तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
६० श्रीतन्त्रालोकः ।
वत्त्वं, तदेव च परमैश्वर्यस्वभावं स्वातन्त्र्यमुच्यते ।
तदाह 'स्वातन्त्र्यमात्रकम्' इति । स्वातन्त्र्यमेव के-
वलं स्वातन्त्र्यमात्रकम्, अत एवाह 'अनाक्षितवि-
शेषम्' इति, 'अनाक्षिताः' स्वसहचारिणोऽपि
नित्यत्वव्यापकत्वादयो 'विशेषा' भेदा येन तत् ।
भावप्रत्ययान्तो हि शब्दः सहचारिधर्मान्तरनिवृत्ति-
मेव ब्रूते, अत एव द्रव्याभिधायिनः शब्दस्य विशेषः ।
यदाहुः
'धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः ।
संकेतभेदस्य पदं ज्ञातृवाञ्छानुरोधतः ॥
भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः ।'
इति । 'द्वितीयेन' इति अर्थात् द्वितीयसूत्रवर्तिना
ज्ञानशब्देन, ज्ञप्तिः ज्ञानं, ज्ञायते येन इति ज्ञानं
च इति व्युत्पत्त्या 'क्रियां, करणं' च प्राधान्येनाभि-
दधता 'तस्य'-चैतन्यमात्मा-इत्युक्तस्वरूपस्य, अत
एव चेतयते इति 'चित्' चितिक्रियायां कर्ता, तन्मा-
त्रमेव केवलं 'रूपं' यस्य तस्य 'द्वैतमुच्यते' कर्तृ-
पं० ७ क० पु० अत एवेत्याभिधायिनः शब्दस्येति पाठः ।
पं० १० क० पु० भेदस्य परमित्येवंविधः पाठः ।
श्लोकः ३० ] प्रथमाह्निकम् । ६१
कर्मणोः कर्तृकर्मक्रियाणां च भिन्नानामवच्छेदका-
नामाग्रूरणाद् द्वैतप्रथासूत्रणं क्रियते, पूर्णमस्य रूपं
नाख्याति इत्यर्थः । 'तत्' तस्मात्संविद्वैतात्मनः
पूर्णस्य रूपस्य अख्यानात् 'द्वैतप्रथा' एव 'अज्ञानम्'
अपूर्णं ज्ञानमपूर्णत्वाच्च तदेव अपूर्णं मन्यता-शुभा-
शुभवासना-शरीरभुवनाकारस्वभावविविधसंकुचित-
ज्ञानरूपतया मलत्रयात्मा 'बन्ध' इति उच्यते,
बन्धरूपत्वादेव च तदज्ञानं 'समुच्छेद्यम्'
'मलं कर्म च मायीयमाणवमखिलं च यत् ।
सर्वं हेयमिति प्रोक्तं ........................ ॥'
इत्युक्त्या हेयमित्यर्थः । नन्वत्र द्वैतप्रथात्मकत्वा-
दपूर्णं ज्ञानमेव अज्ञानम् इत्येतत्कुतोऽवगतम्
इत्याशङ्क्योक्तम् 'इत्यावृत्त्या निरूपितम्' इति ।
'आवृत्त्या' इति अज्ञानम् इति संहितापाततः पुनरा-
वर्तनेन इत्यर्थः ॥ २८ ॥ २९ ॥ ३० ॥
पं० ६ क० पु० भुवनाकारविविधेति पाठः ।
पं० ७ क० पु० बन्ध इत्युच्यते इति पाठः ।
पं० ११ ख० पु० इत्याद्युक्त्या इति पाठः ।
६२ श्रीतन्त्रालोकः ।
नन्वेवं मोक्षस्य लक्षणमभिधीयताम् इत्याशङ्-
क्याह
स्वतन्त्रात्मातिरिक्तस्तु
तुच्छोऽ तुच्छोऽपि कश्चन ।
न मोक्षो नाम तन्नास्य
पृथङ्नामापि गृह्यते ॥ ३१ ॥
न कश्चिदन्योऽस्ति इति वाक्यशेषः । यदि तुच्छ-
स्तत्पूर्वोक्तनीत्या बन्ध एव स्यात्, अतुच्छश्चेत् पार-
