तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 64, कुल 368 में से
संदर्भ में पढ़ें५४ श्रीतन्त्रालोकः ।
इह यद्यपि सर्ववादिनां मोक्ष एव उपादेयः,
तत्प्रतिपक्षभूतः संसारश्च हेयः, तस्य च मिथ्याज्ञानं
निमित्तं, तत्प्रतिकूलं च तत्त्वज्ञानम्-इति तत्साक्षा-
त्कारेणैव अज्ञानापगमान्मोक्षावाप्तिः इत्यत्राविवादः,
तथापि तैस्तदेकनियतं ज्ञानाज्ञानयोः स्वरूपं न
ज्ञातम् इति
'भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।'
इत्याद्युक्त्या तदभ्युपगतो मोक्षो मोक्ष एव न
भवति - इति दर्शयितुं शास्त्रान्तरवैलक्षण्येन तत्परी-
क्षणस्य वक्ष्यमाणत्वात्प्राधान्यमपि कटाक्षयितुमुप-
क्रम एव बन्धमोक्षपरीक्षामुट्टङ्कयति ग्रन्थकारः
इह तावत्समस्तेषु शास्त्रेषु परिगीयते ।
अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् ॥२२॥
न चैतदस्माभिः स्वोपज्ञमेवोक्तम्-इत्याह
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ।
इति प्रोक्तं तथा च श्रीमालिनीविजयोत्तरे ॥२३॥