तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
श्लोक २१ ] प्रथमाह्निकम् । ५१
त्रिनयनप्रसादासादितप्रकृष्टसिद्धेः किं नामासा-
ध्यम् इति भावः ॥ २० ॥
एवं चेयं कृतिः सर्वेषामेव ग्राह्या भवेत्, इति
प्रतिपादयितुमाह
श्रीशम्भुनाथभास्कर-
चरणनिपातप्रभापगतसंकोचम् ।
अभिनवगुप्तहृदम्बुज-
मेतद्विचिनुत महेशपूजनहेतोः ॥ २१ ॥
—
आदिवाक्यं
—
हृदयं शास्त्रात्मसतत्त्वं, महेश्वरस्य पूजनं
'पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा ।
निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्ल्यः ॥'
इत्याद्युक्त्या तत्तद्वक्ष्यमाणज्ञप्तिक्रमेण स्वात्मतया
प्रत्यभिज्ञानम् । अतश्च महावाक्यार्थेन एकमेवादि-
पं० १ क० पु० आसादितस्याष्टसिद्धेरिति, ख० पु० प्रसादादासादितप्रकृष्टसिद्धे-
रित्यभिप्राय इति पाठः
पं० ३ आदिवाक्यमिति पदं ख० पुस्तकात् प्रक्षिप्तम् ।
५२ श्रीतन्त्रालोकः ।
वाक्यात्मकं वाक्यम् इति दर्शयितुमाह 'आदिवाक्य-
म्' इति ।
इह यद्यपि परमेश्वरशक्तिपातमन्तरेण तच्छास्त्र-
श्रवणादावन्यत् प्रवृत्तिनिमित्तं नाभ्युपेयते, तथापि
शास्त्रकाराणामियं शैली - इत्यभिधेयप्रयोजनादि
प्रतिपादयितुं प्रवृत्तिहेतुतया अयमादिवाक्योपनि-
बन्धः। तत्र प्रथमश्लोकपञ्चकासूत्रितोऽनुत्तरषडर्थार्थ-
क्रम इत्यनेन साक्षादभिहितश्च पर-परापरापरात्मता-
दिना बहुप्रकारस्त्रिकार्थस्तावदभिधेयः । तस्यैव च
कर्तृप्रतिपादनकौशलेन मौलागमस्य च समस्त-
शास्त्रप्राधान्याभिधानेन सातिशयत्वं प्रतिपादयितुं
'श्रीभट्टनाथ' इत्यादि श्लोकपञ्चकमुपात्तम् । स च
गुरुपरम्परागतः
'तस्माद्गुरुकमायातं दिशन्नेति परं शिवम् ।'
इत्याद्युक्तनीत्या निजप्रयोजनकारी भवति, इत्ये-
तदङ्गतयैव पारम्पर्यसंदर्शनार्थं गुरुसंकीर्तनपरं श्लोक-
पं० १४ क० पु० मृशन्नेति परमिति पाठः ।
पं० १५ निजेत्याद्यारभ्य संदर्शनार्थमित्यन्तः पाठः ख० पु० नास्ति ।
श्लोकः २१ ] प्रथमाह्निकम् । ५३
सप्तकमुट्टङ्कितम् । अतश्चास्यैव वक्ष्यमाणोपायक्रमेण
स्वात्मतया प्रत्यभिजानाजीवन्मुक्तिप्रदत्वं प्रयोजनं
श्लोकान्तरासूत्रितमपि 'श्रीशम्भुनाथ' इत्यादि-
श्लोकेन साक्षादुक्तम् । एतदुद्दिश्य च को नाम न
सचेताः परमेश्वरशक्तिपातपवित्रितः प्रवर्तते इत्यस्य
प्रवृत्तिनिमित्तत्वं, प्रवृत्तस्याप्येतदुपलब्धौ
'तमनित्येषु भोगेषु योजयन्ति विनायकाः ।'
इत्याद्युक्तेर्विघ्नाः संभवन्ति इत्येतन्निरासाय गणे-
शवटुकयोः स्तुतिः । 'अर्थितो रचये' इति प्रतिज्ञा-
तायाः प्रक्रियायाश्च
'तन्मया तन्यते तन्त्रालोकनाम्न्यत्र शासने ।'