मार्थिकत्वान्नास्य स्वतन्त्रात्मातिरेकः । यद्वक्ष्यति
‘मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः ।
स्वरूपं चात्मनः संवित् .................... ॥’
इत्यादि । किमुक्तं भवति, - इह तावदात्मज्ञानं
मोक्ष इत्यविवादः, अतो यदेवात्मनो लक्षणं तदेव
मोक्षस्य इति तन्नान्तरीयकत्वादेव अस्य लक्षणसिद्धेः
पृथक्लक्षणं न कृतं, अत एव ‘नामापि’ इति अपि-
शब्देन लक्षणादेः पुनः का वार्ता इत्यावेदितम् ॥३१॥
पं० ७ ख० पु० यतो यदि तुच्छ इति पाठः ।
श्लोकः ३२ ] प्रथमाह्निकम् । ६३
एवमप्यस्य तद्वैलक्षण्यं कटाक्षीकर्तुं दर्शनान्तरो-
क्तस्य मोक्षस्य स्वरूपमभिधातुमुपक्रमते
यत्तु ज्ञेयसतत्त्वस्य पूर्णापूर्णाप्रथात्मकम् ।
तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥ ३२ ॥
‘यत्’ पुनः ‘ज्ञेयस्य’ कला-तत्त्व-भुवनाद्यात्मनोऽध्वनः
यत् ‘सतत्त्वम्’ ऊर्ध्वोर्ध्वमन्योन्यं च भेदेनावस्थानं,
तस्य ‘उत्तरोत्तरम्’ उपर्युपरिभावेन तत्तद्भुवनाद्युल्ल-
ङ्घनक्रमेण तत्तदवच्छेदापगमात् यथायथमतिश-
याद् द्वैतप्रथात्मकत्वात् संकुचितत्वेऽपि ‘पूर्णा-
पूर्णाप्रथात्मकं ज्ञानम्’ [ उदेति तदधरीकृततत्त्वजालो-
ल्लङ्घनात्
‘चतुर्दशविधं६ यच्च प्रोक्तं संसारमण्डलम् ।’
इत्याद्युक्तेः ‘तस्य तस्य’ चतुर्दशविधयोन्यात्मनः
‘संसारस्य’ ‘शान्तिदं’ तत उन्मोचकमित्यर्थः ।
६ चतुर्दशविधत्वं संसारस्योक्तं यथा—
‘अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥’
इति ।
६४ श्रीतन्त्रालोकः ।
ज्ञानस्य हि मोचनमेव धर्मः, किंतु संकुचितस्यासं-
कुचितत्वम् ॥ ३२ ॥
एतदेव दर्शयति
रागाद्यकलुषोऽस्म्यन्तः-
शून्योऽहं कर्तृतोज्झितः ।
इत्थं समासव्यासाभ्यां
ज्ञानं मुञ्चति तावतः ॥ ३३ ॥
'इत्थं' प्रथमार्धनिरूपितस्वरूपं 'ज्ञानं' 'तावतः'
परिमिताद् बन्धात्, अर्थात् बौद्धादीन्मुञ्चति इति
संबन्धः । तत्र 'रागाद्यकलुषोऽहं भवामि' इति ज्ञानं
योगाचाराणाम् । यदाहुः
'रागादिकलुषं चित्तं संसारस्तद्विमुक्तता ।
संक्षेपात्कथितो मोक्षः प्रहीनावरणैर्जिनैः ॥'
इति । तथा
'प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः ।
तेषामपाये सर्वार्थं तज्ज्योतिरविनश्वरम् ॥'
पं० १ क० पु० किं तु पदं नास्ति,
पं० १२ ख० पु० संसारस्तद्विविक्तता इति पाठः ।
पं० १४ ख० ग० पु० प्रकृत्या तनवो मला इति पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६५
इति । अयमत्रार्थः - प्रकृतिप्रभास्वरस्य चित्तस्य
अनाद्यविद्यावशाद्रागादिभिरागन्तुकैर्मलैरावृतत्वेन
