विवाह वृन्दावनम् (पं. सीताराम झा ज्योतिष टीका - विवाह संस्कार, अष्टकूट गुण-मिलान एवं मुहूर्त विज्ञान सटीक)
Vivaha Vrindavanam: Vivaha Sanskara, Ashtakuta Guna Milana evam Muhurta Vigyan
केशवार्कमहोदय (टीकाकार: पं. सीताराम झा) द्वारा
६६ विवाहवृन्दावनम्- [षड्वर्ग-
योगनाड्यो भवन्तीत्यर्थः । इमाः ( एवं प्रकारेण साधिताः अन्तरनाड्यः )
इन्दोः पुण्याः, रवेस्तु पुण्यतमाः स्युः—एतदुक्तं भवति—त्रयस्त्रिंशतं
षष्ट्या संगुण्य चन्द्रगत्या भजेत् लब्धफलं चन्द्रसंक्रान्तिकाले सन्धिनाड्यः,
सूर्यगत्या भजेत् फलं सूर्यसंक्रान्तिकाले सन्धिनाड्यो भवन्ति, ताश्चन्द्रस्य
सामान्यपुण्यप्रदाः, रवेस्तु पुण्यतमा भवन्तीत्यर्थः ॥ १६ ॥
भा०— ३३ को ३ स्थान में रखकर ६० से गुना करके पृथक् पृथक् चन्द्रमा
और सूर्य के गत्यन्तर, चन्द्रमा की गति और चन्द्र सूर्य की गति के योग से भाग
देने से क्रम से तिथिसन्धि, नक्षत्रसन्धि, और योगसन्धि घटी होती है । इसी
प्रकार ३३ को ६० से गुनाकर चन्द्रगति से भाग देकर लब्धि चन्द्र संक्रान्ति घटी
और सूर्य गति से भाग देकर लब्धि सूर्य संक्रान्ति घटी होती है, इनमें चन्द्रमा
की सन्धिघटी सामान्य पुण्य प्रद
प्रकरणम् ८ ] वसन्तलक्ष्मीसहितम् । -६७
सहितस्य ) रवेर्यदंशवृन्दं भवेत् , अत्र च यद् राशिद्वयभागतष्टलब्धं 'ते'
वसन्ताद् वसन्तमारभ्य ऋतवो भवन्ति ॥१८॥
भा०-सायन सूर्य में १ राशि जोड़कर उसके अंशों में २ राशियों के अंश
( ६० ) से भाग देकर लब्धि वसन्तादि ऋतु होता है ॥१८॥
उदा०-सूर्य ३ । ५ । १५ । २०, अयनांश २१ । ३० । ३२ सायन सूर्य
के अंश ११६ । ४५ । ५२ इसमें ६० के भाग देने से लब्धि गतऋतु २, वर्तमान
वसन्त से तृतीय वर्षाऋतु हुआ ॥१८॥
अथ ऋतुसन्धिकालं कथयति-
तत्सन्धयोऽङ्गाङ्गघटीसमाः स्युर्द्विसंगुणाश्चेद्विषुवायनीयाः ।
स सन्धिसन्धिः खलु यत्र शेषः शून्यं भवेदेष विशेषपुण्यः ॥१९॥
सं०-तत्सन्धयः ( तेषां ऋतूनां सन्धयः ) अङ्गाङ्गघटीसमाः
( षट्षष्टिनाडितुल्याः ) स्युः । विषुवायनीयाश्चेत् तदा द्विसंगुणाः (द्वि-
गुणितषट्षष्टिघट्यः ) भवन्ति । यत्र ( राशिद्वयभागतक्षणकाले यदा )
शेषः शून्यं भवेत् स 'कालः' सन्धिसन्धिः स्यात् । एष 'सन्धिसन्धिः'
विशेषपुण्यो भवेत् ॥१९॥
भा०-उन ऋतुओं की सन्धि ६६ घटी होती है । यदि विषुव (मेष तुला)
और अयन (कर्क, मकर ) सम्बन्धी हो तो १३२ घटी अर्थात् ६६ पूर्व और ६६
पश्चात् सन्धि काल समझना । और जब एक राशियुक्त शायन सूर्य के अंश में
६० के भाग देने से शेष शून्य हो जाय तो वह काल सन्धि की सन्धि समझना
वह विशेष पुण्यप्रद है ॥१९॥
अथोक्तसन्धिसमये विवाहफलं कथयति-
सन्धौ पुरन्ध्री शुचमेति वन्ध्या मृतप्रजा वा यदि सन्धिसन्धिः ।
वदन्ति वात्स्या ऋतुना विमूढां निशीथमध्यन्दिनसन्धिषूढाम् ॥
सं०-सन्धौ ( तिथि-नक्षत्र-योगानां सन्धिकाले ) 'विवाहे सति'
पुरन्ध्री शुचं ( शोकं ) ऐति प्राप्नोति, यदि सन्धिसन्धिस्तदा मृतप्रजा
भवेत् । तथा निशीथमध्यन्दिनसन्धिषु ऊढां ( विवाहितां ) 'कन्यां'
ऋतुना विमूढां आर्तव-विहीनां वात्स्या वदन्ति ॥२०॥
भा०-तिथि, नक्षत्र, योग की सन्धि में विवाह होने से स्त्री शोक में प्राप्त
होती है । विवाह समय में सन्धिसन्धि हो तो स्त्री मृतवत्सा होती है । यदि मध्य
६८ विवाहवृन्दावनम्- [_षड्वर्ग-
रात्रि और मध्य दिन की सन्धि समय में विवाह हो तो वह स्त्री मासधर्म से
रहित होती है ॥२०॥
वि०-निशीथ और मध्यदिनसन्धि-
“मूर्तः कालो निवसति महानिशायां च दिनदले यस्मात् ।
दश पूर्वे दश परतस्तस्माद् वर्ज्यानि च पलानि ॥” इति ॥२०॥
अथ शूलादिदुष्टयोगसन्धीनां विशेषं कथयति-
शूलवैधृतवरीयसां च यत्पञ्चमेषु च तिथिष्ववान्तरम् ।
रेवतीन्द्रफणिभोद्भवन्तदप्यागताद्द्विगुणमुत्सृजेत्सुधीः ॥२१॥
सं०-शूलवैधृतवरीयसां योगानां यत् (पूर्वसाधितं) अवान्तरं,
पञ्चमेषु तिथिषु (पञ्चमीदशमीपञ्चदशीषु) च यद्वान्तरं, रेवतीन्द्र-
फणिभोद्भवं च यद्वान्तरं तदपि आगतात् (पूर्वसाधितात्) द्विगुणं सुधीः
उत्सृजेत् (त्यजेत्) ॥ २१ ॥
भा०-शूल, वैधृत, वारीयान् योगों की, तथा ५, १०, १५ तिथियों की
रेवती, ज्येष्ठा, श्लेषा नक्षत्रों की जो सन्धि घटी हो उसका द्विगुणित काल पण्डितों
को त्याग करना चाहिये ॥ २१ ॥
अथ मध्यगत्या नक्षत्रादिसन्धिघटिका आनीय कथयति-
नक्षत्रयोगतिथिसन्धिषु नाडिकैका
तिथ्यष्टविंशतिपलैः सहितोभयत्र ।
कर्कालिमीनतनुसन्धिषु दिक्पलानि
त्याज्यानि शेषविवरेष्वपि पञ्च पञ्च ॥ २२ ॥
सं०-नक्षत्र-योगतिथिसन्धिषु क्रमेण तिथ्यष्टविंशतिपलैः सहिता
एका नाडिका उभयत्र (नक्षत्रयोगतिथ्यन्तात् पूर्वं पाश्चाच्च) त्याज्या ।
कर्कालिमीनतनुसन्धिषु 'उभयत्र' दिक्पलानि त्याज्यानि । शेषविषरेषु
(शेषाणां वृषादिलग्नानां विवरेषु सन्धिषु) अपि पञ्च, पञ्च पलानि