इत्यादिवक्ष्यमाणोपजीवनेन तन्त्रालोक इत्यभि-
धानम् । एवमभिधानाभिधेययोरभिधेयप्रयोजन-
योश्च वाच्यवाचकसाध्यसाधनभावलक्षणः संबन्ध-
श्चार्थाक्षिप्तः इत्यनेकवाक्यसंमेलनात्मकमेकमेवादि-
वाक्यं प्रवृत्तिहेतुतया उक्तम् इति पिण्डार्थः ॥२१॥
पं० १४ ख० पु० साधनभावाभावलक्षणेति पाठः ।
पं० १५ ख० पु० संमेलनात्मकमेकमेवेदमादिवाक्यप्रवृत्तिहेतु इत्यादिरूपः पाठः ।
५४ श्रीतन्त्रालोकः ।
इह यद्यपि सर्ववादिनां मोक्ष एव उपादेयः,
तत्प्रतिपक्षभूतः संसारश्च हेयः, तस्य च मिथ्याज्ञानं
निमित्तं, तत्प्रतिकूलं च तत्त्वज्ञानम्-इति तत्साक्षा-
त्कारेणैव अज्ञानापगमान्मोक्षावाप्तिः इत्यत्राविवादः,
तथापि तैस्तदेकनियतं ज्ञानाज्ञानयोः स्वरूपं न
ज्ञातम् इति
'भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।'
इत्याद्युक्त्या तदभ्युपगतो मोक्षो मोक्ष एव न
भवति - इति दर्शयितुं शास्त्रान्तरवैलक्षण्येन तत्परी-
क्षणस्य वक्ष्यमाणत्वात्प्राधान्यमपि कटाक्षयितुमुप-
क्रम एव बन्धमोक्षपरीक्षामुट्टङ्कयति ग्रन्थकारः
इह तावत्समस्तेषु शास्त्रेषु परिगीयते ।
अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् ॥२२॥
न चैतदस्माभिः स्वोपज्ञमेवोक्तम्-इत्याह
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ।
इति प्रोक्तं तथा च श्रीमालिनीविजयोत्तरे ॥२३॥
श्लोकः २३ ] प्रथमाह्निकम् । ५५
'अज्ञानं' तिमिरं पारमेश्वरस्वातन्त्र्यमात्रसमुल्ला-
सितस्वरूपगोपनासतत्त्वमात्मानात्मनोरन्यथाभिमा-
नस्वभावम् अपूर्णं ज्ञानं, तदेव चाणवं 'मलं', न तु
नवमाह्निकादौ निषेत्स्यमानं द्रव्यरूपम् । उक्तं च
'स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥'
इति । तच्च कीदृक् ? इत्याह—संसार इति । 'संसारस्य'
'भिन्नवेद्यप्रथात्रैव मायाख्यम्............।'
इत्याद्युक्तस्वरूपस्य मायीयस्य मलस्य
'संसारकारणं कर्म संसाराङ्कुर उच्यते ।'
इति वक्ष्यमाणनीत्या 'अङ्कुरः' कारणं कार्ममलं
तस्य 'कारणं' । तदुक्तं
'मलं कर्मनिमित्तं तु नैमित्तिकमतः परम् ।'
इति श्रीमालिनीविजयोत्तरे प्रोक्तम् इत्येतदधि-
कारेणैवायं ग्रन्थः प्रवृत्त इत्युपोद्बलितम् ॥२३॥
अज्ञानस्य पौरुषबौद्धात्मकत्वेन द्वैविध्येऽपि इह
पौरुषमेव विवक्षितं स्यान्नान्यत् इत्याह
पं० १ ख० पु० अज्ञानतिमिरमिति समस्तः पाठः । क० पु० समुल्लासितं
स्वरूपेति च व्यस्तः पाठः ।
५६ श्रीतन्त्रालोकः ।
विशेषणेन बुद्धिस्थे संसारोत्तरकालिके ।
संभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥२४॥
'विशेषणेन' 'संसाराङ्कुरकारणम् इत्यनेन' नहि