संसाराविर्भावेपि भावनाद्यात्मकमार्गानुष्ठानबलात्-
त्तदागन्तुकमलप्रहाणेन आश्रयपरावृत्त्या अविनश्वर-
ज्योतीरूपस्वरूपाभिव्यक्तिर्मोक्ष इति तदयुक्तं,-भा-
वना ह्यत्र भवद्भिः कारणमिष्यते, सा क्षणक्षयिणां
चित्तक्षणानां विशेषमाधातुं नोत्सहते, तस्याः स्थि-
रैकाश्रयगतत्वेन विशेषाधानक्षमत्वात् । तथाहि-
स्थायिनस्तिलादयो भावाः स्थायिभिरेव सुमनोभि-
र्वास्यन्ते, तथेयमपि स्यात्, अतश्च प्रतिक्षणमपूर्वत्वेन
उपजायमानस्य निरन्वयविनाशिलङ्घनाभ्यासवत्
अनासादितातिशयस्य चित्तक्षणस्य प्रभास्वरचित्त-
क्षणोपजननाय भावना न प्रभवेत् इत्यनया कोऽर्थः ।
समलाश्च चित्तक्षणाः स्वारसिक्याः सदृशारम्भ-
णशक्तेः स्वसदृशानेव चित्तक्षणानुत्पादयितुं क्षमन्ते,
न विसदृशान् प्रभास्वरान् । एवं च चित्तक्षण-
भङ्गुरत्वान्मलप्रहाणायैव भावना न प्रगल्भेत
पं० ७ ख० पु० विशेषमभिधातुमिति पाठः ।
पं० १७ ख० पु० न भावना प्रगल्भते इति पाठः ।
६
६६ श्रीतन्त्रालोकः ।
इत्याश्रयपरावृत्तेः का वार्त्ता इति कृतं क्षणिकवा-
दिनां मोक्षेण । बन्धमोक्षौ च स्थिरैकादिपक्षे
युज्येते, बद्धो हि मोक्षाय प्रवर्तते, प्राप्य च निवृत्तो
भवति इति, सन्तानश्चैको न विद्यते, तस्य भेदा-
भेदविकल्पोपहृतत्वात् । 'अन्तः' संविद्रूपतायामपि
'शून्यो ऽ हं' भवामि इति ज्ञानं माध्यमिकानाम् । ते
खलु सर्वभावनैःस्वाभाव्यवादिनः संविदोऽपि नैःस्वा-
भाव्यान्मिथ्यात्वमभिदधतस्तच्छून्यतायामेव मोक्ष-
माचक्षीरन् । यदाहुः
'चित्तमात्रमिदं विश्वमिति यादेशना मुनेः ।
तत्रासपरिहारार्थं बालानां सा न तत्त्वतः ॥
सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः ।'
इति, तदप्ययुक्तं,-संविदो हि मिथ्यात्वेन स्वतन्त्र-
रूपापाकरणेऽपि मिथ्यात्वे सत्तैव न भवेत्, तस्याः
नीलादिवत् परतन्त्ररूपत्वाभावात्, नीलादीनां
हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणे ऽ पि संविदात्मत-
पं० १ ग० पु० आशयपरावृत्तेरिति पाठः ।
पं० ४ ख० पु० संतानश्चैकेन विद्यते इति पाठः ।
पं० ७ ख० पु० स्वभाववादिन इति, नैःस्वभावादिति च पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६७
याऽस्त्यवस्थानं, संविदि तु स्फुरत्तामात्रसारायां
मिथ्यात्वादसत्त्वमेव स्यात् इति न किंचित्स्फुरेत्
इति मूर्च्छैव स्यात् इति। न च संविदः स्फुरत्तामात्र-
साररूपाया अपह्नवः शक्यक्रियः इति यत्किंचिदेतत्।
अथ
'सर्वालम्बनधर्मैश्च सर्वसत्त्वैरशेषतः ।
सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥'