त्याज्यानि ॥ २२ ॥
भा०-नक्षत्र सन्धि में १ घटी १५ पल, योगसन्धि में १ घटी ८ पल,
तिथिसन्धि में १ घटी २० पल पूर्व और पश्चात् त्याज्य है । कर्क, वृश्चिक और मीन
लग्न की सन्धि में पूर्व, पश्चात् १० पल और शेष लग्नों में ५, ५ पल त्याज्य हैं ॥
प्रकरणम् ५ ] वसन्तलक्ष्मीसहितम् । ६४
अथ चान्द्रमाससन्धिमाह—
अमातिथिः पार्श्वतिथिद्वयेन समं न माङ्गल्यमुपादधाति ।
लोकंपृणस्तत्र तिथेः प्रणेता यस्मान्न पीयूषवपुर्वपुष्मान् ॥२३॥
सं०—अमा(अमावास्या)तिथिः पार्श्वतिथिद्वयेन(चतुर्दश्या प्रतिपदा
च)समं सह माङ्गल्यं नोपदधाति । यस्मात् कारणात् तत्र लोकंपृणस्तिथि-
प्रणेता पीयूषवपुश्चन्द्रः वपुष्मान् (प्रशस्तबिम्बः) न भवति ॥ २३ ॥
भा०—अमावास्या अपने आगे और पीछे की दोनों तिथि (चतुर्दशी और
प्रतिपदा) सहित विवाह में मङ्गलप्रद नहीं होती है। क्योंकि इन तीनों तिथियोंमें
लोगोंका प्रिय तिथियोंका प्रणेता चन्द्रमा प्रशस्त बिम्बयुक्त नहीं रहता है ॥२३॥
कैश्चित् चन्द्रबाल्याद् द्वितीयापि निषिद्धा तन्मतं दूषयति —
उदेति चायं प्रतिपत्समाप्तौ कृशोपि वर्धिष्णुतया प्रशस्तः ।
द्वीपान्तरस्थो विफलोपि तावद्यावन्न पृथ्वीनयनाध्वनीनः ॥२४॥
सं०—अयं (चन्द्रः) प्रतिपत्समाप्तौ उदेति, अतः कृशोऽपि स
वर्धिष्णुतया प्रशस्तः स्यात् । द्वीपान्तरस्थः (अन्यत् द्वीपं द्वीपान्तरं तत्रस्थः
देशान्तरदृष्टः) अपि चन्द्रः तावद् विफलः, यावत् पृथ्वीनयनाध्वनीनो
न भवति (अर्थात् यावत् स्वदेशभूमिस्थितैर्जनैर्दृष्टो न भवति तावत्
विफल एवेति) ॥२४॥
भा०—यह चन्द्रमा प्रतिपदाके अन्तमें उदित होता है इसलिये द्वितीयामें
वर्धनशील होनेके कारण प्रशस्त माना जाता है। और दूसरे देशमें उदित चन्द्रमा
भी तब तक विफल है जब तक स्वदेशभूमिस्थ लोगोंका दृष्टिगोचर न हो। अर्थात्
जब तक अपने देशमें चन्द्रमा दृश्य हो तब तक ही उसका फल भी होता है ॥
अथ जन्ममासादिषु विवाहादिकं निषेधयति—
नो जन्ममासतिथिभेषु न चाधिकोने
मासे तिथौ च पृथुमङ्गलमामनन्ति ।
यज्ज्येष्ठगर्भजमपत्यमुपैतमेतज्
ज्येष्ठे महोत्सवमवश्यमियान्न वृद्धिम् ॥२५॥
सं०—जन्ममासतिथिभेषु पृथुमङ्गलं (चूड़ाकरणोपनयन-विवाहा-
दिकं) नो आमनन्ति, अधिकोने मासे च न, तथा अधिकोने तिथौ (तिथि-
७० विवाहवृन्दावनम्— . [ गोधूलि-
वृद्धौ तिथिक्षये ) च न आमनन्ति ( न कथयन्ति ) । यत् ज्येष्ठगर्भजम-
पत्यं तत् ज्येष्ठे ( ज्येष्ठमासे ) महोत्सवं ( चौलादिकं ) उपेतं सत् अवश्यं
( निश्चयं ) वृद्धिं न इयात् ( न प्राप्नुयात् ) ॥२५॥
भा०—जन्ममास, जन्मतिथि और जन्मनक्षत्र में बृहत् मङ्गल ( चूड़ाकरण,
उपनयन, विवाह आदि ) शुभ नहीं कहा गया है । अधिक और क्षयमास तथा
तिथिवृद्धि सौर तिथिक्षय में भी शुभ नहीं होता है । तथा ज्येष्ठ गर्भ का सन्तान
जो हो उसका ज्येष्ठमास में चूड़ाकरण उपनयन विवाहादि महोत्सव हो तो
अवश्य ही वृद्धिकारक नहीं होता है ॥२५॥
अथ गुणदोषविवेककर्तृ णां प्रशंसामाह—
इत्यतीन्द्रियदृशो निरूचिरे यद्गुणागुणमयं मुनीश्वराः ।
दैवविद्विदितजन्ममन्मतः कीर्तिभाग्भवति लग्नलग्नधीः ॥२६॥
सं०—इत्येवमुपरोक्तं गुणागुणमयं अतीन्द्रियदृशो दिव्यदृष्टयो मुनी-
श्वरा यन् निरूचिरे, विदितजन्ममन्मतः ( जन्म च तेषां मुनीनां मतं चेति
जन्ममन्मते, विदिते जन्ममन्मते येन स तथोक्तः ) लग्नलग्नधीः ( लग्ने
लग्ना धीर्बुद्धिर्यस्य सः ) दैवविद् कीर्तिभाग् भवति ॥ २६ ॥
भा०—इस प्रकार उपरोक्त गुण और दोष दिव्यदृष्टि मुनीश्वरों ने जो कहा है,
उन मुनियों के मत और जन्म समय को जाननेवाला तथा लग्न में निष्ठ बुद्धिवाला
ज्योतिषी संसार में कीर्तिभागी होता है ॥ २६ ॥
अथ गोधूलिकाध्यायः ।
तत्र गोधूलिकालं दर्शयन् स्वकवित्वकौशलं दर्शयति—
प्राचीं कुंकुमचर्चितामिव दिशं मुक्ताफलस्रग्विणीं
कौसुम्भांशुकभासिनीमिव दिशं प्राचेतसीं दर्शयन् ।
यावद्याति करग्रहं सह रविः सन्ध्याकुरङ्गीदृशा
तावन्मङ्गलमङ्गलमसुरभीरेणोः करं गृह्णतः ॥ १ ॥
सं०—यावत् रविः सूर्यः मुक्ताफलस्रग्विणीं प्राचीं दिशं कुङ्कुमचर्चि-
तामिव, प्राचेतसीं ( प्रतीचीं ) दिशं च कौसुम्भांशुकभासिनीमिव दर्शयन्
प्रकरणम् ९ ] वसन्तलक्ष्मीसहितम् । ७१
सन्ध्याकुरङ्गीदृशा ( सन्ध्यैव कुरङ्गीदृग् वधूस्तया ) करग्रहं याति तावत्
पर्यन्तं अङ्गलग्नसुरभीरेणोः ( अङ्गे लग्ना सुरभीणां धेनूनां रेणुर्धूलिर्यस्या-
स्तस्याः कुमार्याः ) करं पाणिं गृह्णतः ( वरस्य ) मङ्गलं शुभं भवति ॥१॥
भा०—जब तक भगवान् सूर्य मुक्ताफलमाला सदृश तारागणपंक्ति को धारण
की हुई पूर्व दिशा को कुङ्कुम से मण्डित के समान और पश्चिम दिशा को कुसुमरंग
से रंगे वस्त्र से सुशोभित के समान बनाते हुए सन्ध्यारूपिणी वधू के साथ करग्रह