दुरध्यवसायरूपं बौद्धमज्ञानं कर्मणः कारणम् अपि
तु तत्तस्य – इति कथमेतद्विशेषणं संगच्छतां,
तद्धि सति कर्मकारणे शरीरे संभवति तस्य कार्य-
करणात्मकत्वात्, बुद्धेश्च करणवर्गान्तःपातित्वात्,
अत एवोक्तं 'संसारोत्तरकालिक' इति,
'शरीरभुवनाकारो मायीयः परिकीर्तितः ।'
इत्याद्युक्तेः संसाराच्छरीरादनन्तरभाविनि इत्यर्थः ।
किं तत्संभावनानिरासेन इत्युक्तं—'एतदभावे मोक्ष-
मब्रवीत्' इति । नहि बौद्धाज्ञानमात्रनिवृत्तौ मोक्षो
भवेत् यत्तस्मिन्निवृत्ते बौद्धमेव ज्ञानमुदेति' तस्य च
शुद्धविकल्पात्मत्वेऽपि
'सर्वो विकल्पः संसारः....................।'
इति नीत्या संसाराविर्भावकत्वमेव इति कथमे-
तदभावेऽपि एवं स्यात् । यदभिप्रायदितो बाह्यैरपि
५ तदिति कर्म, तस्येति बौद्धाज्ञानस्येत्यर्थः, एतत्—बौद्धमज्ञानमित्यर्थः ।
पं० ५ ख० पु० कथमस्यैतत् इति पाठः ।
श्लोकः २४] प्रथमाह्निकम् । ५७
'परमार्थविकल्पेऽपि नाव्लीयेत पण्डितः ।
को हि भेदो विकल्पस्य शुभे वाऽप्यथ वाऽशुभे ॥'
इत्याद्युक्तं, पौरुषे पुनरज्ञाने दीक्षादिना निवृत्ते सति
यदि बौद्धं ज्ञानमुदियात् तदा तस्य वक्ष्यमाणनीत्या
जीवन्मुक्तिं प्रत्यपि कारणत्वं भवेत्, केवलेन पुन-
स्तेन न किंचित्सेत्स्यति इत्युक्तप्रायम् । पौरुषं पुनर्जा-
नमुदितं सत् अन्यनिरपेक्षमेव मोक्षकारणम् । यदुक्तं
'पाशाश्च पौरुषाः शोध्या दीक्षायां न तु धीगताः ।
तेन तस्यां दोषवत्यामपि दीक्षा न निष्फला ॥'
इति । तच्च ज्ञानमात्रस्वभावम्, अख्यात्यभाव एव हि
पूर्णा ख्यातिः, सैव च प्रकाशानन्दघनस्यात्मनस्ता-
त्त्विकं स्वरूपं, तत्प्रथनमेव मोक्षः इति युक्तमुक्तम्-
'एतदभावे मोक्षमब्रवीत्' इति ॥ २४ ॥
ननु अज्ञानशब्दस्य अपूर्णं ज्ञानमर्थः इत्यत्र किं
निबन्धनं, ज्ञानाभावमात्रमेवास्तु इत्याशङ्क्याह
पं० २ ख० पु० शुभे वाप्यशुभेऽथ वा इति पाठः ।
पं० ५ क० पु० केवलेन पुनर्न किंचिदिति पाठः ।
पं० १२ क० पु० युक्तमेतदभावे मोक्षमिति पाठः ।
८
५८ श्रीतन्त्रालोकः ।
अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः ।
स हि लोष्ठादिकेऽप्यस्ति न च तस्यास्ति संसृतिः
॥ २५ ॥
कोऽसावतिप्रसङ्ग इत्याह—'स हि' इत्यादि ।
तद्युक्तमुक्तमज्ञानशब्दस्य अपूर्णं ज्ञानमर्थ इति ॥२५॥
तदाह
अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् ।
ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् ॥२६॥
'अतो' यथोक्ताद्धेतोः 'ज्ञेयस्य' नीलसुखादेः,
'ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः ।'
इत्यादिवक्ष्यमाणस्वरूपस्य 'तत्त्वस्य' 'सामस्त्येन'
