसम्भिन्नत्वाद् द्वे द्रव्यमिति
कृत्वा। अभिप्रायवशात् पक्षद्वयेऽप्यदोषः। यदि तु मुख्यवृत्त्या तस्मिन् कलापे
यावन्ति द्रव्याणि सन्ति, तावन्ति गण्येरन्; नैव तानि दश द्रव्याणि, समाहित-
विज्ञप्तिरूपाणां सप्तद्रव्यत्वात्। षोडश द्रव्याणीति वक्तव्यं स्यात्।
प्रधानग्रहणेनैवमुक्तम्। प्रज्ञादिस्वभावाः स्मृत्युपस्थानादय इति। सर्वे तु
प्रायोगिकगुणाः सास्रवानास्रवाः श्रुतचिन्ताभावनामया यथायोगं स्मृत्युपस्थान-
सम्यक्प्रहाणर्द्धिपादाः। प्राधान्यं पुनस्तद्बलेनान्येषां वृत्तेः। न पुनस्ते न सन्ति।
१. ०सङ्कल्पाः-जा०।
निर्देशः ] षष्ठं कोशस्थानम् १०१६
कस्माद्वीर्यं सम्यक्प्रधानमुक्तम् ? तेन सम्यक्कायवाङ्मनांसि प्रधीयन्ते ।
समाधिः कस्माद् ऋद्धिपाद उक्तः ? तत्प्रतिष्ठितत्वात् १ सर्वगुणसम्पत्तेः ।
ये त्वाहुः—"समाधिरेवर्द्धिः पादाश्छन्दादयः” इति । तेषां द्रव्यतस्त्रयोदश
बोधिपक्षाः २ प्राप्नुवन्ति; छन्दचित्तयोराधिक्यात् । सूत्रं च विरुध्यते—"ऋद्धिं च
वो भिक्षवो दर्शयिष्यामि ऋद्धिपादांश्च यावद् । ऋद्धिः कतमा ? इह भिक्षुरनेक-
विधमृद्धिविषयं प्रत्यनुभवति । एको भूत्वा बहुधा भवति” इति विस्तरः ।
प्रज्ञाप्रधानानि हि स्मृत्युपस्थानानीत्यतः प्रज्ञाग्रहणम् । न तु प्रज्ञैव स्मृत्युप-
स्थानम् । किं तर्हि ? प्रज्ञावीर्यस्मृतिसमाधिप्रीतिप्रस्रब्ध्युपेक्षासम्यक्सङ्कल्पा-
दयोऽपीति । प्रयोगिकग्रहणमुपपत्तिलभ्यश्रद्धादिनिरासार्थम् । एवं वीर्यप्रधा-
नानि सम्यक्प्रधानानि, समाधिप्रधाना ऋद्धिपादा इति विस्तरेण वक्तव्यम् ।
ऋद्धिपादाः समाधय इति कुत एतत् ? सूत्रात् । उक्तं हि—"छन्दं चापि
भिक्षवो भिक्षुरधिपति कृत्वा लभते समाधिम्, सोऽस्य भवति छन्दसमाधिः ।
चित्तम्, वीर्यम्, मीमांसां चापि भिक्षवो भिक्षुरधिपतिं कृत्वा लभते समाधिम्,
सोऽस्य भवति मीमांसासमाधिः” इति ।
तेन हि सम्यक्कायवाङ्मनांसि प्रधीयन्त इति । प्रधीयन्ते = धार्यन्ते,
नियम्यन्ते, प्रवर्तन्ते वा कदाचिदनेनेति प्रधानम् । तत्प्रतिष्ठितत्वादिति ।
यस्मात् सर्वगुणसमापत्तिलक्षणा ऋद्धिस्तस्मिन् समाधौ प्रतिष्ठिता । ऋद्धेः
पादः प्रतिष्ठेति ऋद्धिपाद इति ।
ये त्वाहुः समाधिरेव ऋद्धिः, पादाश्छन्दादयः, छन्दचित्तवीर्यमीमांसा इति ।
तेषामेवंवादिनां वैभाषिकाणां त्रयोदश बोधिपक्षा प्राप्नुवन्ति । छन्दचित्तयो-
राधिक्यादेकादशसु प्रक्षेपे । वीर्यप्रज्ञे त्वत्र नाधिके; सम्यक्प्रधानस्मृत्युपस्था-
नेष्वन्तर्भावात् । बहुधा भवतीति विस्तर इति । बहुधा भूत्वैको भवति
आविर्भावम् तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति । तिरः कुड्यं तिरः प्राकारम-
सज्जमानः कायेन गच्छति, तद्यथा आकाशे । पृथिव्यामुन्मज्जननिमज्जनं
करोति, तद्यथोदके । उदकेऽभिद्यमानेन स्रोतसा गच्छति, तद्यथा पृथिव्याम् ।
आकाशे पर्यङ्केन क्रामति, तद्यथा शकुनिः पक्षी । इमौ वा पुनः भूयो चन्द्र-
मसावेवं महर्द्धिकावेवंमहानुभावौ पाणिना आमाष्टि, परिमाष्टि यावद् ब्रह्मलोकं
कायेन वशे वर्तयत इति इयमुच्यते ऋद्धिः । ऋद्धिपादाः कतमे ? छन्दसमाधिः,
१. तत्प्रतिष्ठत्वात्—का० । २. बोधिपक्ष्याः—का० ।
१०२० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
कस्मादिन्द्रियाण्येव बलान्युक्तानि ? मृद्वधिमात्रभेदादवमर्दनीयानवमर्दनी-
यत्वात् ।
इन्द्रियाणां किंकृतोऽनुक्रमः ? श्रद्दधानो हि फलार्थं वीर्यमारभते,
आरब्धवीर्यस्य स्मृतिरुपतिष्ठते, उपस्थितस्मृतेरविक्षेपाच्चित्तं समाधीयते,
समाहितचित्तो यथाभूतं प्रजानातीति ॥ ६८-६९ ॥
कस्यामवस्थायां कतमे ते बोधिपक्ष्याः प्रभाव्यन्ते ?
आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः ।
भावने दर्शने चैव सप्त वर्गा यथाक्रमम् ॥ ७० ॥
आदिकर्मिकावस्थायां कायाद्युपलक्षणार्थं स्मृत्युपस्थानानि । विशेषाधिगमेन
वीर्यसमाधिः, मीमांसासमाधिः- इम उच्यन्ते ऋद्धिपादा इति । एवंलक्षणः
समाधिः । तस्मान्न समाधिरेव ऋद्धिरिति १।
अत्राचार्यसङ्घभद्र आह—न भवत्येष तेषां दोषः, समाधिं हि ते ऋद्धिपाद-
मिच्छन्ति, ऋद्धिरपीति । छन्दादयस्तूच्यन्ते समावेश्यतुष्ट्वज्ञापनार्थम् २ ।
कश्चिद्धि समाधिः कुशलमूलप्रयोगावस्थायां प्रधानीभवति, कश्चिन्न कुशलमूल-
निष्पन्नावस्थायाम् । पूर्वोऽत्रर्द्धिपादः, उत्तरऋद्धिरिति सूत्रविरोधोऽपि चैषां
न भवति । ऋद्धिपादफलमृद्धिशब्देनोक्तम्, परिज्ञाफलस्य तच्छब्दाभिधान-
वदित्यादि ।
मृद्वधिमात्रभेदादिति । मृदूनीन्द्रियाणि । अधिमात्राणि बलानि । कथमेषां
मृद्वधिमात्रभेदः ? इति हेतुमाह-अवमर्दनीयानवमर्दनीयत्वादिति । तद्विपक्ष-
भूतैराश्रद्धयकौशीद्यमुषितस्मृतिताविक्षेपासम्प्रजन्यैरन्तरासमुदाचारादिन्द्रियाण्यव-
मृद्यन्ते, न त्वेवं बलानीति । पुनस्तान्युक्तानि ॥ ६८-६९ ॥
“आदिकर्मिकनिर्वेधभागीयेषु” इति । पञ्चावस्था इमे उक्ताः ।
“भावने दर्शने च” द्वे अवस्थे इति । सप्तस्ववस्थासु—
“सप्त वर्गा यथाक्रमम्” प्रभाव्यन्ते, व्यवस्थाप्यन्ते, प्रधानीक्रियन्ते वा ।
आदिकर्मिकावस्थायां स्मृत्युपस्थानानि । ऊष्मगतावस्थायां सम्यक्प्रधानानि ।
मूर्द्धावस्थायामृद्धिपादाः । क्षान्त्यवस्थायामिन्द्रियाणि । लौकिकाग्रधर्मावस्थायां
बलानि । भावनामार्गावस्थायां बोध्यङ्गानि । दर्शनमार्गावस्थायामार्याष्टाङ्गो मार्ग
इति । विशेषाधिगमहेतुर्वीर्यसंवर्धनम् । तस्मादूष्मगतेषु सम्यक्प्रधानानि ।
१. ऋद्धिरिति—जा० । २. ०चतुस्त्व०—जा० ।
निर्देशः ] षष्ठं कोशस्थानम् १०२१
वीर्यसंवर्धनादूष्मगतेषु सम्यक्प्रधानानि। अपरिहाणीयकुशलमूलप्रवेशत्वात्
मूर्धस्वृद्धिपादाः। अपुनःपरिहाणित आधिपत्यप्राप्तत्वात् क्षान्तिष्विन्द्रियाणि।
क्लेशानवमर्दनीयत्वाद्, अग्रधर्मेषु बलानि लौकिकान्यधर्मानवमर्दनीयत्वाद्वा। बोध्या-
सन्नत्वात् भावनामार्गे बोध्यङ्गानि। गमनप्रभावित्वाद् दर्शनमार्गे मार्गाङ्गानि;
तस्याशुगामित्वात्।
संख्यानुपूर्वीविधानार्थं तु पूर्वं सप्तोक्तानि, पश्चादष्टौ।
तत्र धर्मप्रविचयसम्बोध्याङ्गं बोधिर्बोध्यङ्गं च सम्यग्दृष्टिर्मार्गो मार्गाङ्गं चेति
वैभाषिकाः।
अपरे पुनर्भित्त्वैव क्रमं बोधिपक्षाणामानुपूर्वी¹ वर्णयन्ति; “आदित एव
तावद् बहुविधविषयव्यासेकविसारिणीनां बुद्धीनां निग्रहार्थं स्मृत्युपस्थानानि चेतस
अपरिहाणीयकुशलमूलप्रवेशत्वात्। मूर्धस्विति। अपरिहाण्यनुकूलानां कुशल-
मूलानां प्रवेशो मूर्धतः। "मूर्धलाभी न मूलच्छिद्" (अभि० को० ६.२३)
इति वचनात्। प्रविशन्त्येभिरिति कृत्वा प्रवेशः। अपरिहाणिर्हि क्षान्तिषु भवति।
तदवस्थाः समाधयः समृद्धेराश्रयीभवन्तीति। मूर्धस्वृद्धिपादा व्यवस्थाप्यन्ते।
अपुनःपरिहाणित इति विस्तरः। यस्मात् क्षान्तिषु पुनः परिहाणिर्नास्ति,
आद्ययोरेव हि परिहाणिसम्भवः। तस्मादाधिपत्यप्राप्तानि श्रद्धादीनि भवन्ति।
तद्भावात् क्षान्तिष्विन्द्रियाणि व्यवस्थाप्यन्ते। क्लेशानवमर्दनीयत्वादिति।
यस्मात् क्लेशैर्नावमृद्यन्ते; तस्यामवस्थायां क्लेशासमुदाचारात्। लौकिकान्य-
धर्मानवमर्दनीयत्वाद्वा। अथ वा - लौकिकैरन्यैर्धर्मैरनवमर्दनीयत्वादग्रधर्मावस्थायां
श्रद्धादीनि बलानीति प्रभाष्यन्ते। बोध्यासन्नत्वादिति। क्षयानुत्पादज्ञानसन्न-
त्वादित्यर्थः। भावनामार्गो हि क्षयानुत्पादज्ञानासन्नः। दर्शनमार्गस्तु दूरः,
तदन्तरालभावनामार्गव्यवहितत्वात्। गमनप्रभावित्वादिति। मार्गो हि लोके
गमनप्रभावितः। गच्छन्त्यनेनेति मार्गः, गच्छतीति वा मार्गः, "पाटलिपुत्रमयं
पन्था गच्छति' इति लोके वचनात्। दर्शनमार्गश्चातिशयेन गमनप्रभावितो न
भावनामार्गः। कथम्? इत्याह - तस्याशुगामित्वादिति। तद्वानपि तेनाशु
गच्छति। भावनामार्गेण तु भूमिभेदेन प्राकर्षकत्वात् बहुना कालेन गच्छति।
अपरे पुनराहुरिति। आचार्यः। अस्मदादय इत्यभिप्रायोत्। यथा वैभा-
षिकैर्भिन्नः क्रमः, तथा तमभित्त्वा बोधिपक्षाणामानुपूर्वी वर्णयन्ति। दर्शनमार्गे
१. ०पक्ष्याणा०-का०।
१०२२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
उपनिबद्धानि भवन्ति, यावदेव गर्धाश्रितानां स्मरसंकल्पानां प्रतिविनोदनाय" इति
सूत्रे वचनात् । तद्बलेन वीर्यसंवर्धनाच्चतुर्विधकार्यसम्पादनाय सम्यक्चित्तं प्रद-
धातीति सम्यक्प्रधानानि । ततः समाधिविशोधनाद् ऋद्धिपादाः । समाधिसन्निश्रयेण
लोकोत्तरधर्माधिपतिभूतानि श्रद्धादीनीन्द्रियाणि । तान्येव च निर्जितविपक्षसमुदा-
चाराणि बलानि । दर्शनमार्गे बोध्यङ्गानि । प्रथमतो धर्मतत्त्वावलोकात्
उभयोमार्गाङ्गानि ।
तथा ह्युक्तम्—"आर्याष्टाङ्गे खलु मार्गे भावनापरिपूरिं गच्छति चत्वारि