को प्राप्त होते हैं तावत् काल पर्यन्त अङ्गो में लगी है गायों के चरण की धूली
जिसके ऐसे कुमारिका के करग्रहण करनेवाले पुरुष का मङ्गल होता है ॥ १ ॥
अथ गोधूलिलक्षणं तदधिकारिणश्चाह —
उत्कर्णतर्णकवलोकनवल्गु वल्गत्पीनस्तनोद्धूषितदुर्धरधेनुधूलिः ।
गोधूलिकं सृजति गोपपृथग्जनानां दोषैर्महद्भिरपि लग्नमनूनमन्यैः ॥
सं०—उत्कर्णतर्णकवलोकनवल्गुवल्गत्पीनस्तनोद्धूषित-दुर्धरधेनुधूलिः
( उत् ऊर्ध्वौ कर्णौ यासां ता उत्कर्णास्ताश्च तर्णकानां विलोकनेन वल्गवः
शोभमानाः वल्गन्त्यः पीनस्तनाः, उद्धूषिताः दुर्धराश्च ता धेनवश्च तासां
धूलिः ) गोधूलिकं लग्नं सृजति । इदं गोधूलिलंनं गोपपृथग्जनानां
( गोपाश्च पृथग्जना हीनवणांश्च तेषां ) अन्यैर्महद्भिर्दोषैः अनूनं ( सहितं )
अपि शुभं भवति ॥ २ ॥
भा०--कान को ऊपर उठाई हुई, बछड़ों को देखने के लिये मीठी शब्द
करती हुई पीनस्तनवाली अत्यन्त हृष्ट और बड़े कठिन से थाम्ह कर रखने योग्य
गायों के द्वारा उत्पन्न धूलि गोधूलिक लग्न बनाती है । यह गोधूलिक लग्न गोपों
और हीनवर्णों के लिये अन्य महादोषों से युक्त होने पर भी शुभ होता है ॥ २ ॥
केचित् गोधूलिकेऽपि षष्ठाष्टमचन्द्रं त्यजन्ति तन्निरस्यति —
गोधूलिकेपि विधुमष्टमषष्ठमूर्तिं यन्मोचयन्ति तदयं स्वरुचिप्रपञ्चः ।
पञ्चाङ्गशुद्धिमयमेव विवाहधिष्ण्यैर्यस्मादिदं सततमस्तगते पतङ्गे ॥
सं०—गोधूलिकेऽपि अष्टमषष्ठमूर्ति ( अष्टमषष्ठयोर्मूर्ति र्देहो यस्य तं )
विधुं चन्द्रं यन् मोचयन्ति ‘केचित्’ तदयं ‘तेषां’ स्वरुचिप्रपञ्चः (स्वरुच्यैव
प्रपञ्चो व्यामोहनं ) स्यात् । इदं गोधूलिकं विवाहधिष्ण्यैः ( विवाहविहित-
नक्षत्रैः ) पञ्चाङ्गशुद्धिमयमेव ग्राह्यम् । यस्मादिदं सततं ( सर्वदा ) अस्त-
७२ विवाहवृन्दावनम्- [गोधूलि-
गते सप्तमस्थे पतंगे सूर्ये सत्येव भवति । गोधूलिलग्ने विवाहविहितनक्षत्रे
सति पञ्चाङ्गशुद्धिरेव विलोक्या न पुनर्लग्नशुद्धिरित्यर्थः ॥ ३ ॥
भा०- गोधूलिक लग्न में भी कितने आचार्य अष्टम षष्ठ चन्द्र को जो त्याज्य
कहे हैं वह उनका अपनी रुचि का ही प्रपञ्च है । क्योंकि सर्वदा सप्तम स्थित सूर्य
में ही गोधूलिक लग्न होता है, इसलिये इसमें विवाहविहित नक्षत्र और पञ्चाङ्ग
शुद्धि मात्र देखना चाहिये ॥ ३ ॥
नांशो न लग्नमिह दृष्टयुतं स्वभर्त्रा नार्कारसौरतमसामपि सङ्गभङ्गः ।
किं चन्द्रचारभयमेकमिहास्तु किंचिन्नात्र प्रमाणवचनं किमपिश्रुतं नः ॥
सं०- इह ( अस्मिन् गोधूलिके ) अंशः ( नवांशः) स्वभर्त्रा दृष्टयुतो
न, लग्नं च स्वभर्त्रा दृष्टयुतं न भवतु । तथा च अर्कारसौरतमसां ( रवि-
कुज-शनिराहूणां ) अपि सङ्गभङ्गः ( सङ्गेन योगेन भङ्गः ) न भवति ।
इहास्मिन् एकं चन्द्रचारभयं पुनः किमस्तु । अत्र किञ्चित प्रमाणवचन-
मपि नः ( अस्माकं ) न श्रुतम् ॥ ४ ॥
भा०-इस गोधूलि लग्नमें नवांश वा लग्न अपने अपने स्वामीसे युक्त दृष्ट
न हो । इसमें सूर्य, मङ्गल, शनि और राहुके योगसे भी भङ्ग नहीं होता है । फिर
केवल एक चन्द्रचार का क्या भय हो सकता है ? तथा इसमें ( उपरोक्त अष्टम
षष्ठस्थित चन्द्र त्याग में ) प्रमाण वचन भी हम लोगों ने कुछ नहीं सुना है ॥४॥
अत्र किं विलोक्यमित्याह-
सार्कं शनौ विरवि चित्रशिखण्डिसूनौ
तत्केवलं कुलिकयामदलोपलम्भात् ।
प्रायेण शङ्करभुवामशुभर्त्तपत्त-
क्रूरर्त्तषेषु शुभकृत्करपीडनं स्यात् ॥ ५ ॥
सं०-तत् (गोधूलिकं) शनौ शनिदिने सार्कं सूर्यसहितं ग्राह्यम् ।
चित्रशिखण्डिसूनौ (गुरुदिने) विरवि, 'अस्तंगतेऽर्कबिम्बे' ग्राह्यमित्यर्थः ।
तदपि केवलं कुलिकयामदलोपलम्भात् ( कुलिकस्य, यामदलस्योपलम्भः
प्राप्तिस्तस्मात् ) । अत्र प्रायेण विशेषेण शङ्करभुवां हीनवर्णानां अशुभर्त्त-
पत्त-क्रूरर्त्तषेषु अपि करपीडनं शुभकृत् स्यात् किं पुनः पञ्चाङ्गादिशुद्धौ
सत्यामित्यर्थः ॥ ५ ॥
प्रकरणम् १० ] वसन्तलदमीसहितम् । ७३
भा०—शनिवार में सूर्यबिम्ब दृश्य रहते हुए ही, और गुरुवार में सूर्यबिम्ब
के अस्त होने पर गोधूलिक लग्न ग्रहण करना चाहिये । यह भी केवळ शनिवार
में अस्त के बाद कुलिक की प्राप्ति और गुरुवार में अस्त से पूर्व अर्धयाम की प्राप्ति
होने के कारण समझना । इस गोधूलि में अशुभ नक्षत्र कृष्णपक्ष और दुर्मुहूर्त
होने पर भी हीनवर्णों का विवाह शुभकारक होता है ॥ ५ ॥
सार्क शनावित्यादि यदुक्तं तत्परिमाणं कथयति —
अत्रोभयत्र घटिकादलमिष्टमाहुर्ग्राह्यस्तदम्बरमणेरपि नार्धविम्बः ।
कालार्गलानियतये तपनार्धविम्बवेलाव्यवस्थितिरियं रचयां बभूवे ॥
सं०—अत्र ( गोधूलिके ) उभयत्र ( विम्बार्धास्तमयात् पूर्वं पश्चाच्च )
घटिकादलं ( घट्यर्धं ) इष्टमाहुः । तत् तस्मात् अम्बरमणेः सूर्यस्य अर्ध-
विम्बः ( अर्धबिम्बं यस्मिन् सः ) अपि 'कालो' न ग्राह
७४ विवाहवृन्दावनम्— [ गोचर-
परिणयविधौ विवाहविषये असौ इन्दुमासः ( चान्द्रमासः ) श्रेयान् अति