इत्याद्युक्तयुक्त्या ग्राह्यग्राहकभावादिना कल्पि-
तेन रूपेण शून्यं, न तु संविदापि इति चेत्, एवं
ह्युच्यमाने विज्ञानवादे एवाभ्युपगमः स्यात्, सोऽपि
हि कल्पितपरतन्त्रादिरूपशून्यत्वेन
'इत्यन्तःकरणस्यैव विचित्रात्मावभासिनः ।
अविभाविततत्त्वस्य विस्फूर्जितमिदं जगत् ॥'
इत्याद्युक्तैर्विज्ञप्तिमेव परमार्थसतीमभ्युपागमत् इति
पं० ३ क० पु० सूत्कैव स्यादिति, ग० पु० स्फुरत्तासाररूपाया इति च पाठः ।
पं० ८ क० पु० भावनादिना इति पाठः ।
पं० १३ क० पु० अवभासिततत्त्वस्येति पाठः ।
पं० १४ क० पु० परमार्थमभ्युपागमदिति पाठः । ग० पु० विज्ञप्तमेव परमार्थ-
सत्त्वमभ्युपगतमिति पाठः ।
६८ श्रीतन्त्रालोकः ।
न नवं किंचिदायुष्मतोत्प्रेक्षितम् । तत्र चोक्तो दोषः
‘अकर्ताहं भवामि’ इति ज्ञानं सांख्यानाम् । ते हि
निष्क्रियमेवात्मानमभ्युपागमन्, अन्यथा हि तस्य
चैतन्यं न स्यात्-अचेतनानामेव क्षीरादीनां क्रिया-
वत्त्वोपलब्धेः । अयुक्तं चैतत्,-अकर्तृत्वे हि पुरुषस्य
अनिर्मोक्षः स्यात्, अकिंचित्करत्वे हि पुरुषस्योत्प-
न्नेऽपि विवेकदर्शने स्वरूपेणावस्थानं न स्यात्,-
प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगात्, तं प्र-
त्यपि पुनः संभावनायाः संभवात् । न च प्रकृतेः
‘दृष्टाहमनेन’ इति ‘न पुनरेतदर्थमहं प्रवर्ते’ इत्य-
नुसन्धानमस्त्याचैतन्यादस्याः - प्रेक्षाकारित्वाभा-
वात् । एवं चेयं कृतेऽपि शब्दाद्युपलम्भे यथा
पुनस्तदर्थं प्रवर्त्तते, तथा कृतायामपि विवेकख्यातौ
पुनरपि तदर्थं प्रवर्त्तिष्यते,-स्वभावस्यानपेतत्वात् ।
एवमपि कृतमकृतं न भवति - इति संकुचितमपि
पं० १ क० पु० चोक्तदोष इति समस्तः पाठः ।
पं० ६ क० पु० उत्पन्नेऽपि प्रकृतिपुरुषविवेकेति पाठः ।
पं० १२ क० पु० अकृतं भवति इति पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६९
ज्ञानं बौद्धादीनां निजोचितार्थक्रियां विदध्यात् ।
तथाहि बौद्धाः
'एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं पश्यामः॥'
इत्याद्युक्तयुक्त्या बुद्धिवृत्त्यात्मकं ज्ञानमेव तत्त्वं प्रति-
पन्नाः इति बुद्धितत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तं
'ब्रह्मा तत्राधिपत्वेन बुद्धितत्त्वे व्यवस्थितः ।
सर्वज्ञं च तमेवाहुर्बौद्धानां परमं पदम् ॥'
इति । अत एवैषां बुद्धितत्त्वाधोवर्तिनः संसारस्य
शान्तिः । एवं च 'ज्ञानं मुञ्चति तावतः' इति
युक्तमुक्तम् । सांख्याश्च सुखदुःखाद्यात्मकप्रकृतिपृथ-
ग्भावेन पुंस एव स्वरूपेणावस्थानं तत्त्वं प्रतिपन्नाः