तस्य सर्वत्राविशेषात् तदेकघनाकारत्वेन 'अप्रथात्मकं'
यत् इदं नीलम् इदं सुखम् इति द्वैतप्रथात्मकत्वाद-
पूर्णं 'ज्ञानं' तदेव 'अज्ञानं' न पुनर्ज्ञानाभावमात्रम्
इत्येतच्छिवसूत्रेषु 'भाषितम्' उक्तमित्यर्थः ॥२६॥
तत्र चैतत्कुत्र दर्शितम् इत्याशङ्क्याह
पं० ११ ख० पु० वक्ष्यमाणसतत्त्वस्येति पाठः ।
पं० १५ क० पु० शिवसूत्रेषु दर्शितमित्यर्थ इति पाठः ।
श्लोकः ३० ] ( प्रथमाह्निकम् । ५९
चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः ।
संश्लेषेतरयोगाभ्यामयमर्थः प्रदर्शितः ॥ २७ ॥
'संश्लेषेतरयोगाभ्याम्' इति संहितया, अन्यथा
च अकारप्रश्लेषविश्लेषाभ्यां, तेन 'ज्ञानं बन्धः, अज्ञानं
बन्ध' इति चायमर्थः, इत्यज्ञानशब्दस्य अपूर्णज्ञाना-
भिधानलक्षणः ॥ २७ ॥
एतदेव व्याचष्टे
चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् ।
अनाक्षिप्तविशेषं सदाह सूत्रे पुरातने ॥२८॥
द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा ।
ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥२९॥
द्वैतप्रथा तदज्ञानं तुच्छत्वाद्वन्ध उच्यते ।
तत एव समुच्चेयमित्यावृत्त्या निरूपितम् ॥३०॥
इह न किञ्चिदप्यचेतितं भवति इति चितिक्रिया
सर्वसामान्यरूपा इति । चेतयति इति चेतनः पूर्ण-
ज्ञानक्रियावान्, तस्य भावः 'चैतन्यं' पूर्णज्ञानक्रिया-
पं० १६ ख० पु० पूर्णज्ञानवान् इति पाठः ।
६० श्रीतन्त्रालोकः ।
वत्त्वं, तदेव च परमैश्वर्यस्वभावं स्वातन्त्र्यमुच्यते ।
तदाह 'स्वातन्त्र्यमात्रकम्' इति । स्वातन्त्र्यमेव के-
वलं स्वातन्त्र्यमात्रकम्, अत एवाह 'अनाक्षितवि-
शेषम्' इति, 'अनाक्षिताः' स्वसहचारिणोऽपि
नित्यत्वव्यापकत्वादयो 'विशेषा' भेदा येन तत् ।
भावप्रत्ययान्तो हि शब्दः सहचारिधर्मान्तरनिवृत्ति-
मेव ब्रूते, अत एव द्रव्याभिधायिनः शब्दस्य विशेषः ।
यदाहुः
'धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः ।
संकेतभेदस्य पदं ज्ञातृवाञ्छानुरोधतः ॥
भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः ।'
इति । 'द्वितीयेन' इति अर्थात् द्वितीयसूत्रवर्तिना
ज्ञानशब्देन, ज्ञप्तिः ज्ञानं, ज्ञायते येन इति ज्ञानं
च इति व्युत्पत्त्या 'क्रियां, करणं' च प्राधान्येनाभि-
दधता 'तस्य'-चैतन्यमात्मा-इत्युक्तस्वरूपस्य, अत
एव चेतयते इति 'चित्' चितिक्रियायां कर्ता, तन्मा-
त्रमेव केवलं 'रूपं' यस्य तस्य 'द्वैतमुच्यते' कर्तृ-
पं० ७ क० पु० अत एवेत्याभिधायिनः शब्दस्येति पाठः ।
पं० १० क० पु० भेदस्य परमित्येवंविधः पाठः ।
श्लोकः ३० ] प्रथमाह्निकम् । ६१