स्मृत्युपस्थानानि भावनापरिपूरिं गच्छन्ति, यावत् सप्त बोध्यङ्गानि" इति ।
पुनश्चोक्तम्—"यथाभूतवचनारोचनमिति भिक्षवश्चतुर्णामार्यसत्यानामेतदधि-
बोध्यङ्गानीति कृत्वा । बहुविधेति विस्तरः । बहुप्रकारो विषयो रूपादिभेदात्
नीलादिभेदाच्च । तस्मिन् व्यासेको विक्षेपः । बहुविषयव्यासेकेन विसर्तुं
शीलमासामिति बहुविधविषयव्यासेकविसारिण्यो बुद्धयः । तासां निग्रहार्थं
स्मृत्युपस्थानानि । गर्धाश्रितानां तृष्णाश्रितानामित्यर्थः । स्मरसङ्कल्पानामिति
अनुभूतविषयस्मृतिसङ्कल्पानामित्यर्थः । कामसङ्कल्पानामिति वा । तद्बलेनेति ।
चतुःस्मृत्युपस्थानबलेनेत्यर्थः । चतुर्विधकार्यसम्पादनायेति । चतुर्विधं
कार्यम् -- उत्पन्नानां धर्माणां प्रहाणम् , अनुत्पन्नानामनुत्पादः, तथानुत्पन्नानां
कुशलानामुत्पादः, उत्पन्नानां स्थित्यादीनि । ततः समाधिविशोधनादिति ।
ततः सम्यक्प्रधानेभ्योऽनन्तरं समाधिविशोधनादृद्धिपादाः प्रभाव्यन्ते ।
लोकोत्तरधर्माधिपतिभूतानीति । तद्वाहकत्वादधिपतिभूतानि वेदितव्यानि ।
तान्येवेन्द्रियाणि । यदा निर्जितविपक्षसमुदाचाराणि । निर्जिताश्रद्ध्यादि-
समुदाचाराणि भवन्ति, तदा बलानि । इन्द्रियावस्थायां हि क्लेशसमुदाचार-
सम्भवति; क्षान्त्यवस्थायाः प्राकर्षकत्वात् । दर्शनमार्गे बोध्यङ्गानीति ।
अनास्रवा प्रज्ञा बोधिरिति कृत्वा । उभयोमार्गाङ्गानीति । दर्शनभावना-
मार्गयोः ।
कथम् ? इत्याह—तथा ह्युक्तमिति विस्तरः । भावनया परिपूरिर्भावना-
परिपूरिः, तां गच्छत्यार्याष्टाङ्गो मार्गः । तस्मिन् गच्छति चत्वारि स्मृत्युप-
स्थानानि भावनापरिपूरिं गच्छन्ति । यावत्सप्त बोध्यङ्गानीति । भावनापरिपूरिं
गच्छन्तीति वचनान् भावनामार्गेऽपि आर्याष्टाङ्गो मार्गो भवतीति गम्यते ।
न हि दर्शनमार्गे भावना परिपूरिं गच्छति । किं तर्हि ? भावनामार्गे इति ।
निर्देशः ] षष्ठं कोशस्थानम् १०२३
वचनं यथागतेन मार्गेण प्रक्रमणमिति भिक्षो आर्याष्टाङ्गस्य मार्गस्यैतदधिवचनम्"
इति । तस्मादुभयोरार्याष्टाङ्गो मार्ग एष्टव्यः ॥ ७० ॥
सिद्धोऽनुक्रमः ॥
इदं तु वक्तव्यम्—कति बोधिपक्षा धर्माः सास्रवा इति ? कत्यनास्रवा
इति ?
अनास्रवाणि बोध्यङ्गमार्गाङ्गानि,
भावनादर्शनमार्गयोस्तद्द्वयव्यवस्थापनात् । लौकिका अपि हि सम्यग्दृष्ट्यादयः
सन्ति । ते नार्यमार्गशब्दं लभन्ते ।
द्विधेतरे ।
अन्ये बोधिपक्षाः सास्रवानास्रवाः ।
कस्यां भूमौ कति बोधिपक्षाः ?
सकलाः प्रथमे ध्याने,
सर्वे सप्तत्रिंशत् प्रथमे ध्याने ।
अनागम्ये प्रीतिवर्जिताः ॥ ७१ ॥
कस्मादनागम्ये प्रीत्यभावः ? सामन्तकानां बलवाहनीयत्वाद्, अधरभूमि-
साशङ्कत्वाच्च ॥ ७१ ॥
पुनश्चोक्तम् । उभयोर्मार्गाङ्गानि व्यवस्थाप्यन्त इति । चतुर्णामार्यसत्याना-
मेतदधिवचनमिति । दर्शनमार्गं दर्शयति । यथागतेन मार्गेण प्रक्रमणमिति
विस्तरेण यावन्मार्गस्यैतदधिवचनमिति । भावनामार्गं दर्शयति । यथागतेन
यथाप्राप्तेन मार्गेण प्रक्रमणं यावद् बोधिरिति । तदेवं दर्शनमार्गे भावनामार्गे
च मार्गाङ्गानि व्यवस्थाप्यन्त इति । अत उभयोरार्याष्टाङ्गो मार्ग एष्टव्य
इति ॥ ७० ॥
सिद्धोऽनुक्रमः । पूर्वं बोध्यङ्गानि, पश्चादार्याष्टाङ्गो मार्ग इति ।
"अनास्रवाणि बोध्यङ्गमार्गाङ्गानि" इति । अनास्रवाण्येवेत्यवधारणम् ।
"द्विधेतरे" इति । स्मृत्युपस्थानादयो बलपर्यन्ताः ।
१. ०मार्गाङ्गानि—का० ।
१०२४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
द्वितीयेऽन्यत्र सङ्कल्पात्,
द्वितीये ध्याने सम्यक्संकल्पवर्ज्याः षट्त्रिंशदेव; तत्र वितर्काभावात् ।
द्वयोस्तद्वयवर्जिताः ।
तृतीयचतुर्थयोर्ध्यानयोः प्रीतिसङ्कल्पाभ्यां वर्जिताः पञ्चत्रिंशत् ।
ध्यानान्तरे च,
ताभ्यामेव द्वाभ्यां वर्जिताः पञ्चत्रिंशदेव ।
शीलाङ्गैस्ताभ्यां च त्रिष्वरूपिषु ॥ ७२ ॥
'वर्जिताः' इति वर्तते । आरूप्येषु सम्यग्वाक्कर्मान्ताजीवैः प्रीतिसङ्कल्पाभ्यां
च वर्जिता द्वात्रिंशत् ॥ ७२ ॥
कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः ।
द्वाविंशतिर्बोधिपक्षास्तयोरनास्रवमार्गाभावात् ।
बोधिपक्षेषु वर्तमानस्य कस्यामवस्थायामवेत्यप्रसादलाभो वेदितव्यः ?
त्रिसत्यदर्शने शीलधर्मवित्यप्रसादयोः ॥ ७३ ॥
बलवाहनीयत्वादिति। बलेन वीर्येण सम्मुखीकरणीयत्वात्। अनागम्ये
प्रीत्यभावः। सुखाधिगम्यं चित्तं प्रीणाति, नेतरदिति। किञ्च अधरभूमि-
साशङ्कत्वाच्च। परिहाणिं प्रति साशङ्क इत्यतश्च तत्र प्रीत्यभावः। साशङ्कतायां
हि चित्तं न प्रीयते ॥ ७१ ॥
सङ्कल्पवर्ज्या इति । सङ्कल्पः = वितर्कः ॥ ७२ ॥
“कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः” इति । कथं भवाग्रे
कायस्मृत्युपस्थानं भवति । न हि तत्र कायो विद्यते, कायालम्बना हि प्रज्ञा
कायस्मृत्युपस्थानम्, न च भवाग्रं कामधातुं रूपधातुं चालम्बते; "न मौलाः
कुशलारूप्याः सास्रवाधरगोचराः” (अभि० को० ८.२१) इति सिद्धान्तात् ?
