अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1059, कुल 1258 में से
संदर्भ में पढ़ें१०३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
एवमते द्वे ज्ञाने त्रीणि भवन्ति—संवृतिज्ञानम्, धर्मज्ञानम्, अन्वयज्ञानं
च। तत्र
सांवृतं सर्वविषयम्,
संवृतिज्ञानस्य सर्वधर्माः संस्कृतासंस्कृता आलम्बनम्, सम्भवतः।
कामदुःखादिगोचरम्।
धर्माख्यम्,
धर्मज्ञानस्य कामावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम्।
अन्वयज्ञानं तूर्ध्वदुःखादिगोचरम् ॥ ३ ॥
अन्वयज्ञानस्य रूपारूप्यावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चा-
लम्बनम्।
ते एव सत्यभेदेन चत्वारि,
ते एव धर्मज्ञानान्वयज्ञाने सत्यभेदेन पुनश्चत्वारि ज्ञानानि भवन्ति—
दुःख-समुदय-निरोध-मार्गज्ञानानि; तदालम्बनत्वात्।
एते चतुर्विधे।
अनुत्पादक्षयज्ञाने,
एते एव धर्मान्वयज्ञाने१ चतुर्विधे अदृष्टिस्वभावे क्षयज्ञानमनुत्पादज्ञानं
चोच्येते२।
ते पुनः प्रथमोदिते ॥ ४ ॥
दुःखहेत्वन्वयज्ञाने,
आलम्बनं सम्भवत इति। यस्य यदालम्बनं तस्य तद् भवति। न हि
चक्षुर्विज्ञानस्य षडालम्बनम् ।। ३ ।।
तदालम्बनत्वादिति। दुःखाद्यालम्बनत्वादित्यर्थः।
“एते चतुर्विधे” इति। एते एव धर्मान्वयज्ञाने द्वे दुःखाद्यालम्बनभेदा-
च्चतुर्विधे अदृष्टिस्वभावे सती क्षयज्ञानम्, अनुत्पादज्ञानं चोच्येते।
“ते पुनः प्रथमोदिते”। ते पुनः क्षयानुत्पादज्ञाने प्रथमोत्पन्ने सती
दुःखहेत्वन्वयज्ञाने भवतः। दुःखसमुदयालम्बने अवश्यं भवत इत्यर्थः।
१. धर्मज्ञानान्वयज्ञाने—का०। २. चोच्यते—का०।