इति पुंस्तत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तं
'पौरुषं चैव सांख्यानां सुखदुःखादिवर्जितम्।'
इति । नैरात्म्यदृष्टेश्चात्मदृष्टिर्विशिष्यते, इति सां-
ख्यानां बौद्धेभ्यः पूर्णप्रथात्मकं ज्ञानम् इत्येषां बुद्धि-
तत्त्वोर्ध्ववर्तिपुंस्तत्त्वप्राप्तिः । एवं च पूर्णप्रथात्मकमु-
पं० ५ क० पु० प्राप्तिरेषां इति पाठः ।
पं० ६ ख० पु० ब्रह्मैवात्राधिपत्येनेति पाठः ।
७० श्रीतन्त्रालोकः ।
त्रोत्तरं ज्ञानम्, इत्यादिः पूर्वसूत्रप्रतिज्ञातोऽर्थो
निर्वाहितः । एवं सांख्यपातञ्जलयोः प्रकृतिपृथग्भा-
वेन पुंज्ञानस्य साम्येऽपि सांख्येभ्यः पातञ्जलानामी-
श्वरप्रणिधानात् तद्विशिष्यते, इति तेषां पुंस्तत्त्वो-
र्ध्ववर्तिनियतितत्त्वप्राप्तिरुक्ता ।
‘षड्विंशकं तु देवेशि योगशास्त्रे परं पदम् ।’
इति । एवं च मौसुलपाशुपतादीनामपि यथायथं
ज्ञानातिशयादूर्ध्वोर्ध्वतत्त्वावाप्तिः परं पदम् इति ।
तदुक्तं
‘मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् ।’
इति । तथा
‘व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् ।’
इति । तत्रैवं बौद्धादीनां मायीयादेव मलादंशां-
शिकया, मौसुलानां कार्मादपि, पाशुपतानाम्
अनात्मनि आत्माभिमानात् आणवादपि मलान्मो-
चकं ज्ञानम् इत्युक्तं ‘समासव्यासाभ्याम्’ इति ३३॥
पं० ४ क० पु० प्रणिधानाद्विशिष्यते इति पाठः ।
पं० ६ क० पु० षड्विंशकं महादेवीति पाठः ।
पं० १५ ख० पु० आत्मताभिमानादिति पाठः ।
श्लोकः ३४ ] प्रथमाह्निकम् । ७१
ननु स्वदर्शनौचित्येन एवं बन्धविगलनेऽपि
किमिति नासौ मुक्तः इत्याशंक्याह
तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः ।
अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥ ३४ ॥
‘......अध्वा बन्धस्य कारणम् ।’
इत्युक्तेः अध्वा तावद्वन्धकः । तत्र बौद्धादयो बुद्धि-
तत्त्वान्तबन्धविगलनात् तन्मुक्ता अपि तदूर्ध्ववर्त्य-
ध्वान्तरावच्छेदस्थितेरमुक्ता एव, अत एवैषां
पुनरपि सर्गारम्भे सृज्यमानत्वात् संसाराविर्भावो,–
बन्धकारणस्य निःशेषेणाप्रक्षयात् । यद्वक्ष्यति
‘सांख्यवेदादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे ।
सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥’
इति । श्रीस्वच्छन्दशास्त्रेऽपि
पं० ६ ख० पु० इत्याद्युक्तेरिहाध्वा तावदिति पाठः ।
पं० ७ ख० पु० तत्त्वान्तर्बन्धविगलनात् इति पाठः । क० पु० विगलनान्मुक्ता
इति पाठः ।
पं० ८ ख० पु० अवच्छेदावस्थितेरिति पाठः ।
पं० १० ख० पु० निःशेषेणाक्रमात् इति प्रथमपाठः संदृश्यते ।