कर्मणोः कर्तृकर्मक्रियाणां च भिन्नानामवच्छेदका-
नामाग्रूरणाद् द्वैतप्रथासूत्रणं क्रियते, पूर्णमस्य रूपं
नाख्याति इत्यर्थः । 'तत्' तस्मात्संविद्वैतात्मनः
पूर्णस्य रूपस्य अख्यानात् 'द्वैतप्रथा' एव 'अज्ञानम्'
अपूर्णं ज्ञानमपूर्णत्वाच्च तदेव अपूर्णं मन्यता-शुभा-
शुभवासना-शरीरभुवनाकारस्वभावविविधसंकुचित-
ज्ञानरूपतया मलत्रयात्मा 'बन्ध' इति उच्यते,
बन्धरूपत्वादेव च तदज्ञानं 'समुच्छेद्यम्'
'मलं कर्म च मायीयमाणवमखिलं च यत् ।
सर्वं हेयमिति प्रोक्तं ........................ ॥'
इत्युक्त्या हेयमित्यर्थः । नन्वत्र द्वैतप्रथात्मकत्वा-
दपूर्णं ज्ञानमेव अज्ञानम् इत्येतत्कुतोऽवगतम्
इत्याशङ्क्योक्तम् 'इत्यावृत्त्या निरूपितम्' इति ।
'आवृत्त्या' इति अज्ञानम् इति संहितापाततः पुनरा-
वर्तनेन इत्यर्थः ॥ २८ ॥ २९ ॥ ३० ॥
पं० ६ क० पु० भुवनाकारविविधेति पाठः ।
पं० ७ क० पु० बन्ध इत्युच्यते इति पाठः ।
पं० ११ ख० पु० इत्याद्युक्त्या इति पाठः ।
६२ श्रीतन्त्रालोकः ।
नन्वेवं मोक्षस्य लक्षणमभिधीयताम् इत्याशङ्-
क्याह
स्वतन्त्रात्मातिरिक्तस्तु
तुच्छोऽ तुच्छोऽपि कश्चन ।
न मोक्षो नाम तन्नास्य
पृथङ्नामापि गृह्यते ॥ ३१ ॥
न कश्चिदन्योऽस्ति इति वाक्यशेषः । यदि तुच्छ-
स्तत्पूर्वोक्तनीत्या बन्ध एव स्यात्, अतुच्छश्चेत् पार-
मार्थिकत्वान्नास्य स्वतन्त्रात्मातिरेकः । यद्वक्ष्यति
‘मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः ।
स्वरूपं चात्मनः संवित् .................... ॥’
इत्यादि । किमुक्तं भवति, - इह तावदात्मज्ञानं
मोक्ष इत्यविवादः, अतो यदेवात्मनो लक्षणं तदेव
मोक्षस्य इति तन्नान्तरीयकत्वादेव अस्य लक्षणसिद्धेः
पृथक्लक्षणं न कृतं, अत एव ‘नामापि’ इति अपि-
शब्देन लक्षणादेः पुनः का वार्ता इत्यावेदितम् ॥३१॥
पं० ७ ख० पु० यतो यदि तुच्छ इति पाठः ।
श्लोकः ३२ ] प्रथमाह्निकम् । ६३
एवमप्यस्य तद्वैलक्षण्यं कटाक्षीकर्तुं दर्शनान्तरो-
क्तस्य मोक्षस्य स्वरूपमभिधातुमुपक्रमते
यत्तु ज्ञेयसतत्त्वस्य पूर्णापूर्णाप्रथात्मकम् ।
तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥ ३२ ॥
‘यत्’ पुनः ‘ज्ञेयस्य’ कला-तत्त्व-भुवनाद्यात्मनोऽध्वनः
यत् ‘सतत्त्वम्’ ऊर्ध्वोर्ध्वमन्योन्यं च भेदेनावस्थानं,
तस्य ‘उत्तरोत्तरम्’ उपर्युपरिभावेन तत्तद्भुवनाद्युल्ल-
ङ्घनक्रमेण तत्तदवच्छेदापगमात् यथायथमतिश-
याद् द्वैतप्रथात्मकत्वात् संकुचितत्वेऽपि ‘पूर्णा-
पूर्णाप्रथात्मकं ज्ञानम्’ [ उदेति तदधरीकृततत्त्वजालो-
ल्लङ्घनात्
‘चतुर्दशविधं६ यच्च प्रोक्तं संसारमण्डलम् ।’