श्रेष्ठ उक्तोस्ति ॥ १ ॥
भा०-चैत्रमास प्रतिपदा रविवार में सूर्यादि समस्त ग्रहों के मेषादि में
स्थित होने पर भूर्लोक, भुवर्लोक, स्वर्लोक की प्रवृत्ति हुई । इस प्रकार पौष
मास मकरादिस्थित सूर्य में उक्त लोकों की प्रवृत्ति नहीं हुई, अतः विवाह विषय
में वह चन्द्रमास ही अत्यन्त श्रेष्ठ कहा गया है ॥ १ ॥
वि०-“लङ्कानगर्यामुदयाच्च भानोस्तस्यैव वारे प्रथमं बभूव ।
मधोःसितादेर्दिनमासवर्षयुगादिकानां युगपत्प्रवृत्तिः ॥”
लङ्का के क्षितिज में मेषादिस्थित सूर्य और चन्द्रमा के होने पर लोकत्रय की
प्रवृत्ति हुई । वहाँ सूर्य और चन्द्रमा को तुल्य राश्यादि होने के कारण चान्द्रमास
की प्रवृत्ति हुई है, और सूर्य ही की होरा होने के कारण रविवार भी हुआ ।
और मेषादि में सूर्य के होने से चैत्रमास भी हुआ । चान्द्रमास की गणना चैत्रादि
से ही होती है । और सौर मास की प्रवृत्ति मकरादिस्थ सूर्य से समस्त संहिता-
कारों ने कही है । इसलिये चान्द्रमास की ही प्रधानता हुई, सौरमास की नहीं ।
अथ सौरचान्द्रयोर्विरोधे सयुक्तिकं निर्णयं कथयति –
नेष्टः पौषो मृगयुजि रवावाहृतश्चेत्प्रवीणै-
श्चारुश्चैत्रोप्यजसहचरे भास्करे सुन्दरीणाम् ।
माण्डव्याद्यैः स्मृतशुभफलस्यास्य किं नोपयामे
मीनोपि स्यादविकृतफलः फाल्गुनस्य प्रसङ्गात् ॥ २ ॥
सं०-सुन्दरीणां नारीणां उपयामे विवाहे मृगयुजि मकरस्थे रवौ
पौषो नेष्टः स्यात् । चेत् ( यदि )प्रवीणैः ( कैश्चित् पण्डितं मन्यैः ) मृगेऽर्के
पौषः आहतः स्वीकृतः तदा अजसहचरे मेषगते भास्करे चैत्रोऽपि चारुः
शुभः स्यात् । किञ्च माण्डव्याद्यैः आचार्यैः स्मृतशुभफलस्यास्य फाल्गुनस्य
प्रसङ्गात् ( योगात् )मीनोऽपि ( मीनस्थितार्कोऽपि ) अविकृतफलः ( न
विकृतं फलं यस्य स तथा ) किं न स्यात् । अपि त्वविकृतफल एव स्यात् ॥
भा०-स्त्रियों के पाणिग्रहण में मकरस्थित सूर्य में भी पौष मास नेष्ट है,
अगर कोई प्रवीण उसे ( मकरस्थ सूर्य में पौष को ) स्वीकार करते हैं तो मेषस्थ
सूर्य में चैत्र भी शुभ हो सकता है । और माण्डव्यादि आचार्यों से कथित शुभ
प्रकरणम् १० ] वसन्तलक्ष्मीसहितम् । ७५
फाल्गुन मास के योग से क्या मीन भी अविकृत फल (यथोक्त फलप्रद) नहीं हो
सकता है ? अर्थात् अवश्य अपने अशुभ फल को ही दे सकता है ॥ २ ॥
अतोऽत्र सिद्धान्तमाह-
झषो न निन्द्यो यदि फाल्गुने स्यादजस्तु वैशाखगतो न निन्द्यः ।
मध्वाश्रितौ द्वावपि वर्जनीयावित्यादिवाचामियमेव युक्तिः ॥ ३ ॥
सं०-यदि फाल्गुने मासे झषः (मीनस्थोऽर्कः) तदा न निन्द्यः स्यात् ।
अजः मेषार्कस्तु वैशाखगतो न निन्द्यः स्यात् । मध्वाश्रितौ चैत्रमासगतौ
द्वौ (मीनमेषार्कौ) अपि वर्जनीयौ चान्द्रमासस्य प्राधान्यात् । इत्यादि-
वाचां इत्याद्युक्तवतां युक्तिः इयमेव कथितैवेत्यर्थः ॥ ३ ॥
भा०-यदि फाल्गुन मास में मीन गत रवि हो तो निन्द्य नहीं है । और
वैशाख में मेषगत सूर्य हो तो निन्द्य नहीं है । तथा चैत्र मास में दोनों
(मीनार्क मेषार्क) त्याज्य है इत्यादि कहनेवालों की युक्ति यही है । अर्थात्
चन्द्रमास में ही प्राधान्य माना गया है ॥ ३ ॥
यदि चान्द्रमासस्य प्राधान्यं तदा पृथक् सौरमासं किमुक्तमित्याह-
प्रायः सौरं मानमिष्टं विवाहे तत्किं चान्द्रं मासमाहुः फलेन ।
यस्मात्सम्यक्तत्फलाप्तिस्तदैक्ये सौरो मासः केवलः किञ्चिदूनः ॥
सं०-प्रायः (विशेषेण) विवाहे सौरं मानमिष्टं, तत् (तदा)
फलेन चान्द्रं मासं किं आहुः ? यस्मात् कारणात् तदैक्यै (तयोः सौर-
चान्द्रयोः) ऐक्ये तत् फलाप्तिः (विवाहफललब्धिः) सम्यक् संपूर्णा
भवति । केवलः सौरो मासः किञ्चिदूनः स्यात् ॥ ४ ॥
भा०-विवाह में बहुधा सौरमान ही इष्ट है, तो शुभाशुभ फल से पृथक्
चान्द्रमास शौनकादिकों ने क्यों कहा ? इसलिये कि-सौर और चान्द्र दोनों के
ऐक्य होने से परिपूर्ण फल होता है । केवल सौरमास कुछ न्यून है ॥४॥
अथ गोचराष्टकवर्गयोर्बलाबलं कथयति-
योषितां गुरुपतङ्गगोचरे शोभने शुभकरः करग्रहः ।
अष्टवर्गविधिना तदत्यये सूर्यशुद्धिमपरे नृणां जगुः ॥ ५ ॥
सं०-योषितां नारीणां गुरुपतङ्गगोचरे शोभने (गोचरयुक्त्या गुरु-
बले, सूर्यबले च) सति करग्रहो विवाहः शुभकरः स्यात् । तदत्यये
( गोचरविधिना स्त्रीणां गुरुसूर्यबलालाभे ) सति अपरेऽन्ये अष्टवर्ग-
विधिना नृणां वराणां सूर्यशुद्धिं जगुः ॥ ५ ॥
भा०—गोचर विधि से स्त्रियों के गुरुबल और सूर्यबल प्राप्त होने पर विवाह
शुभ है । यदि गोचर विधि से गुरुबल और सूर्यबल प्राप्त नहीं हो तो अष्टवर्ग
विधि से पुरुष का ही रविबल ग्रहण करना अन्य आचार्यों ने कहा है ॥ ५ ॥
अत्र गोचरस्यैव कथं मुख्यतेति कथयति—
अष्टवर्गफलमेव जातके नास्य किं परिणयेपि मुख्यता ।
सत्यमुद्वहनजन्मशास्त्रयोरन्यथा मुनिभिरेव संस्मरे ॥ ६ ॥