नैतत् केनचिद् व्याख्याकारेण लिखितम्, तदिदमत्र व्यवस्थापयामः—
कायस्य कः स्वभावः ? भौतिकत्वमित्युक्तम् । भूतं भौतिकं च काय इत्यर्थः ।
तत्र यदि केवलभूतालम्बना, केवलभौतिकालम्बना, तदुभयालम्बना वा प्रज्ञा
भवेत्. कायस्मृत्युपस्थानमेव तद्भवेत् । भवाग्रे च कुशलसास्रवा प्रज्ञा मार्गत
इति न्यायत इति वानास्रवसंवरमार्गालम्बनत इति । सास्रवाधरालम्बना हि
मौलाः कुशलारूप्या नेष्यन्ते । न त्वनास्रवाधरालम्बना इति । अतस्तदत्र
कायस्मृत्युपस्थानं वेदितव्यम् ।
निर्देशः ] षष्ठं कोशस्थानम् १०२५
लाभो मार्गाभिसमये बुद्धतत्सङ्घयोरपि ।
दुःखसमुदयनिरोधसत्यान्यभिसमयन् धर्मे चावेत्यप्रसादमार्थकान्तानि च
शीलानि प्रतिलभते ॥ ७३ ॥
मार्गसत्यमभिसमयन् बुद्धे तस्य च श्रावकसङ्घेऽवेत्यप्रसादं प्रतिलभते । यो
हि तयोः प्रसादः सोऽशैक्ष्येषु बुद्धकरकेषु धर्मेषु शैक्षाशैक्ष्येषु च सङ्घकरकेषु
प्रसादः । अपिशब्दाच्छीलधर्मवित्यप्रसादौ च प्रतिलभते ।
कोऽयमिह धर्मोऽभिप्रेतः ?
धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः ॥ ७४ ॥
मार्गश्च,
अतश्चत्वार्यपि सत्यान्यभिसमयतो धर्मेऽवेत्यप्रसादलाभः¹। सैव श्रद्धा
अधिष्ठानभेदान्नामतश्चत्वारोऽवेत्यप्रसादा उच्यन्ते² ॥ ७४ ॥
चत्वारोऽवेत्यप्रसादाः—बुद्धेऽवेत्यप्रसादः, धर्मे, सङ्घे च, आर्यकान्तानि च
शीलानीति । तत्र दुःखसत्यादीनां धर्मत्वाद्, अबुद्धसङ्घस्वभावत्वाच्च । यथाक्रमं
सत्यत्रयमभिसमयन् पश्यन् धर्मे चावेत्यप्रसादमार्थकान्तानि च शीलानि
अनास्रवाणि प्रतिलभते । न बुद्धे न सङ्घे वा अवेत्यप्रसादम् ॥ ७३ ॥
मार्गसत्यमभिसमयतो बुद्धे तस्य च श्रावकसङ्घेऽवेत्यप्रसादं प्रतिलभते ।
मार्गसत्यस्य बुद्धसङ्घस्वभावत्वात् ।
कोऽयमिह धर्मोऽभिप्रेत इति । बहवो धर्माः कुशला धर्मा इत्येवमादयः,
तत् कोऽयमिह धर्मोऽभिप्रेतः, यदुक्तं धर्मे चावेत्यप्रसादं प्रतिलभत इति अथ
वा बुद्धरत्नं, सङ्घरत्नं चेत्युच्यते, - तस्मादिदमपि धर्मरत्नमिहाभिप्रेतं भवेत्,
रत्नत्रयस्य ह्ययं स्वभाव उक्तः—
'बुद्धसङ्घकरान् धर्मानशैक्षानुभयाँश्च सः
निर्वाणं चेति शरणं यो याति शरणत्रयम् ॥' (अभि०को० ४.३२)
इति । तत्र किमय निर्वाणधर्मोऽभिप्रेतः? पृच्छति—कोऽयमिह धर्मोऽभिप्रेत
इति ।
"धर्मः सत्यत्रयम्" । इति विस्तरः। दुःखसमुदयनिरोधसत्यानि । बोधि-
सत्त्वस्य च शैक्षावस्थायामनास्रवो मार्गः । प्रत्येकबुद्धस्य च शैक्षाशैक्षलक्षणो
१०२६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ मार्गपुद्गल-
द्रव्यतस्तु द्वे श्रद्धा शीलं च,
बुद्धधर्मसङ्घावेत्यप्रसादाः श्रद्धास्वभावाः, आर्यक्रान्तानि च शीलानि शीलमिति
द्वे द्रव्ये भवतः ।
किं पुनरेते सास्रवानास्रवा एकान्तेनावैत्यप्रसादाः ?
निर्मलाः ।
अवैत्यप्रसादा इति कोऽर्थः ? यथाभूतसत्यान्यवबुध्य सम्प्रत्ययोऽवेत्य-
प्रसादः । यथा तु¹ व्युत्थितः सम्मुखीकरोति तथैषामानुपूर्व्यम्² ।
कथं व्युत्थितः सम्मुखीकरोति ? सम्यक्सम्बुद्धो बत भगवान् , स्वाख्यातोऽस्य
धर्मविनयः, सुप्रतिपन्नोऽस्य श्रावक सङ्घ इति; वैद्यभैषज्योपस्थायकभूतत्वात् ।
चित्तप्रसादकृतः³ शीलप्रसाद इत्युच्यते चतुर्थ उक्तः । एवं प्रसन्नस्यैषा प्रतिपत्ति-
रिति; आरोग्यभूतत्वाद्वा, दैशिकमार्गसार्थिकयानवद्वा⁴ ।
मार्गो धर्म इहाभिप्रेत इति । अतश्चत्वार्यपीति विस्तरः । मार्गसत्यमप्यभि-
समयन् धर्ममपि बोधिसत्त्वप्रत्येकबुद्धमार्गलक्षणमभिसमयति । तस्माच्चत्वार्यपि
सत्यान्यभिसमयतो धर्मेऽवैत्यप्रसादलाभ इत्युक्तमिति । बुद्धसङ्घयोर्मार्गो धर्म
इति नोच्यते । यस्मात् तदभिसमयतो बुद्धे सङ्घे चावेत्यप्रसादलाभ इति ।
कथं पुनर्मार्गसत्याभिसमयतः श्रद्धालक्षणानां त्रयाणां बुद्ध-धर्म-सङ्घावेत्य-
प्रसादानां युगपत् सम्मुखीभावः ? सैव श्रद्धा अधिष्ठानभेदापेक्षया नामत्रयं लभत
इत्यदोषः । अथ वा धर्मेऽवैत्यप्रसादो वर्तमानः । अनागतास्तु त्रयो भाव्यन्ते ।
तेनोच्यते—
“लाभो मार्गाभिसमये बुद्धतत्सङ्घयोरपि” इति (अभि० को० ६.७४) ॥७४॥
यद्यधिष्ठानापेक्षयावेत्यप्रसादव्यवस्थानम्, धर्मावेत्यप्रसादः पूर्वं पठितव्यः
स्यादित्यत आह—यथा तु व्युत्थितः सम्मुखीकरोति । तथैषामानुपूर्व्यमिति ।
वैद्यभैषज्योपस्थायकभूतत्वादिति । वैद्यभूतो भगवाननुत्तरो भिषक्⁵ शल्यहर्तेति
सूत्रात् । धर्मभैषज्यदैशिकत्वाच्च । भैषज्यभूतो धर्मः क्लेशव्याधिभैषज्यत्वात्
निर्वाणारोग्यसम्प्रापकत्वाच्च । उपस्थायकभूतः सङ्घो निर्वाणारोग्यप्राप्तये
परस्परोपस्थानात् । चित्तप्रसादकृतः शीलप्रसाद इति । त्रिविधश्चित्तप्रसादः—
१. च—का० । २. ०मानुपूर्वीम्—का० । ३. ०कृतश्च—का० ।
४. देशिक०—का० । ५. विषक्—जा० ।
क्तिः सम्यग्ज्ञानं च नोक्तम् ?
