सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 62, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 62

५२ श्रीतन्त्रालोकः ।
वाक्यात्मकं वाक्यम् इति दर्शयितुमाह 'आदिवाक्य-
म्' इति ।
इह यद्यपि परमेश्वरशक्तिपातमन्तरेण तच्छास्त्र-
श्रवणादावन्यत् प्रवृत्तिनिमित्तं नाभ्युपेयते, तथापि
शास्त्रकाराणामियं शैली - इत्यभिधेयप्रयोजनादि
प्रतिपादयितुं प्रवृत्तिहेतुतया अयमादिवाक्योपनि-
बन्धः। तत्र प्रथमश्लोकपञ्चकासूत्रितोऽनुत्तरषडर्थार्थ-
क्रम इत्यनेन साक्षादभिहितश्च पर-परापरापरात्मता-
दिना बहुप्रकारस्त्रिकार्थस्तावदभिधेयः । तस्यैव च
कर्तृप्रतिपादनकौशलेन मौलागमस्य च समस्त-
शास्त्रप्राधान्याभिधानेन सातिशयत्वं प्रतिपादयितुं
'श्रीभट्टनाथ' इत्यादि श्लोकपञ्चकमुपात्तम् । स च
गुरुपरम्परागतः
'तस्माद्गुरुकमायातं दिशन्नेति परं शिवम् ।'
इत्याद्युक्तनीत्या निजप्रयोजनकारी भवति, इत्ये-
तदङ्गतयैव पारम्पर्यसंदर्शनार्थं गुरुसंकीर्तनपरं श्लोक-
पं० १४ क० पु० मृशन्नेति परमिति पाठः ।
पं० १५ निजेत्याद्यारभ्य संदर्शनार्थमित्यन्तः पाठः ख० पु० नास्ति ।