पं० १२ क० पु० पुनस्तस्मादिति, ख० पु० न सङ्घन्मुक्तिरिति पाठः ।
७२ श्रीतन्त्रालोकः
'लौकिकानां पुनः सृष्टिः पुनः संहार एव च ।
संसारचक्रमारूढा भवन्ति घटयन्त्रवत् ॥'
इत्यादि सामान्येनाभिधाय
'मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः ।
बन्धः संसारतो भूयो यावद्देवं न विन्दति ॥'
इति बौद्धाद्यवान्तरदर्शनमुक्तोपलक्षणपरतया विशे-
षेणोक्तम् । यः पुनर्निःशेषप्रक्षीणसर्वाध्वबन्धः स
एव साक्षान्मुक्तः इत्याह 'मुक्तस्तु सर्वाविच्छेद-
वर्जितः' इति । यदुक्तं
'सर्वाध्वनो विनिष्क्रान्तं शैवानां तु परं पदम् ।'
इति । तथा
'शैवः सिद्धो भाति मूर्ध्नातिरेषां
मुक्तः सृष्टौ पुनरभ्येति नाथः ।'
इति ॥ ३४ ॥
अत्र चैवं-विधमेव पूर्णं ज्ञानं निमित्तम् इत्याह
यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् ।
अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥३५॥
पं० १ क० पु० पुनः संसार इति पाठः ।
पं० ५ ख० पु० यावद्देहं न विन्दति इति पाठः ।
पं० ६ क० पु० बद्धयातयेति पाठः ।
श्लोकः ३८ ] प्रथमाह्निकम् । ७३
'अवच्छेदैः' संकोचाधायिभिरिदन्तापरामर्शैः 'सर्वा-
त्मना' सर्वप्रकारं वासनामात्रेणापि यत् 'उज्झितं'
पराहन्तापरामर्शसारमित्यर्थः । अत एव च पूर्णा-
प्रथात्मकत्वात् 'न तत् कुत्राप्यज्ञानम्' अतश्च 'सत्यां'
मुक्त्याभासविलक्षणां 'मुक्तिं' ददाति, अहंपरामर्श-
सारप्रमात्रैकात्म्येन स्फुरति इत्यर्थः ॥ ३५ ॥
इदानीमुद्दिष्टयोर्ज्ञानाज्ञानयोरेव स्वरूपं विभजति
ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः ।
द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने ॥३६॥
'शिवशासने' इति पञ्चस्रोतो Maxime:रूपे पारमेश्वरदर्शने
इत्यर्थः । एतद्धि सर्वत्रैवाविशेषेणोक्तम् ॥ ३६ ॥
तदेव लक्षयति
तत्र पुंसो यद
७४ श्रीतन्त्रालोकः ।
अथ-शब्द आनन्तर्ये, उद्देशानन्तरं हि लक्षणपरी-
क्षयोरवसरः इत्याशयः। 'तत्र' द्विविधयोर्ज्ञानाज्ञान-
योर्मध्यात्
'.........पुंसः प्रादुर्भवत्परम्।'
इत्यस्यात्मनोऽपि यत्समनन्तरोक्तस्वरूपं मला-
ख्यमनन्यसाधारणानवच्छिन्नज्ञानक्रियायोगि पर-
प्रमातृरूपाच्छिवादेव जातमुद्भूतमित्यर्थः । परमे-
श्वर एव हि स्वस्वातान्त्र्यात्पूर्णज्ञत्वकर्तृत्वाद्यपह-
स्तनेन अख्यात्यात्मकाणवमलाविर्भावेन स्वात्मान-
मावृणुयात् । तदुक्तं
'परमं यत्स्वातन्त्र्यं
दुर्घटसंपादनं महेशस्य ।
देवी मायाशक्तिः
स्वात्मावरणं शिवस्यैतत् ॥ ( प० सा० १५ का० )
मायापरिग्रहवशाद्-