Wait, "कस्माच्छैक्षस्य" - कस्मात् + शैक्षस्य = कस्माच्छैक्षस्य. Yes, chha (च्छ).
"सम्यग्विमुक्तिः सम्यग्ज्ञानं च नोक्तम् ?" - correct.
:
नोक्ता विमुक्तिः शेक्षाङ्गं बद्धत्वात्,
Wait, earlier I checked whether it's "शेक्षाङ्गं" or "शैक्षाङ्गं".
Look at the top of श in :
There is definitely one mātrā stroke clearly visible. Let's look at whether there is a second one.
Wait, look at "नोक्ता" (one stroke), "विमुक्तिः", "शेक्षाङ्गं" (one stroke).
Wait, look at "शैक्षः" in : TWO clear strokes above 'श'.
Look at "शैक्षा" in : TWO clear strokes above 'श'.
Look at "अशैक्ष्या" in : TWO clear strokes above 'श'.
In , "शेक्षाङ्गं" only has ONE stroke! So the typesetter placed an 'e' mātrā instead of 'ai', resulting in "शेक्षाङ्गं".
:
बद्धो हि शैक्षः क्लेशबन्धनैरद्यापीति ।
Everything is clear and correct.
:
कथं बद्ध
तत्र—
असंस्कृता क्लेशहानमधिमुक्तिस्तु संस्कृता ।
क्लेशप्रहाणमसंस्कृता विमुक्तिः । अधिमोक्षः¹ संस्कृता विमुक्तिः ।
साङ्गः,
सैवासंस्कृता विमुक्तिरशैक्षाङ्गयुक्ता; अङ्गानां संस्कृतत्वात् ।
सैव विमुक्ती द्वे,
सैव संस्कृता विमुक्तिर्द्वे विमुक्ती सूत्र उक्ते—चेतोविमुक्तिः, प्रज्ञाविमु-
क्तिश्च । विमुक्तिस्कन्धोऽपि स एव द्रष्टव्यः ।
यत्तर्हि सूत्र उक्तम्—"कतमच्च व्याघ्रबोध्यायना विमुक्तिपरिशुद्धिप्रधानम् ?
इह भिक्षवो रागाच्चित्तं विरक्तं भवति विमुक्तम्, द्वेषात्, मोहाच्चित्तं विरक्तं भवति
प्रकर्षित इत्यर्थः । तस्यैवाशैक्ष्यस्य तद्वचनं विमुक्तिवचनं विमुक्तिज्ञानवचनं च ।
न्याय्यम् । न शैक्षस्येति ॥ ७५ ॥
अधिमोक्षः संस्कृता विमुक्तिरिति । धात्वर्थैकत्वात् ।
अङ्गानां संस्कृतत्वादिति । यथा सम्यग्दृष्ट्यादीनि संस्कृतानि, तथा
विमुक्तिरपि संस्कृतैव गृह्यते, नासंस्कृता; विसभागत्वाद्विसदृशत्वात् ।
द्वे विमुक्ती सूत्र उक्ते इति । रागविरागाच्चेतोविमुक्तिः, अविद्याविरागात्
प्रज्ञाविमुक्तिरिति । चेतोविमुक्तिः, प्रज्ञाविमुक्तिश्चेत्यर्थः । विमुक्तिस्कन्धोऽपि स
एवेति । शीलस्कन्धः, समाधिस्कन्धः, प्रज्ञास्कन्धः, विमुक्तिस्कन्धः । विमुक्तिज्ञान-
दर्शनश्चेत्यत्र द्रष्टव्यः ।
यत्तर्हि सूत्र उक्तमिति । "चत्वारीमानि व्याघ्रबोध्यायना परिशुद्धिप्रधानानि ।
कतमानि चत्वारि ? शीलपरिशुद्धिप्रधानम्, समाधिपरिशुद्धिप्रधानम्, दृष्टि-
परिशुद्धिप्रधानम्, विमुक्तिपरिशुद्धिप्रधानं च” ( ) इति विस्तरेणोक्त्वाह—
कतमच्च व्याघ्रबोध्यायना विमुक्तिपरिशुद्धिप्रधानम् । यावद् यश्छन्दो वीर्यमिति
विस्तरः । व्याघ्रबोध्यायना इति बहुवचनम्; तेषां बहुत्वात् । विमुक्तिपरिशुद्धि-
प्रधानमिति । विमुक्तेः परिशुद्धिः विमुक्तिपरिशुद्धिः, तस्यै प्रधानं विमुक्ति-
परिशुद्धिप्रधानम् । तदेवमत्र विमुक्तिपरिशुद्धिप्रधान इति प्रश्नत्रयम् । तत्र
१. अशैक्षाधिमोक्षः—का० ।
विमुक्तमित्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये परिपूर्णस्य वानुग्रहाय¹
यश्छन्दो² वीर्यम्" इति विस्तरः । तस्मान्नाधिमोक्ष एव विमुक्तिः । किं तर्हि ?
तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यं विमुक्तिरित्यपरे ।
उक्ता विमुक्तिः ॥
सम्यग्ज्ञानं तु सम्यग्दृष्टिः । व्यतिरिक्तं कतमत् ?
ज्ञान बोधिर्यथोदिता ॥ ७६ ॥
यैव हि पूर्वं बोधिरुक्ता सैवेह सम्यग्ज्ञानं वेदितव्यम् । यदुत क्षयज्ञानम्,
अनुत्पादज्ञानं च ॥ ७६ ॥
कतमत् पुनश्चित्तं विमुच्यते—किमतीतम्, अनागतम्, प्रत्युत्पन्नम् ?