इत्याद्युक्तेः ‘तस्य तस्य’ चतुर्दशविधयोन्यात्मनः
‘संसारस्य’ ‘शान्तिदं’ तत उन्मोचकमित्यर्थः ।
६ चतुर्दशविधत्वं संसारस्योक्तं यथा—
‘अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥’
इति ।
६४ श्रीतन्त्रालोकः ।
ज्ञानस्य हि मोचनमेव धर्मः, किंतु संकुचितस्यासं-
कुचितत्वम् ॥ ३२ ॥
एतदेव दर्शयति
रागाद्यकलुषोऽस्म्यन्तः-
शून्योऽहं कर्तृतोज्झितः ।
इत्थं समासव्यासाभ्यां
ज्ञानं मुञ्चति तावतः ॥ ३३ ॥
'इत्थं' प्रथमार्धनिरूपितस्वरूपं 'ज्ञानं' 'तावतः'
परिमिताद् बन्धात्, अर्थात् बौद्धादीन्मुञ्चति इति
संबन्धः । तत्र 'रागाद्यकलुषोऽहं भवामि' इति ज्ञानं
योगाचाराणाम् । यदाहुः
'रागादिकलुषं चित्तं संसारस्तद्विमुक्तता ।
संक्षेपात्कथितो मोक्षः प्रहीनावरणैर्जिनैः ॥'
इति । तथा
'प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः ।
तेषामपाये सर्वार्थं तज्ज्योतिरविनश्वरम् ॥'
पं० १ क० पु० किं तु पदं नास्ति,
पं० १२ ख० पु० संसारस्तद्विविक्तता इति पाठः ।
पं० १४ ख० ग० पु० प्रकृत्या तनवो मला इति पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६५
इति । अयमत्रार्थः - प्रकृतिप्रभास्वरस्य चित्तस्य
अनाद्यविद्यावशाद्रागादिभिरागन्तुकैर्मलैरावृतत्वेन
संसाराविर्भावेपि भावनाद्यात्मकमार्गानुष्ठानबलात्-
त्तदागन्तुकमलप्रहाणेन आश्रयपरावृत्त्या अविनश्वर-
ज्योतीरूपस्वरूपाभिव्यक्तिर्मोक्ष इति तदयुक्तं,-भा-
वना ह्यत्र भवद्भिः कारणमिष्यते, सा क्षणक्षयिणां
चित्तक्षणानां विशेषमाधातुं नोत्सहते, तस्याः स्थि-
रैकाश्रयगतत्वेन विशेषाधानक्षमत्वात् । तथाहि-
स्थायिनस्तिलादयो भावाः स्थायिभिरेव सुमनोभि-
र्वास्यन्ते, तथेयमपि स्यात्, अतश्च प्रतिक्षणमपूर्वत्वेन
उपजायमानस्य निरन्वयविनाशिलङ्घनाभ्यासवत्
अनासादितातिशयस्य चित्तक्षणस्य प्रभास्वरचित्त-
क्षणोपजननाय भावना न प्रभवेत् इत्यनया कोऽर्थः ।
समलाश्च चित्तक्षणाः स्वारसिक्याः सदृशारम्भ-
णशक्तेः स्वसदृशानेव चित्तक्षणानुत्पादयितुं क्षमन्ते,
न विसदृशान् प्रभास्वरान् । एवं च चित्तक्षण-
भङ्गुरत्वान्मलप्रहाणायैव भावना न प्रगल्भेत
पं० ७ ख० पु० विशेषमभिधातुमिति पाठः ।
पं० १७ ख० पु० न भावना प्रगल्भते इति पाठः ।
६
६६ श्रीतन्त्रालोकः ।
इत्याश्रयपरावृत्तेः का वार्त्ता इति कृतं क्षणिकवा-
दिनां मोक्षेण । बन्धमोक्षौ च स्थिरैकादिपक्षे
युज्येते, बद्धो हि मोक्षाय प्रवर्तते, प्राप्य च निवृत्तो
भवति इति, सन्तानश्चैको न विद्यते, तस्य भेदा-
भेदविकल्पोपहृतत्वात् । 'अन्तः' संविद्रूपतायामपि
'शून्यो ऽ हं' भवामि इति ज्ञानं माध्यमिकानाम् । ते
