अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1043, कुल 1258 में से
संदर्भ में पढ़ें१०२० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ मार्गपुद्गल-
कस्मादिन्द्रियाण्येव बलान्युक्तानि ? मृद्वधिमात्रभेदादवमर्दनीयानवमर्दनी-
यत्वात् ।
इन्द्रियाणां किंकृतोऽनुक्रमः ? श्रद्दधानो हि फलार्थं वीर्यमारभते,
आरब्धवीर्यस्य स्मृतिरुपतिष्ठते, उपस्थितस्मृतेरविक्षेपाच्चित्तं समाधीयते,
समाहितचित्तो यथाभूतं प्रजानातीति ॥ ६८-६९ ॥
कस्यामवस्थायां कतमे ते बोधिपक्ष्याः प्रभाव्यन्ते ?
आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः ।
भावने दर्शने चैव सप्त वर्गा यथाक्रमम् ॥ ७० ॥
आदिकर्मिकावस्थायां कायाद्युपलक्षणार्थं स्मृत्युपस्थानानि । विशेषाधिगमेन
वीर्यसमाधिः, मीमांसासमाधिः- इम उच्यन्ते ऋद्धिपादा इति । एवंलक्षणः
समाधिः । तस्मान्न समाधिरेव ऋद्धिरिति १।
अत्राचार्यसङ्घभद्र आह—न भवत्येष तेषां दोषः, समाधिं हि ते ऋद्धिपाद-
मिच्छन्ति, ऋद्धिरपीति । छन्दादयस्तूच्यन्ते समावेश्यतुष्ट्वज्ञापनार्थम् २ ।
कश्चिद्धि समाधिः कुशलमूलप्रयोगावस्थायां प्रधानीभवति, कश्चिन्न कुशलमूल-
निष्पन्नावस्थायाम् । पूर्वोऽत्रर्द्धिपादः, उत्तरऋद्धिरिति सूत्रविरोधोऽपि चैषां
न भवति । ऋद्धिपादफलमृद्धिशब्देनोक्तम्, परिज्ञाफलस्य तच्छब्दाभिधान-
वदित्यादि ।
मृद्वधिमात्रभेदादिति । मृदूनीन्द्रियाणि । अधिमात्राणि बलानि । कथमेषां
मृद्वधिमात्रभेदः ? इति हेतुमाह-अवमर्दनीयानवमर्दनीयत्वादिति । तद्विपक्ष-
भूतैराश्रद्धयकौशीद्यमुषितस्मृतिताविक्षेपासम्प्रजन्यैरन्तरासमुदाचारादिन्द्रियाण्यव-
मृद्यन्ते, न त्वेवं बलानीति । पुनस्तान्युक्तानि ॥ ६८-६९ ॥
“आदिकर्मिकनिर्वेधभागीयेषु” इति । पञ्चावस्था इमे उक्ताः ।
“भावने दर्शने च” द्वे अवस्थे इति । सप्तस्ववस्थासु—
“सप्त वर्गा यथाक्रमम्” प्रभाव्यन्ते, व्यवस्थाप्यन्ते, प्रधानीक्रियन्ते वा ।
आदिकर्मिकावस्थायां स्मृत्युपस्थानानि । ऊष्मगतावस्थायां सम्यक्प्रधानानि ।
मूर्द्धावस्थायामृद्धिपादाः । क्षान्त्यवस्थायामिन्द्रियाणि । लौकिकाग्रधर्मावस्थायां
बलानि । भावनामार्गावस्थायां बोध्यङ्गानि । दर्शनमार्गावस्थायामार्याष्टाङ्गो मार्ग
इति । विशेषाधिगमहेतुर्वीर्यसंवर्धनम् । तस्मादूष्मगतेषु सम्यक्प्रधानानि ।
१. ऋद्धिरिति—जा० । २. ०चतुस्त्व०—जा० ।