विमुच्यते जायमानमशैक्षं³ चित्तमावृतेः ।
“अनागतं चित्तमुत्पद्यमानं विमुच्यते अशैक्षमावरणेभ्यः” इति शास्त्रपाठः ।
किं पुनस्तस्यावरणम् ? क्लेशप्राप्तिः, तदुत्पत्तिनिबन्धत्वात् । वज्रोपमे हि समाधौ
सा च प्रहीयते । तच्चोत्पद्यमानमशैक्षं चित्तं विमुच्यते । सा च प्रहीणा भवति ।
तच्चाशैक्षं चित्तमुत्पन्नं विमुक्तं च । यत्तर्हि नोत्पद्यमानं लौकिकं वा⁴, तदपि
विमुच्यते । यत्तु नियतमुत्पत्तौ तदेवोक्तम् ।
इह भिक्षो रागञ्चित्तं विरक्तं भवति विमुक्तम् । द्वेषात् मोहाद्विरक्तं भवति
विमुक्तम् । विमुक्तिरुक्ता । इत्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये । परि-
पूर्णस्य वानुग्रहायेति⁵ । विमुक्तिपरिशुद्धिः परिपूर्यनुग्रहलक्षणोक्ता । यश्छन्दो
वीर्यमिति विस्तरेण प्रधानमुक्तम् । यत एवं रागादिभ्यो विमुक्तिः प्रहाणमित्येवं-
लक्षणा विमुक्तिरुक्ता । सूत्रे नाधिमुक्तिः; तस्मान्नाधिमोक्ष एव विमुक्तिः ।
किं तर्हि ? तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यमनास्त्रवत्वमनर्थान्तरभूतं
घृतमण्डस्वच्छतावदिति । अपरे इति । आचार्यः ॥ ७६ ॥
तदुत्पत्तिनिबन्धत्वादिति । तस्याशैक्षस्य चित्तस्योत्पत्तौ विबन्धत्वात् ।
क्लेशप्राप्तिर्हि विबन्धः । यत्तर्हि नोत्पद्यमानमिति । यदनागतं वज्रोपमात्
समाधेरनन्तरं भवत्यशैक्षमेव । लौकिकं वेत्यशैक्षसन्तान एव यल्लौकिकम् ।
१. चानु०—फा० । २. च्छन्दो—का० । ३. ॰मानसशैक्षं—का० ।
४. व—का० । ५. ॰नुग्रहायायेति—जा० ।
अभि० को० ३ : १८
१०३० भाष्यस्फुटार्थामहितेऽभिधर्मकोशे [मार्गपुद्गल-
लौकिकं कुतो विमुच्यते ? तत एवोत्पत्त्यावरणात् ।
ननु चामुक्तस्यापि शैक्षस्य लौकिकमुत्पद्यते ? न तत्तादृशम् । कीदृशं
तत् ? क्लेशप्राप्तिसहितम् ।
किमवस्थो मार्गस्तदुत्पत्त्यावरणं प्रजहाति ?
निरुध्यमानो मार्गस्तु प्रजहाति¹ तदावृतिम् ॥ ७७ ॥
वर्तमान इत्यर्थः ॥ ७७ ॥
या चासंस्कृता विमुक्तिरुक्ता, ये च त्रयो धातव उच्यन्ते—प्रहाणधातुः,
विरागधातुः, निरोधधातुरिति, क एषां विशेषः ?
असंस्कृतेव धात्वाख्या,
सैवासंस्कृता विमुक्तिस्त्रयो धातवः । तत्र पुनः—
विरागो रागसंक्षयः ।
रागस्य प्रहाणं विरागधातुः ।
यत्तु नियतमुत्पत्तौ तदेवोक्तमिति । यदुत्पादाभिमुक्तमनागतम् तदेवोक्तं शास्त्रे
विमुच्यत इति । तद्विमुच्यमानतया सूपलक्ष्यत्वादित्यभिप्रायः ।
तत एवोत्पत्त्यावरणादिति । तत एव क्लेशप्राप्तिः । तदुत्पत्तिविबन्धादिति
तदेवात्र कारणं वक्तव्यम् । यद्यशैक्षसन्तानलौकिकमपि विमुच्यत इत्यभ्युपग-
म्यते, शैक्षस्यापि लौकिकमुत्पद्यते । कस्मान्न विमुच्यत इत्यभ्युपगम्यते ? अत
आह—न तत्तादृशमित्यादि । क्लेशप्राप्तिसहितं तच्छैक्षस्य लौकिकम्, न
त्वशैक्षस्य लौकिकमेवं भवतीत्यसाम्यम् ।
“निरुध्यमानः” इति । निरोधाभिमुखः ।
“तदावृतिम्” इति । अशैक्षचित्तावरणम् ॥ ७७ ॥
या चासंस्कृता विमुक्तिरुक्ता शास्त्रे, इहैव वा “असंस्कृता क्लेशहानम्”
(अभि० को० ६.७६) इति । ये च त्रयो धातव उच्यन्ते । क्वोच्यन्ते ? सूत्रे,
शास्त्रेऽपि वा ।
“विरागो रागसंक्षयः” इति । भेदविवक्षायामेवमुच्यते । अभेदविवक्षायां
तु यो विरागः तत्प्रहाणमप्युच्यते, निरोधोऽपीत्यादि ।
१. प्रहजहाति—का० ।
Here is the line-by-line transcription of the Sanskrit text from the image:
निर्देशः] षष्ठ कोशस्थानम् १०३१
प्रहाणधातुरन्येषां,
'संक्षयः' इति वर्तते । रागादन्येषां क्लेशानां प्रहाणं प्रहाणधातुः ।
निरोधाख्यस्तु वस्तुनः ॥ ७८ ॥
'संक्षयः' इत्येवानुवर्तते । क्लेशविर्मुक्तस्य वस्तुनः प्रहाणं निरोधधातुः ।
येन वस्तु निर्विद्यते, विरज्यते ऽपि तेन वस्तुना। चतुष्कोटिकः२ ॥ ७८ ॥
कथं कृत्वा ?
निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः,
दुःखे समुदयक्षान्तिज्ञानैरेव निर्विद्यते, नान्यैः ।
विरज्यते ।
सर्वैर्जहाति यैः,
सर्वैरपि दुःखसमुदयनिरोधमार्गक्षान्तिज्ञानैर्विंरज्यते, यैः क्लेशान् प्रजहाति ।
एवं चतुष्कोटिकसम्भवः ॥ ७९ ॥
एवं चतुष्कोटिकं सिध्यति—१. निर्विद्यत एव, दुःखसमुदयक्षान्तिज्ञानैः
क्लेशान् प्रजहत्; निर्वेदवस्त्वालम्बनत्वात् । २. विरज्यत एव, निरोधमार्गक्षान्ति-
"वस्तुनः" इति । सास्स्रवस्य रूपादेः । चतुष्कोटिक इति । स्या-
न्निर्विद्यते न वज्र्यते, स्याद्विरज्यते न निर्विद्यते, स्यादुभयम्, स्यान्नो-
भयमिति ॥ ७८ ॥
“निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः” इति । अनेन वस्तुहेतुकं निर्वेदं
दर्शयति ।
“विरज्यते, सर्वैर्जहाति यैः” इति । प्रहाणक्रियाहेतुकं विरागं दर्शयति ।
एवं चतुष्कोटिकं सिध्यतीति । एवं निर्वेदविरागकारणं परिच्छिद्य योज्यम् ।
तेन चतुष्कोटिकं सिध्यतीत्याभिप्रायः । कथम् ? इत्याह- निर्विद्यत एवेति
विस्तरः । निर्विद्यत एव, दुःखसमुदयक्षान्तिभिर्दुःखसमुदयज्ञानैश्च निर्वेदवस्त्वा-
लम्बनत्वात् । दुःखसमुदयौ हि निर्वेदस्य वस्तुनी आलम्बनमिति । न विरज्यते;
क्लेशान्प्रजहदिति वचनेन प्रहाणांक्रयाया असम्भवात् । विरज्यत एव
निरोधमार्गक्षान्तिभिर्दर्शनमार्गे । निरोधमार्गज्ञानैर्भावनामार्गे । क्लेशान्प्रजहदिति ।
२. चतुष्कोटिकम्—का० ।
१०३२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [मार्गपुद्गलनिर्देशः]
ज्ञानैः क्लेशान् प्रजहत्; प्रामोद्यवस्त्वालम्बनत्वात् । ३. उभयम्, पूर्वैः क्लेशान्
प्रजहत् । ४. नोभयम्, उत्तरैः क्लेशानप्रजहदिति ।
तत्र वीतरागः सत्यानि पश्यन् धर्मज्ञानक्षान्तिभिः क्लेशान्न प्रजहाति ।
ज्ञानैस्तु प्रयोगविमुक्तिविशेषमार्गैर्न^१ प्रजहातीति ॥ ७९ ॥
अभिधर्मकोशभाष्ये मार्गपुद्गलनिर्देशो नाम
षष्ठं कोशस्थानं समाप्तमिति^२
प्रहाणक्रियासम्भवात् । न निर्विद्यते; प्रामोद्यवस्त्वालम्बनत्वात् । निर्वाणमार्गो
हि प्रामोद्यवस्तूनी आलम्बनमिति । उभयम्पूर्वैः क्लेशान्प्रजहदिति निर्विद्यते
च विरज्यते च पूर्वैर्दुःखसमुदयक्षान्तिज्ञानैः । कथम् ? निर्विद्यते, निर्वेदवस्त्वा-
लम्बनत्वात् । विरज्यते, क्लेशान्प्रजहदिति वचनेन प्रहाणक्रियासम्भवात् ।
नोभयमुत्तरैः क्लेशानप्रजहदिति । न च निर्विद्यते । उत्तरैर्निरोधमार्गक्षान्ति-
ज्ञानैः प्रामोद्यवस्त्वालम्बनत्वात् न निर्विद्यते । क्लेशानप्रजहदिति वचनेन
प्रहाणक्रियाया अभावात् न विरज्यते ।
आह—अपदिष्टं प्रथमायां कोट्यां चतुर्थ्यां च क्लेशान्प्रजहदिति । कः
कान् क्लेशान् प्रजहाति ? तत्र वीतराग इति विस्तरः । तत्रार्थोपक्षेपार्थम् ।
वीतरागः कामधातोर्यावदाकिञ्चन्यायतनादपि । सत्यानि पश्यन्नभिसमयन् ।
धर्मज्ञानक्षान्तिभिर्धर्मज्ञानैर्धर्मज्ञानक्षान्तिभिश्च क्लेशान्न प्रजहाति । लौकिकेन
भावनामार्गेण पूर्वं प्रहीणत्वात् । अनास्रवा तु केवलं विसंयोगप्राप्तिरुत्पद्यते ।
अन्वयज्ञानक्षान्तिभिस्त्ववश्यं क्लेशान्प्रजहाति । न हि लौकिकेन मार्गेण
भवाग्रवैराग्यमस्ति । ज्ञानैस्तु भावनामार्गे । प्रयोगविमुक्तिविशेषमार्गैरानन्तर्य-
मार्गैरपि च कैश्चिदिन्द्रियसञ्चाराद्यवस्थासु न क्लेशान् प्रजहाति ।
केऽवशिष्यन्ते ? तदन्ये आनन्तर्यमार्गास्तैः क्लेशान् प्रजहातीति सिद्धम् ॥७९॥
आचार्ययशोमित्रकृतायां स्फुटार्थायाम्
अभिधर्मकोशव्याख्यायां षष्ठं
कोशस्थानं समाप्तम्
१. ॰मार्गसंगृहीतैः—का० । २. ॰श्रीलामावाक्यस्य यदत्र पुण्यम्—का० ।
ॐ नमो बुद्धाय ॐ
सप्तमं कोशस्थानम्
( ज्ञाननिर्देशः )
क्षान्तयश्चोच्यन्ते,१ ज्ञानानि च, सम्यग्दृष्टिः, सम्यग्ज्ञानं च ।
किं पुनः क्षान्तयो न ज्ञानम्, सम्यग्ज्ञानं च न दृष्टिः ?
नामला क्षान्तयो ज्ञानम्,
तत्प्रहेयस्य विचिकित्सानुशयस्याप्रहीणत्वात् । दृष्टयस्तु ताः;
सन्तीरणात्मकत्वात् ।
स्फुटार्थाव्याख्यायां
सप्तमं कोशस्थानम्
षष्ठात् कोशस्थानादनन्तरं सप्तमस्योपन्यासे सम्बन्धं दर्शय-
न्नाह—क्षान्तयश्चोच्यन्ते, ज्ञानानि चेति विस्तरः ।
“लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा” (अभि० को० ६.२५)
इत्यत्राष्टौ क्षान्तय उक्ताः, “कामदुःखे ततोऽत्रैव धर्मज्ञानं तथा पुनः”
(अभि० को० ६.२६) इत्यत्र ज्ञानानि, “न२ चेत् क्षयज्ञानमशैक्षी वा दृष्टिः”
(अभि० को० ६.५०) इत्यत्र सम्यग्दृष्टिः, “सैव विमुक्ती द्वे ज्ञानं वोधिर्य-
थोदिता” (अभि० को० ६-७६) इत्यत्र सम्यग्ज्ञानम्, इहैव वा षष्ठकोश-
स्थानावसाने एतत् सर्वमुक्तम् ।
“निर्विद्यते दुःखेहेतुक्षान्तिज्ञानैर्विरज्यते । सर्वैर्जहाति यैः” (अभि०
को० ६.७६) इति शास्त्रसम्बन्धेन वायमुपन्यस्यते । शास्त्रे हि क्षान्तय-
श्चोच्यन्ते ज्ञानानि च, सम्यग्दृष्टिः सम्यग्ज्ञानं च । तत्प्रत्यायनाथ चाय-