सं०—जातके होराशास्त्रे अष्टवर्गफलमेवास्ति, अतः परिणये वि-
वाहेऽपि अस्य अष्टवर्गफलस्य मुख्यता किं न स्यात् ? इति सत्यम्, उद्वहन-
जन्मशास्त्रयोः विवाहजातकशास्त्रयोः अन्यता ( भिन्नता ) मुनिभिरेव
संस्मरे स्मृतेत्यर्थः ॥ ६ ॥
भा०—जातकशास्त्र में अष्टवर्ग से ही फल कहा गया है, इसलिये विवाह में
भी इस ( अष्टवर्ग फल ) की मुख्यता क्यों न हुई ? यह सत्य है; परञ्च मुनियों
ही ने जातकशास्त्र और विवाह में भिन्नता कही है ॥ ६ ॥
अत्रोदाहरणं कथयति—
क्रूरमष्टममरिष्टमिष्टदं सप्तमं शुभमुशन्ति जन्मनि ।
नेयमुद्वहनरीतिरित्यसावत्र गोचरपथो रथोद्धतः ॥ ७ ॥
सं०—जन्मनि जन्मकाले ( जातके ) अष्टमं क्रूरं पापग्रहं अरिष्टदं
( अशुभप्रदं ) सप्तमं सप्तमस्थानस्थं शुभं शुभग्रहं इष्टदं ( शुभप्रदं ) उशन्ति
कथयन्ति । इयं उद्वहनरीतिः ( विवाहविधिः ) न भवति । इत्यस्मात्
कारणात् अत्र ( विवाहे ) असौ गोचरपथः रथोद्धतः ( रथैरुद्धत उद्घृष्टः
परम्परागतः स्फुट एवेत्यर्थः ) ॥ ७ ॥
भा०—जातकशास्त्र में अष्टम पापग्रह शुभप्रद, और सप्तम शुभग्रह शुभप्रद
है । परञ्च यह विवाह की रीति नहीं है, अर्थात् विवाह में अष्टम पाप और सप्तम
शुभग्रह भी अशुभ ही है । इसलिये विवाहमें यह गोचरविधि परंपरागत स्पष्ट है ॥
[ प्रकरणम् ११ ] वसन्तलक्ष्मीसहितम् । ७७
अथ ग्रहयोगाध्यायः ।
तत्रादौ चक्रयोगं तत्फलं चाह—
चक्रस्यार्धे प्राचि पश्चात्क्रमेण क्रूराक्रूरैश्चक्रमित्यामनन्ति ।
अत्रोढायाः सुभ्रुवः स्वैरिणीत्वे भ्राम्यत्युच्चैश्चक्रवच्चित्तवृत्तिः ॥ १ ॥
सं०—चक्रस्य ( राशिमण्डलस्य ) प्राचि पश्चार्द्धे क्रमेण क्रूराक्रूरैः
चक्रं ( चक्रनामयोगं ) इति आमनन्ति, 'आचार्या' इति शेषः । दशमभाव-
मारभ्य चतुर्थभावपर्यन्तं चक्रस्य पूर्वार्धम्, चतुर्थाच्च दशमपर्यन्तं पश्चि-
मार्धं तत्र क्रमेण पापशुभैः स्थितैश्चक्रनामयोगो भवतीत्यर्थः । अत्रास्मिन्
योगे ऊढाया विवाहितायाः सुभ्रुवः कन्यायाः चित्तवृत्तिः स्वैरिणीत्वे पुंश्च-
लीत्वविषये उच्चैश्चक्रवद् भ्राम्यति सा स्त्री पुंश्चली भवतीत्यर्थः ॥ १ ॥
भा०—राशिमण्डल के पूर्वार्ध (दशम भाव से आगे चतुर्थभावपर्यन्त) में
सब पापग्रह और पश्चिमार्ध (चतुर्थ भाव से आगे दशमभाव पर्यन्त) में सब
शुभग्रह हों तो चक्रनाम योग होता है । इस योग में विवाहिता स्त्री की मनोवृत्ति
पुंश्चलित्व विषय में विशेषकर भ्रमित होती है, अर्थात् वह पुंश्चली होती है ॥ १ ॥
तनुनिमीलनगैश्च शुभाशुभैर्ध्वज इतीह कृतोद्वहना वधूः ।
सगुणलाभवती भवतीङ्गितैः प्रियमनोयमनोन्मुखविभ्रमा ॥ २ ॥
सं०—शुभाशुभैः क्रमेण तनुनिमीलनगैः (लग्नाष्टमस्थितैः) ध्वज इति
योगो भवति । इहास्मिन् ध्वजयोगे कृतोद्वहना वधूः सगुणलाभवती भवति ।
तथा च इङ्गितैः स्वचेष्टितैः प्रियमनो-यमनोन्मुखविभ्रमा (प्रियस्य स्वामिनो
मनः प्रियमनस्तस्य यमनं आकर्षणं तत्रोन्मुखो विभ्रमो विलासो यस्याः
सा तथोक्ता) भवति ॥ २ ॥
भा०—लग्न में शुभग्रह और अष्टम में पापग्रह हो तो ध्वजनामक योग होता
है । इस योग में विवाहिता स्त्री गुणसहित लाभवती और अपनी चेष्टाओं से अपने
स्वामी के मन को आकर्षण करनेवाली होती है ॥ २ ॥
अखिलकेन्द्रसखैः खलखेचरैर्भवति वापिरिहार्पितपुंस्करा ।
युवतिरुज्झितकान्तगृहा गृहे जनयितुः कुरुते कुरतोत्सवान् ॥ ३ ॥
सं०—अखिलकेन्द्रसखैः खलखेचरैः (सर्वेषु केन्द्रेषु स्थितैः पाप-
ग्रहैः) वापिः वापिनामयोगो भवति । इहास्मिन् योगे अर्पितपुंस्करा
७८ विवाहवृन्दावनम्- [ ग्रहयोग-
( अर्पितः पुंसे करो यया सा तथोक्ता ) युवतिः उज्झितकान्तगृहा
( त्यक्तपतिभवना सती ) जनयितुः पितुः गृहे कुरतोत्सवान् कुरुते ॥ ३ ॥
भा० — चारों केन्द्र में पापग्रह हों तो वापिनायक योग होता है । इस योग
में विवाहिता स्त्री अपने पति के गृह को त्याग कर पिता के घर में कुरत ( परपुरुषों
के साथ प्रेम ) से आनन्द करती है ॥ ३ ॥
गगनतोयतपस्सु शुभैर्भृगुर्गदति शंखमशंस्खलयत्यसौ ।
धनयशनयशोभितनुश्रिया परिणयेन पयोरुहचक्षुषाम् ॥ ४ ॥
सं०—गगनतोयतपस्सु ( दशम-चतुर्थनवमेषु ) शुभैः शुभग्रहैः सद्भिः
भृगुर्मुनिः शंखं ( शङ्खनामयोगं ) गदति । असौ योगः धनयशनयशो-
भितनुश्रिया ( धन-यशो-नयैः शोभिनी तनुः यासां ता धनयशनयशोभित-
नुश्रियः, तासां तथोक्तानां ) पयोरुहचक्षुषां ( कमलनेत्राणां ) स्त्रियां अशं
( दुःखं ) स्खलयति निराकरोति ॥ ४ ॥
भा०—१०, ४, ९ भावों में शुभग्रह हों तो भृगुमुनि शंख योग कहते हैं ।
विवाह में यह योग—धन, यश, नीति से सुशोभित शरीरवाली कमलनयना स्त्री
के दुःख को नाश कर देता है, अर्थात् अत्यन्त सुखप्रद होता है ॥ ४ ॥
एकादशे कुजरवी रविजः सपत्ने
वित्ते विधुस्तपसि शेषनभश्चराश्चेत् ।
श्रीवत्स एष सुखयत्यपि रूपरिक्तां