बोधो मलिनः पुमान्पशुर्भवति ।' ( प० सा० १६ का० )
इति । वक्ष्यति च
७ नाममात्रेण वस्तुसंकीर्तनमुद्देशः, सजातीयविजातीयासाधारणनिरूपकं कारणं
लक्षणम्, युक्त्ययुक्तिविवेकः परीक्षा इति ।
श्लोकः ३८ ] प्रथमाह्निकम् । ७५
‘तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम्।’
इति। तदेव पशोराणवादिमलत्रययोगिनोऽपि तस्य
मातुर्देशकालाद्यवच्छिन्नत्वान्नियतदृक्क्रियास्वाभासा-
लोचनात्मकं ज्ञानम् । परमेश्वर एव हि सर्वज्ञताद्यप-
हस्तनेन अणुतां प्रापितस्य स्वात्मनः पुनरपि कला-
दियोगं कृतवान्, येनास्य नियतं ज्ञत्व-कर्तृत्वाद्य-
भियुक्तं । तदुक्तं
‘असूत सा कलातत्त्वं यद्योगादभवत्पुमान् ।
जातकर्तृत्वसामर्थ्यो विद्यारागौ ततोऽसृजत् ॥
विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे ।
रागोऽपि रञ्जयत्येनं स्वभोगेष्वशुचिष्वपि ॥
नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम् ।
कालोऽपि कलयत्येनं त्रुट्यादिभिरवस्थितः ॥’
इति। ज्ञानस्वरूपस्य प्रथममुद्देशेऽपि अवश्योच्छेद्यत्व-
प्रतिपादनार्थमादावज्ञानस्वरूपं निरूपितम् ॥
ननु पुंसो बुद्धिवृत्त्यात्मकं ज्ञानं निर्विकल्पकम्
पं० ८ क० पु० अभवत्पुन इति पाठः ।
पं० ६ ख० पु० ज्ञातकर्तृत्वेति पाठः ।
पं० १० ख० पु० विवेदयत्यस्येति पाठः ।
पं० १४ क० पु० अवच्छेद्यत्वेति पाठः ।
७६ श्रीतन्त्रालोकः ।
इत्युच्यते, तत् कथमेतत् बुद्ध्यंशोपनिपाति न स्यात्
इत्याशंक्याह
तदज्ञानं न बुद्ध्यंशोऽध्यवसायाद्यभावतः ३८॥
एवमपि हि बुद्धेः
'अध्यवसायो बुद्धिः'
इत्याद्युक्तेरध्यवसाय एव मुख्यं रूपं, कथमस्य
एतदभावे तद्धर्मत्वं स्यात् ॥ ३८ ॥
अत एवाह
अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी ।
षट्कञ्चुकाबिलागूत्थप्रतिबिम्बनतो यदा ॥३६॥
धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् ।
बौद्धं तस्य च तत्पौंसं पोषणीयं च पोष्टृ च ४०॥
अस्याश्चैवमध्यवसाययोगित्वे हेतुः 'षट्कञ्चुक'
इति । षट्कञ्चुकैः
'कालकलानियतिबलाद्रागाविद्यावशेन संबद्धः ।
पं० ३ ख० पु० बुद्ध्यंशो व्यवसायेति पाठः ।
पं० ११ ख० पु० धीर्जायेतेति पाठः ।
पं० १५ क० पु० सम्बन्ध इति पाठः ।
श्लोकः ४० ] प्रथमाह्निकम् । ७७
अधुनैव किंचिदेवेदमैव सर्वात्मनैव जानामि ।
मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ॥'
( प० सा० १६ उ० १७ )
इत्यादिना निरूपितस्वरूपैः 'आबिलः' प्रतिनियत-
ज्ञत्वकर्तृत्वाद्युत्पत्त्या म्लानप्रायो योऽसौ 'अणुः' परि-
मितात्मा, ततो जातात् 'प्रतिबिम्बनात्' 'चिच्छायासं-