मारभ्यते इत्यतः पृच्छति—किं पुनः क्षान्तयो न ज्ञानमिति विस्तरः ।
नामला क्षान्तयो ज्ञानमिति । ‘अमला एव क्षान्तयो न ज्ञानम्’ इत्यवधा-
रणात् ‘सास्रवाः क्षान्तयो ज्ञानम्’ इत्युक्तं भवति । संवृतिज्ञानं हि तदिष्यते ।
तत्प्रहेयस्येति । क्षान्तिप्रहेयस्य । विचिकित्सानुशयस्याप्रहीणत्वात् । प्रहीयते
१. श्रीक्षान्तय०--का० । २. ज० पुस्तके नास्ति ।
१०३४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
यथा च क्षान्तयो दृष्टिर्न ज्ञानम्, एवं पुनः
क्षयानुत्पादधीर्न दृक् ।
क्षयज्ञानमनुत्पादज्ञानं च न दृष्टिः; असन्तीरणापरिमार्गणाशयत्वात् ।
तदन्योभयथार्या धीः,
क्षान्तिक्षयानुत्पादज्ञानेभ्योऽन्यानास्रवा प्रज्ञा, दृष्टिः ज्ञानं च ।
अन्या ज्ञानम्,
लौकिकी प्रज्ञा सर्वैव ज्ञानम् ।
हि तास्ववस्थास्वनुशयः, न प्रहीणः; विप्रकृतावस्थत्वात् । निश्चितं च
ज्ञानमिष्यते नानिश्चितम्, इति न क्षान्तयो ज्ञानम् । क्षमारूपेण च क्षान्तय
उत्पद्यन्ते, न निश्चयरूपेणेति न ज्ञानमिति वर्णयन्ति ।
'विचिकित्सानुशयस्याप्रहीणत्वात्' इत्येतावति वक्तव्ये 'तत्प्रहेयस्य'
इति विशेषणं किमर्थम् ? द्वितीये हि क्षणे प्रथमक्षान्तिप्रहेयो विचिकित्सानु-
शयो प्रहीणो भवतीति प्रथमैव क्षान्तिर्न ज्ञानमिति गम्यते, न त्वन्याः
क्षान्तय इत्यतः 'तत्प्रहेयस्य' इति विशेषणम् । यद्वा—दुःख-धर्म-ज्ञानादीनां
ज्ञानत्वप्रतिपादनार्थम् । यदि विचिकित्सानुशयाप्रहीणत्वादित्येतावदुच्यते ।
एवम् सन्तीरणात्मकत्वादिति । उपनिध्यानस्वभावत्वादित्यर्थः । असन्ती-
रणापरिमार्गणाशयत्वादिति । नास्ति सन्तीरणमस्येति असन्तीरणम् । परि-
मार्गणे आशयः=अभिप्रायः परिमार्गणाशयः, नास्य परिमार्गणाशय इत्य-
परिमार्गणाशयम्; असन्तीरणं च तदपरिमार्गणाशयं च असन्तीरणापरि-
मार्गणाशयम्, तद्भावस्तस्मात् । क्षयज्ञानमनुत्पादज्ञानं च न दृष्टिः इत्यर्थः ।
यावदयमकृतकृत्यः, तावद् दुःखादीनि सत्यान्युपनिध्यायति, परिमार्गयति
चाशयतो यथोक्तैरनित्यादिभिराकारैः । कृतकृत्यस्य पुनर्यथा दृष्टिश्चेव
दुःखादिष्वार्यसत्येषु प्रत्यवेक्षणमात्रं ताभ्यां भवतीति 'दुःखं मया परिज्ञातं न
पुनः परिज्ञेयम्' इत्यादि । तस्मान्न ते दृष्टिस्वभावे ।
“तदन्योभयथार्या धीः” इति । दुःखे धर्मज्ञानं यावन्मार्गेऽन्वयज्ञानम् ।
सा प्रज्ञोपनिध्यानप्रवृत्ता तद्विषयविचिकित्सा च । अन्येति । लौकिकी ।
सा सर्वैव ज्ञानमित्यवधारणम् । न सा प्रज्ञास्ति । यन्न ज्ञानमित्यर्थः । का
पुनरसौ प्रज्ञा ? पञ्चविज्ञानकायिका कुशलाकुशलाव्याकृता मानसी या
दृष्टिस्वभावक्लेशसम्प्रयुक्ता, अनिवृताव्याकृता च ।
निर्देशः ] सप्तमं कोशस्थानम् १०३५
दृशश्च षट् ॥ १ ॥
पञ्च दृष्टयः, लौकिकी च सम्यग्दृष्टिः। एषा षड्विधा लौकिकी
प्रज्ञादृष्टिः, अन्या न दृष्टिः। ज्ञानं त्वेषा चान्या च ॥ १ ॥
कियता सर्वज्ञानसंग्रहः ? दशभिर्ज्ञानैः । समासेन तु
सास्रवानास्रवं ज्ञानम्,
तयोः पुनः
आद्यं संवृतिसंज्ञकम् ।
यत् सास्रवं तत् संवृतिज्ञानम्, प्रायेण घटपटस्त्रीपुरुषादिसंवृतिग्रहात् ।
अज्ञानसंवृतत्वात् इत्यपरे ।
अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च ॥ २ ॥
अनास्रवं ज्ञानं द्विधा भिद्यते—धर्मज्ञानम्, अन्वयज्ञानं च ॥ २ ॥
या पुनर्द्दृष्टिस्वभावा या च मानसी कुशला, सा किं भवति ?
इत्याह—"दृशश्च षट्" इति ।
एषा षड्विधा लौकिकी प्रज्ञा दृष्टिः, अन्या
१०३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
एवमते द्वे ज्ञाने त्रीणि भवन्ति—संवृतिज्ञानम्, धर्मज्ञानम्, अन्वयज्ञानं
च। तत्र
सांवृतं सर्वविषयम्,
संवृतिज्ञानस्य सर्वधर्माः संस्कृतासंस्कृता आलम्बनम्, सम्भवतः।
कामदुःखादिगोचरम्।
धर्माख्यम्,
धर्मज्ञानस्य कामावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम्।
अन्वयज्ञानं तूर्ध्वदुःखादिगोचरम् ॥ ३ ॥
अन्वयज्ञानस्य रूपारूप्यावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चा-
लम्बनम्।
ते एव सत्यभेदेन चत्वारि,
ते एव धर्मज्ञानान्वयज्ञाने सत्यभेदेन पुनश्चत्वारि ज्ञानानि भवन्ति—
दुःख-समुदय-निरोध-मार्गज्ञानानि; तदालम्बनत्वात्।
एते चतुर्विधे।
अनुत्पादक्षयज्ञाने,
एते एव धर्मान्वयज्ञाने१ चतुर्विधे अदृष्टिस्वभावे क्षयज्ञानमनुत्पादज्ञानं
चोच्येते२।
ते पुनः प्रथमोदिते ॥ ४ ॥
दुःखहेत्वन्वयज्ञाने,
आलम्बनं सम्भवत इति। यस्य यदालम्बनं तस्य तद् भवति। न हि
चक्षुर्विज्ञानस्य षडालम्बनम् ।। ३ ।।
तदालम्बनत्वादिति। दुःखाद्यालम्बनत्वादित्यर्थः।
“एते चतुर्विधे” इति। एते एव धर्मान्वयज्ञाने द्वे दुःखाद्यालम्बनभेदा-
च्चतुर्विधे अदृष्टिस्वभावे सती क्षयज्ञानम्, अनुत्पादज्ञानं चोच्येते।
“ते पुनः प्रथमोदिते”। ते पुनः क्षयानुत्पादज्ञाने प्रथमोत्पन्ने सती
दुःखहेत्वन्वयज्ञाने भवतः। दुःखसमुदयालम्बने अवश्यं भवत इत्यर्थः।
१. धर्मज्ञानान्वयज्ञाने—का०। २. चोच्यते—का०।