सौभाग्यभोगभरभङ्गितरङ्गिताङ्गीम् ॥ ५ ॥
सं०-- एकादशे कुजरवी, सपत्ने ( षष्ठे ) रविजः, वित्ते ( द्वितीये )
विधुः, तपसि ( नवमे ) शेषनभश्चराश्चेद् तदा श्रीवत्सो नाम योगः स्यात् ।
एष योगः रूपरिक्तां ( रूपहीनां ) अपि सौभाग्यभोगभरभङ्गितरङ्गिताङ्गीं
( सौभाग्यभोगस्य भरो भारस्तस्य भङ्गी रचना तया तरङ्गितानि अङ्गानि
यस्यास्तां तथोक्तां ) स्त्रियं सुखयति ॥ ५ ॥
भा०—लग्न से ११ भाव में मङ्गल रवि, षष्ठ में शनि, द्वितीय में चन्द्रमा,
प्रकरणम् ११ ] वसन्तलक्ष्मीसहितम् । ७४
सौम्या मूर्ती स्वान्तराश्योरसौम्याः कुर्युयोगं कार्मुकं कन्यकास्मिन् ।
हत्वा कान्तं कान्तवेषा विषाद्यैर्वेश्यारामं रंरमीति स्वरत्या ॥६॥
सं०—मूर्तौ ( लग्ने ) सौम्याः शुभग्रहाः, स्वान्तराश्योः ( द्वितीय-
द्वादशभावयोः ) असौम्याः पापग्रहाः कार्मुकं योगं कुर्युः । अस्मिन् (कार्मु-
के योगे ) विवाहिता कन्यका कान्तवेषा ( मनोहरस्वरूपा ) विषाद्यैः विष-
शस्त्रादिभिः कान्तं स्वामिनं हत्वा वेश्यारामं ( वेश्यां रमयतीति वेश्यारामस्तं
वैश्यागामिनं पुरुषं ) रंरमीति ( अतिशयेन रमयतीत्यर्थः ) ॥ ६ ॥
भा०—लग्न में शुभग्रह और द्वितीय द्वादश में पापग्रह हों तो कार्मुक योग
होता है, इस योग में विवाहिता कन्या सुन्दर वेषवाली होकर विष आदि से
अपने पति को मारकर अपनी रति से वेश्यागामी पुरुष को प्रसन्न करती है ॥६॥
सूनौ शुक्रः साङ्गिरा गौररश्मिर्दुश्चिक्ये स्यादङ्गनाभ्युद्गमश्चेत् ।
आनन्दोऽयं सुन्दरी सान्द्रसौख्या तेनानन्दं वंशयोर्विस्तृणाति ॥७॥
सं०—सूनौ (पञ्चमभावे) शुक्रः, दुश्चिक्ये तृतीये साङ्गिरा गौररश्मिः
( सगुरुश्चन्द्रः ) चेत् अङ्गनाभ्युद्गमः ( कन्यालग्नं ) तदाऽयं आनन्दो
नाम योगः स्यात् । तेन योगेन सुन्दरी सान्द्रसौख्या सती वंशयोः
आनन्दं विस्तृणाति विस्तारयति ॥ ७ ॥
भा०—पञ्चम भाव में शुक्र, तृतीय में गुरु सहित चन्द्रमा तथा कन्या लग्न
हो तो यह आनन्द नामक योग होता है । इस योग में विवाहिता स्त्री अत्यन्त
सुखयुक्ता होकर दोनों वंश को आनन्दित करती है ॥ ७ ॥
व्ययरिपुहिबुकेषु वक्रशुक्रद्युमणिसुतैः क्रमशः कुठार एषः ।
इह विहरति संहृतस्ववंशा विटपटले पटलेखिताभिसारा ॥ ८ ॥
सं०—वक्रशुक्रद्युमणिसुतैः क्रमशः व्यय-रिपुहिबुकेषु स्थितैः एषः
कुठारः ( कुठाराख्ययोगः ) स्यात् । इह (अस्मिन् कुठारयोगे) विवाहिता
कन्या संहृतस्ववंशा ( संहृतो नाशितः स्ववंशो यया सा तथोक्ता ) पटले-
खिताभिसारा ( पटे वस्त्राञ्चले लिखितोऽभिसारो यस्याः सा तथोक्ता
सती ) विटपटले जारसमूहे विहरति ( क्रीडते ) ॥ ८ ॥
भा०—द्वादश में मंगल, षष्ठमें शुक्र, और चतुर्थ भाव में शनि हो तो कुठार
नामक योग होता है । इसमें विवाहिता स्त्री अपने वंश को नष्ट करके अभिसारिणी
होकर परपुरुष के साथ विहार करती है ॥ ८ ॥
८० विवाहवृन्दावनम्- [ग्रहयोग-
रविकविरविजेन्दुभिः क्रमेण व्ययधनपण्निधनेषु कूर्म एषः ।
इह विहितकरग्रहा गृहाणि भ्रमति भुजिष्यतया परःशतानि ॥६॥
सं०-रवि-कवि-रविजेन्दुभिः क्रमेण व्यय-धन-षण्-निधनेषु स्थितैः
एषः कूर्मः (कूर्मनामा योगः) स्यात्, इह (अस्मिन्योगे) विहितकरग्रहा
(कृतविवाहा) भुजिष्यतया (भुजिष्यायाः परिचारिकायाः भावो भुजिष्यता
तया) परः शतानि शतेभ्योऽधिकानि गृहाणि भ्रमति ॥ ९ ॥
भा०-द्वादश में सूर्य, द्वितीय में शुक्र, षष्ठ में शनि और अष्टम भाव में
चन्द्रमा हो तो कूर्म योग होता है। इस योग में विवाहिता स्त्री सौ से भी अधिक
घरों में नौकरनी होकर भ्रमण करती है ॥ ९ ॥
भवपरिभवविक्रमैः क्रमेण द्युमणिमहीसुतसौरिभिः सनाथैः ।
परिणमति दलेन्दुरिन्दुमुख्याः कुलयुगलोद्धृतिधुर्यतां विधास्यन् ॥
सं०-भव-परिभव-विक्रमैः (एकादश-षष्ठ-तृतीयैः) क्रमेण द्युमणि-
महीसुत-सौरिभिः सनाथैः (सहितैः) इन्दुमुख्याः (चन्द्रवदनायाः
कन्यायाः) कुलयुगलोद्धृतिधुर्यतां विधास्यन् (करिष्यन्) दलेन्दुः
(अर्धचन्द्रयोगः) परिणमति भवतीत्यर्थः ॥१०॥
भा०-एकादश, षष्ठ और तृतीय भावों में क्रम से सूर्य, मंगल और' शनि
हों तो कन्या को दोनों (पति और पिता के) कुल के उद्धार करने में योग्या
बनाने वाला अर्धचन्द्रनामक योग होता है। अर्थात् इस योग में विवाहिता कन्या
दोनों कुल का उद्धार करती है ॥१०॥
व्ययनिधनतनूषु मन्दचन्द्रारुणकिरणैर्मुशलं जगुर्मुनीन्द्राः ।
इह वृष्णिकुलान्तके कुमारी कुलमारी न च कापि कार्यसिद्धिः ॥
सं०-व्यय-निधन-तनूषु क्रमेण मन्दचन्द्रारुणकिरणैः स्थितैः
मुनीन्द्राः मुसलं योगं जगुः । इहास्मिन् वृष्णिकुलान्तके मुसले योगे वि-
वाहिता कुमारी कुलमारी (कुलनाशिनी) भवति । तथा च कापि कार्य-
सिद्धिर्न भवति ॥ ११ ॥
भा०-१२, ८, और लग्न इनमें क्रम से शनि, चन्द्र और सूर्य हों तो
मुनियों ने मुसल नामक योग कहा है। इस यादव कुल को अन्त करने वाले