खलु सर्वभावनैःस्वाभाव्यवादिनः संविदोऽपि नैःस्वा-
भाव्यान्मिथ्यात्वमभिदधतस्तच्छून्यतायामेव मोक्ष-
माचक्षीरन् । यदाहुः
'चित्तमात्रमिदं विश्वमिति यादेशना मुनेः ।
तत्रासपरिहारार्थं बालानां सा न तत्त्वतः ॥
सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः ।'
इति, तदप्ययुक्तं,-संविदो हि मिथ्यात्वेन स्वतन्त्र-
रूपापाकरणेऽपि मिथ्यात्वे सत्तैव न भवेत्, तस्याः
नीलादिवत् परतन्त्ररूपत्वाभावात्, नीलादीनां
हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणे ऽ पि संविदात्मत-
पं० १ ग० पु० आशयपरावृत्तेरिति पाठः ।
पं० ४ ख० पु० संतानश्चैकेन विद्यते इति पाठः ।
पं० ७ ख० पु० स्वभाववादिन इति, नैःस्वभावादिति च पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६७
याऽस्त्यवस्थानं, संविदि तु स्फुरत्तामात्रसारायां
मिथ्यात्वादसत्त्वमेव स्यात् इति न किंचित्स्फुरेत्
इति मूर्च्छैव स्यात् इति। न च संविदः स्फुरत्तामात्र-
साररूपाया अपह्नवः शक्यक्रियः इति यत्किंचिदेतत्।
अथ
'सर्वालम्बनधर्मैश्च सर्वसत्त्वैरशेषतः ।
सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः ॥'
इत्याद्युक्तयुक्त्या ग्राह्यग्राहकभावादिना कल्पि-
तेन रूपेण शून्यं, न तु संविदापि इति चेत्, एवं
ह्युच्यमाने विज्ञानवादे एवाभ्युपगमः स्यात्, सोऽपि
हि कल्पितपरतन्त्रादिरूपशून्यत्वेन
'इत्यन्तःकरणस्यैव विचित्रात्मावभासिनः ।
अविभाविततत्त्वस्य विस्फूर्जितमिदं जगत् ॥'
इत्याद्युक्तैर्विज्ञप्तिमेव परमार्थसतीमभ्युपागमत् इति
पं० ३ क० पु० सूत्कैव स्यादिति, ग० पु० स्फुरत्तासाररूपाया इति च पाठः ।
पं० ८ क० पु० भावनादिना इति पाठः ।
पं० १३ क० पु० अवभासिततत्त्वस्येति पाठः ।
पं० १४ क० पु० परमार्थमभ्युपागमदिति पाठः । ग० पु० विज्ञप्तमेव परमार्थ-
सत्त्वमभ्युपगतमिति पाठः ।
६८ श्रीतन्त्रालोकः ।
न नवं किंचिदायुष्मतोत्प्रेक्षितम् । तत्र चोक्तो दोषः
‘अकर्ताहं भवामि’ इति ज्ञानं सांख्यानाम् । ते हि
निष्क्रियमेवात्मानमभ्युपागमन्, अन्यथा हि तस्य
चैतन्यं न स्यात्-अचेतनानामेव क्षीरादीनां क्रिया-
वत्त्वोपलब्धेः । अयुक्तं चैतत्,-अकर्तृत्वे हि पुरुषस्य
अनिर्मोक्षः स्यात्, अकिंचित्करत्वे हि पुरुषस्योत्प-
न्नेऽपि विवेकदर्शने स्वरूपेणावस्थानं न स्यात्,-
प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगात्, तं प्र-
त्यपि पुनः संभावनायाः संभवात् । न च प्रकृतेः
‘दृष्टाहमनेन’ इति ‘न पुनरेतदर्थमहं प्रवर्ते’ इत्य-
नुसन्धानमस्त्याचैतन्यादस्याः - प्रेक्षाकारित्वाभा-