क्रमणात् इत्यर्थः । एवं ह्यस्याः पुंबोधव्यक्तिभूमित्वा-
देवंस्वभावो भवेत् इति भावः । 'तादृक्' इति एव-
मव्यवसायरूपम् । अनयोश्च परस्परं कार्यकारणभावं
दर्शयितुमाह 'तस्य' इत्यादि, 'तस्य' इति बौद्धस्य,
'पौस्नं' पुंसि भवं पौरुषम् इत्यर्थः । 'पोषणीयं '
कार्यम् इत्यर्थः । कामशोकाद्यावेशभाजो हि तन्मय-
तानुसंधानादिना तत्तदर्थसाक्षात्कारात्मकमविकल्पकं
ज्ञानमुदियात् । यदाहुः
'कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः ।
अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥'
इति । 'पोष्टृ' इति कारणम् । स्वप्नादावपि अनुभव
पं० १६ क० पु० पुरतोऽवस्थितानि वेति पाठः ।
७८ श्रीतन्त्रालोकः ।
एव हि प्राच्यो निमित्तं, नहि नारिकेलद्वीपवासिनो
वह्निविकल्पादाविच्छापि भवेत् ॥ ३६ ॥ ४० ॥
एवमज्ञानं निरूप्य, ज्ञानमपि द्विविधं निरूपयितु-
माह
क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरास्थितेः ।
विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥४१॥
विकस्वराविकल्पात्मज्ञानौचित्येन यावसा ।
तद्बौद्धं यस्य तत्पौरुसं प्राग्वत्पोष्यं च पोष्टृ च
॥ ४२ ॥
पशोराणवस्यापि वासनामात्रक्षयाभिधानात् 'नि-
मित्ताभावे नैमित्तिकस्याप्यभावः' इति न्यायेन कार्म-
मायीयोरपि प्रक्षयान्निवृत्त निखिलबन्धस्य 'पुंसः'
अत एव प्राप्तपरमचिदैकात्म्यस्य 'विकस्वरं' पराहन्ता-
विमर्शात्मकं 'निर्विकल्पकं' कृत्रिमाहंकारादिविकल्प-
पं० ५ ख० पु० प्राप्तपुरस्थितिरिति पाठः ।
पं० १० क० पु० पशोरावरकस्यापि इति पाठः ।
पं० १३ ख० पु० प्राप्तपरसंविदैकात्म्यस्य इति पाठः ।
श्लोकः ४३ ] प्रथमाह्निकम् । ७९
विलक्षणं ज्ञानं पौरुषं भवति इति वाक्यार्थः ।
'औचित्येन' इति तद्द्रूपूर्णेनात्मना इत्यर्थः । अतश्च
'सर्वो ममायं विभवः' इत्येवंरूपत्वमस्याः । 'यस्य'
इति बौद्धज्ञानस्य । 'प्राग्वत्' इति यथैवाज्ञानयोः
परस्परं पोष्यपोषकभावस्तथैव इत्यर्थः । तथैव पूर्णा-
पूर्णात्वेन पुनः विशेषो ग्राह्यः, अन्यथा हि ज्ञाना-
ज्ञानयोः स्वरूपमेवाभिहितं न स्यात् ॥ ४१ ॥ ४२ ॥
नन्वेवंविधमज्ञानं तावदनाद्येवावस्थितम् इति
नास्ति विवादः, एतद्भावात्मकं ज्ञानं पुनः कदा
समुदियात्, एतद्भावे च किं निमित्तम् ? इत्याश-
ङ्क्याह
तत्र दीक्षादिना पौंसमज्ञानं ध्वंसि यद्यपि ।
तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्
॥ ४३ ॥
यद्यप्युक्तस्वरूपं 'पौंसमज्ञानं'
पं० ३ क० पु० सर्वोऽयं मम विभव इत्येवंरूपः पाठः ।
पं० १३ क० पु० तथापि तु शरीरान्ते इति पाठः ।