(मुसल) योग में विवाहिता स्त्री कुल को नाश करने वाली होती है। और
उसकी कोई भी कार्य सिद्ध नहीं होता है ॥ ११ ॥
प्रकरणम् १२ ] वसन्तलक्ष्मीसहितम् । ८१
━━━━━━━━━━━━━━━━━━━━━━━━━━━━
वि०—मुसल से ही यादवों का नाश हुआ यह भागवत में प्रसिद्ध है ॥११॥
तनुनवभवगैः क्रमेण योगो बुधविबुधार्चितपङ्गुभिर्गजः स्यात् ।
इह युवतिरहंकृता कृतार्थान्वितरति दैवतदैवतपरा वा ॥१२॥
सं०— बुध-विबुधार्चित-पङ्गुभिः क्रमेण तनुनवभवगैः ( लग्न-नवमै-
कादशस्थैः ) गजः ( गजाख्यो ) योगः स्यात् । इहास्मिन् योगे विवाहिता
युवतिः ( स्त्री ) अहंकृता ( अहंकारयुता ) सती कृतार्थान् ( उपार्जि-
तार्थान् ) वितरति ( ददाति ), वा दैवत-दैवतपरा ( दैवतानि = देवाः,
दैवं = भाग्यं तत्परा ) भवति ॥१२॥
भा०—बुध, गुरु, और शनि ये क्रम से लग्न, नवम और एकादश भावों में
हों तो गज नामक योग होता है। इस योग में विवाहिता स्त्री अहंकारयुक्ता होकर
अपनी सञ्चित सम्पत्ति को दान करनेवाली अथवा देवता और प्रारब्ध की उपासना
करनेवाली होती है ॥ १२ ॥
अथ ग्रहभावकुण्डलीकाध्यायः ।
तत्रादौ लग्नस्थग्रहाणां फलान्याह—
चिरञ्जीवां जीवः कविरविरलानङ्गसुभगां
शशाङ्कोर्वीपुत्रौ यमयुवतिपार्श्वप्रणयिनीम् ।
बुधो भर्तुर्भाक्तां मृगदृशमशीलां शनिरपि
त्रयीमूर्तिर्मूर्ती सृजति शिखिशस्त्रादिनिधनाम् ॥ १ ॥
सं०—मूर्ती लग्ने जीवो गुरुः मृगदृशं स्त्रियं चिरञ्जीवां सृजति
करोति । कविः शुक्रः अविरलानङ्गसुभगां ( अविरलेनाङ्गेन कामेन सुभगां
सौभाग्यवतीं ) सृजति । शशाङ्कोर्वीपुत्रौ ( चन्द्र-भौमौ ) यमयुवतिपार्श्व-
प्रणयिनीं यमगृहगामिनीं सृजतः । बुधो भर्तुः स्वामिनो भक्तां सृजति ।
शनिः अशीलां शीलरहितां सृजति । त्रयीमूर्तिः सूर्यः मूर्ती लग्ने स्थितः
शिखिशस्त्रादिनिधनां ( शिखिनाऽग्निना, शस्त्रादिना च निधनं यस्यास्तां
तथोक्तां ) सृजति करोति ॥ १ ॥
११
८२ विवाहवृन्दावनम्- [ कुण्डलिका-
भा०- विवाह लग्न में गुरु हो तो स्त्री को चिरजीविनी बनाता है, शुक्र हो तो
अत्यन्त काम और सौभाग्य से युक्ता, चन्द्रमा और मंगल हो तो यमराज की स्त्री
के पास जानेवाली, बुध हो तो स्वामी में भक्ति रखने वाली, शनि हो तो दुष्ट
स्वभाव वाली और सूर्य लग्न में हो तो अग्नि तथा अस्त्र आदि से मरने वाली स्त्री
को बनाता है ॥ १ ॥
अथ द्वितीयभावगतग्रहाणां फलानि-
नितान्तधनिनीं धने सितसितांशुजीवेन्दुजा
रुजादहनदस्युभिर्विधुरितां धरानन्दनः ।
सुतेष्वपि मितम्पचां मलिनमूर्तिमर्कात्मजः
स्त्रियं सहजदुर्भागां जनयति द्युतीनां पतिः ॥ २ ॥
सं०-धने द्वितीयभावे सित-सितांशु-जीवेन्दुजाः स्त्रियं ( विवाहितां
कन्यां ) नितान्तधनिनीं (अतिधनवतीं) जनयन्ति । धरानन्दनः (मङ्गलः)
रुजा-दहन-दस्युभिर्विधुरितां दुःखितां जनयति । अर्कात्मजः (शनिः)
सुतेषु (आत्मजेषु) अपि मितम्पचां कृपणां मलिनमूर्तिं जनयति ।
द्युतीनां पतिः (सूर्यः) सहजदुर्भागां स्वभावदुर्भागां जनयति ॥ २ ॥
भा०-विवाह लग्न से द्वितीय भाव में शुक्र, चन्द्रमा, बृहस्पति और बुध ये
कन्या को अत्यन्त धनवती बनाते हैं । मंगल रोग, अग्नि और चोरों के भय से
पीड़ित बनाता है । शनि द्वितीय भाव में हो तो अपने पुत्रों के प्रति भी कृपण
बुद्धि वाली और मलिन शरीरवाली स्त्री को बनाता है । और सूर्य द्वितीय भाव में
हो तो स्वभाव से ही दुर्भागा स्त्री होती है ॥ २ ॥
अथ तृतीयभावगतग्रहाणां फलानि-
इनशनी सहजे सधनां वधूं तनुधनां सचिवः शुभगां शशी ।
सुकृतिनीं कुरुतः कुजसोमजौ नयति देवरि देवरिपूपनीः ॥ ३ ॥
सं०-सहजे तृतीयभावे 'स्थितौ' इन-शनी सूर्य-शनैश्चरौ वधूं स्त्रियं
सधनां धनयुक्तां कुरुतः । सचिवो बृहस्पतिः तनुधनां स्वल्पधनवतीं, शशी
सुभगां करोति । कुजसोमजौ (मंगल-बुधौ) सुकृतिनीं पुण्यवतीं कुरुतः ।
तथा देवरिपूपनीः ( देवरिपून् दैत्यान् उपनयत्यसौ देवरिपूपनीः शुक्रः )
वधूं स्त्रियं देवरि (देवरे) नयति प्रापयति देवरगामिनीं करोतीत्यर्थः ॥३॥
प्रकरणम् १२ ] वसन्तलक्ष्मीसहितम् । ८३
भा०—तृतीय भाव में सूर्य और शनि हों तो धनवतो, बृहस्पति हो तो
अल्प धनवाली, चन्द्रमा हो तो सुभगा, मंगल बुध हों तो पुण्यवती, और शुक्र हो
तो स्त्री देवरगामिनी होती है ॥ ३ ॥
अथ चतुर्थभावगतग्रहाणां फलानि—
दारिद्र्यं रविरवनिसुतो वराङ्ग-
व्याघातं गुरुभृगुजेन्दुजाः प्रभुत्वम् ।
बाल्येऽब्जः प्रियवियुतिं शनिः स्तनाम्भः-
शून्यत्वं सृजति सुखे सुवासिनीनाम् ॥ ४ ॥
सं०—सुखे चतुर्थभावे स्थितो रविः सुवासिनीनां स्त्रीणां दारिद्र्यं
सृजति करोति । अवनिसुतो मङ्गलो वराङ्गव्याघातं ( वराङ्गस्य भगस्य
व्याघातं भङ्गं ) सृजति । गुरुभृगुजेन्दुजाः प्रभुत्वं, अब्जश्चन्द्रः बाल्ये
बाल्यावस्थायां प्रियवियुतिं स्वामिवियोगं, शनिः स्तनाम्भःशून्यत्वं स्तन्य-