वात् । एवं चेयं कृतेऽपि शब्दाद्युपलम्भे यथा
पुनस्तदर्थं प्रवर्त्तते, तथा कृतायामपि विवेकख्यातौ
पुनरपि तदर्थं प्रवर्त्तिष्यते,-स्वभावस्यानपेतत्वात् ।
एवमपि कृतमकृतं न भवति - इति संकुचितमपि
पं० १ क० पु० चोक्तदोष इति समस्तः पाठः ।
पं० ६ क० पु० उत्पन्नेऽपि प्रकृतिपुरुषविवेकेति पाठः ।
पं० १२ क० पु० अकृतं भवति इति पाठः ।
श्लोकः ३३ ] प्रथमाह्निकम् । ६९
ज्ञानं बौद्धादीनां निजोचितार्थक्रियां विदध्यात् ।
तथाहि बौद्धाः
'एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं पश्यामः॥'
इत्याद्युक्तयुक्त्या बुद्धिवृत्त्यात्मकं ज्ञानमेव तत्त्वं प्रति-
पन्नाः इति बुद्धितत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तं
'ब्रह्मा तत्राधिपत्वेन बुद्धितत्त्वे व्यवस्थितः ।
सर्वज्ञं च तमेवाहुर्बौद्धानां परमं पदम् ॥'
इति । अत एवैषां बुद्धितत्त्वाधोवर्तिनः संसारस्य
शान्तिः । एवं च 'ज्ञानं मुञ्चति तावतः' इति
युक्तमुक्तम् । सांख्याश्च सुखदुःखाद्यात्मकप्रकृतिपृथ-
ग्भावेन पुंस एव स्वरूपेणावस्थानं तत्त्वं प्रतिपन्नाः
इति पुंस्तत्त्वप्राप्तिरेवैषां मोक्षः । तदुक्तं
'पौरुषं चैव सांख्यानां सुखदुःखादिवर्जितम्।'
इति । नैरात्म्यदृष्टेश्चात्मदृष्टिर्विशिष्यते, इति सां-
ख्यानां बौद्धेभ्यः पूर्णप्रथात्मकं ज्ञानम् इत्येषां बुद्धि-
तत्त्वोर्ध्ववर्तिपुंस्तत्त्वप्राप्तिः । एवं च पूर्णप्रथात्मकमु-
पं० ५ क० पु० प्राप्तिरेषां इति पाठः ।
पं० ६ ख० पु० ब्रह्मैवात्राधिपत्येनेति पाठः ।
७० श्रीतन्त्रालोकः ।
त्रोत्तरं ज्ञानम्, इत्यादिः पूर्वसूत्रप्रतिज्ञातोऽर्थो
निर्वाहितः । एवं सांख्यपातञ्जलयोः प्रकृतिपृथग्भा-
वेन पुंज्ञानस्य साम्येऽपि सांख्येभ्यः पातञ्जलानामी-
श्वरप्रणिधानात् तद्विशिष्यते, इति तेषां पुंस्तत्त्वो-
र्ध्ववर्तिनियतितत्त्वप्राप्तिरुक्ता ।
‘षड्विंशकं तु देवेशि योगशास्त्रे परं पदम् ।’
इति । एवं च मौसुलपाशुपतादीनामपि यथायथं
ज्ञानातिशयादूर्ध्वोर्ध्वतत्त्वावाप्तिः परं पदम् इति ।
तदुक्तं
‘मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् ।’
इति । तथा
‘व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् ।’
इति । तत्रैवं बौद्धादीनां मायीयादेव मलादंशां-
शिकया, मौसुलानां कार्मादपि, पाशुपतानाम्
अनात्मनि आत्माभिमानात् आणवादपि मलान्मो-
चकं ज्ञानम् इत्युक्तं ‘समासव्यासाभ्याम्’ इति ३३॥
पं० ४ क० पु० प्रणिधानाद्विशिष्यते इति पाठः ।
पं० ६ क० पु० षड्विंशकं महादेवीति पाठः ।
पं० १५ ख० पु० आत्मताभिमानादिति पाठः ।