दुग्धशून्यत्वं सृजति ॥ ४ ॥
भा०—विवाह लग्न से चतुर्थ भाव में सूर्य हो तो स्त्री को दारिद्र्य, मङ्गल
हो तो भग में आघात, बृहस्पति, शुक्र, बुध ये प्रभुत्व, चन्द्रमा हो तो बाल्यावस्था
में स्वामी का वियोग और शनि हो तो स्तन में दूध की हानि करता है ॥ ४ ॥
पञ्चमभावगतग्रहाणां फलानि—
सत्पुत्रामसुरसुरेज्यसोमपुत्राः पुत्रारिं रविरसुतप्रजां द्विजेन्द्रः ।
शोकार्तामवनिसुतः सुतस्थ ऐनिः सन्ताने सततरुजं सृजेत्कुमारीम् ॥
सं०—असुरसुरेज्यसोमपुत्राः (गुरु-शुक्र-बुधाः) सुतभावस्थाः कुमारीं
सत्पुत्रां सृजेयुः । रविः सुतस्थः पञ्चमस्थः पुत्रारिं पुत्रघातिनीं सृजेत् ।
द्विजेन्द्रश्चन्द्रः पञ्चमस्थः असुतप्रजां ( कन्यासन्ततिं ), अवनिसुतः मङ्गलः
शोकार्ता, ऐनिः शनिः सुतस्थः सन्ताने सन्ततौ सततरुजं कुमारीं सृजेत् ।
भा०—शुक्र-गुरु बुध ये पञ्चम भाव में हों तो स्त्री को योग्य पुत्रवाली
बनाते हैं । रवि हों तो पुत्रघातिनी, चन्द्रमा हों तो कन्या सन्तानवाली, मङ्गल
हो तो शोक से पीड़िता, और शनि हो तो सन्तान के विषय में सर्वदा रोगवाली
स्त्री होती है ॥ ५ ॥
८४ विवाहवृन्दावनम्— [ कुण्डलिका-
अथ षष्ठभावस्थग्रहाणां फलानि—
विधुर्निधनमिन्दुजः परभयं जयं भानुमान्
कुजः कुशलमर्कभूर्विगतवैरितां वैरिगः ।
रिपुत्वमुशनाः समं सहचरेण चारुभ्रुवां
व्यनक्ति वचसां पतिः पतिमजातशत्रुश्रुतिम् ॥ ६ ॥
सं०-वैरिगः षष्ठभावगतो विधुश्चन्द्रः चारुभ्रुवां स्त्रियां निधनं मरणं
इन्दुजो बुधः परभयं शत्रुभयं, भानुमान् सूर्यो जयं, कुजः कुशलं, अर्कभूः
शनिः विगतवैरितां शत्रुरहितत्वं, उशनाः शुक्रः सहचरेण समं ( स्वामिना
सह ) रिपुत्वं, वचसांपतिः बृहस्पतिः पतिं भर्तारं अजातशत्रुश्रुतिं ( न
जाता शत्रुश्रुतिर्यस्य तथाभूतं ) व्यनक्ति प्रकटयति ॥ ६ ॥
भा०-विवाह लग्न से षष्ठ भाव में चन्द्रमा हों तो कन्या की मृत्यु, बुध
हों तो शत्रु से भय, सूर्य हों तो विजय, मंगल हों तो कुशल, शनि हों तो बैर-
रहिता, शुक्र हों तो पति से शत्रुता, बृहस्पति हो तो उस स्त्री के पति को अजात-
शत्रु ( जो शत्रु का नाम भी नहीं सुना हो ऐसा ) बनाता है ॥ ६ ॥
अथ सप्तमभावगतग्रहाणां फलानि—
बुधो बन्ध्यामिन्दुः परिचितसपत्नीपरिभवां
गलद्गर्भां पङ्गुः परनररतां दानवगुरुः ।
अवीरामस्तेऽर्को गुरुरमरसेवाव्यसनिनीं
विवाहे माहेयः स्त्रियमतिरजस्कां जनयति ॥ ७ ॥
सं०—विवाहे अस्ते सप्तमभावे बुधः स्त्रियं बन्ध्यां, इन्दुः परिचित-
सपत्नीपरिभवां सपत्नीक्लेशयुतां, पङ्गुः शनिः गलद्गर्भां, दानवगुरुः शुक्रः
परनररतां, अर्कः अवीरां पतिरहितां, गुरुः अमरसेवाव्यसनिनीं देवा-
राधनतत्परां, माहेयो मङ्गलः अतिरजस्कां प्रदरव्याधियुतां जनयति ॥७॥
भा०—विवाह लग्न से सप्तम भाव में बुध हो तो स्त्री को बन्ध्या, चन्द्रमा
हो तो सौत के दुख से पीड़िता, शनि हो तो गर्भस्त्राव, शुक्र हो तो परपुरुष-
गामिनी, सूर्य हो तो पतिपुत्ररहिता, बृहस्पति हों तो देवसेवा में तत्पर, और
मंगल हो तो प्रदर रोगयुक्त स्त्री को बनाता है ॥ ७ ॥
प्रकरणम्-१२ ] वसन्तलक्ष्मीसहितम् । ८५
अथाष्टमस्थानस्थग्रहाणां फलानि-
सितसितकिरणेज्या मृत्यवे मृत्युवेश्म-
न्यनवरतसुखायुःसम्पदे सूर्यसौरी ।
भवति पतिशरीरद्रोहकृद्रौहिणेयो
द्रुहिणगृहमुखीनां यक्ष्मणे क्षोणिजन्मा ॥ ८ ॥
सं०-मृत्युवेश्मनि अष्टमस्थाने सितसितकिरणेज्याः द्रुहिणगृहमुखीनां
कमलवदनानां स्त्रीणां मृत्यवे मरणाय भवन्ति । सूर्य-सौरी अनवरतसुखायुः-
सम्पदे भवतः । रौहिणेयो बुधः पतिशरीरद्रोहकृद् भवति । क्षोणिजन्मा
कुजः यक्ष्मणे राजयक्ष्मरोगाय भवति ॥ ८ ॥
भा०-विवाह लग्न से अष्टम स्थान में शुक्र, चन्द्र, बृहस्पति हों तो स्त्रियों
के मृत्युकारक होते हैं । सूर्य और शनि सदा सुख-आयु-सम्पत्ति देते हैं । बुध
स्वामी के शरीर में आघात करनेवाला होता है । और मङ्गल अष्टम स्थान में हो
तो यक्ष्मारोगकारक होता है ॥ ८ ॥
अथ नवमस्थानस्थग्रहाणां फलानि-
शशिसुतगुरुशुक्राः सान्द्रसौभाग्यलीलां
सरलहसितकान्तस्वान्तकेलिं कुमारीम् ।
रविरविसुतवक्राः कैतवाक्रान्तशीलां
तपसि तुहिनरश्मिः स्त्रीसवित्रीं करोति ॥ ६ ॥
सं०-तपसि नवमस्थाने शशिसुत-गुरु-शुक्राः कुमारीं सान्द्रसौभाग्य-
लीलां सरलहसितकान्तस्वान्तकेलिं च कुर्वन्ति । रवि-रविसुत-वक्राः
कैतवाक्रान्तशीलां ( कपटयुक्तस्वभावां ) कुर्वन्ति । तुहिनरश्मिश्चन्द्रः स्त्री-
सवित्रीं ( कन्याप्रसवां ) करोति ॥ ९ ॥
भा०-विवाहलग्न से नवम भाव में बुध, गुरु, शुक्र हों तो अत्यन्त सौभाग्य-
वती और सरल हास्य से स्वामी के हृदय में केलि करनेवाली कन्या होती है ।
सूर्य, शनि, मंगल ये हों तो कपट स्वभाववाली, और चन्द्रमा नवम भाव में हो
तो स्त्री को कन्या सन्तानवाली बनाता है ॥ ९ ॥