तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
३२८ श्रीतन्त्रालोकः।
तस्यां दिवि सुदीप्तात्मा
निष्कम्पोऽचलमूर्तिमान् ।
काष्ठा सैव परा सूक्ष्मा
सर्वदिक्कामृतात्मिका ॥२०३॥
प्रध्वस्तावरणा शान्ता
वस्तुमात्रातिलालसा ।
आद्यन्तोपरता साध्वी
मूर्तित्वेनोपचर्यते ॥२०४॥
स्वशक्तिकिरणात्मकं यद्वस्तु तत् 'पत्युरधिष्ठानम्'
इत्यादिभिः विशेषणैः अर्थात् विशिष्टमुक्तम् इति
संबन्धः। 'अथ पत्युरधिष्ठानं स्वशक्तिकिरणात्मकम्।'
इत्येवं-पाठ ऐशः, ग्रन्थकृता पुनरेवं विध्यनुवादभाव-
दर्शनार्थम् अन्यथा पाठः कृतः, तान्येव विशेषणानि
दर्शयितुं 'तस्याम्' इत्यादि 'उपचर्यते' इत्यन्तमागमः
पठितः, स्वा अनन्यसाधारणा याः शक्तयः ता एव
अभिन्नत्वप्रकाशत्वानन्त्यादिना किरणा रश्मयः
पं० १२ क० पु० मौलः, ग० पु० पाठान्तरात्मा पुनरेवंविधानुभवदर्शनार्थ-
मिति पाठः।
श्लोक २०४ ] प्रथमाह्निकम् २२६
तदात्मकं, पत्युः – शक्तिमतः, अधिष्ठानम् – अभिव्य-
क्तिस्थानम् इत्यर्थः। शक्तिरेव तज्ज्ञतावुपायः, यदुक्तं
'यथालोकेन दीपस्य किरणैर्भास्करस्य वा।
ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥'
इति । अत एव तस्यां शक्तौ, दिवि द्योतमानायां,
सोऽपि सुष्ठु दीप्तात्मा – महाप्रकाशवपुः, अत एव
निष्कम्पः – स्वस्मिन्नेव रूपे अवस्थितः, तस्य हि प्र-
काशात्मनः स्वरूपात्प्रच्यावे सर्वमिदम् अन्धं स्यात्,
अत एव च अचलया – महाप्रकाशमय्या प्रशस्यया
मूर्त्या युक्तः, यतश्च तस्यामेवं-विधायाम् अयमेवं-
विधः, ततः सैव परा काष्ठा लोकोत्तरा विश्रान्तिभूः,
अत एव सूक्ष्मा परिच्छेत्तुमशक्या – परप्रमात्रे-
करूपत्वात्, अत एव वस्तुमात्रे पारमार्थिके
रूपे अतिशयेन लालसा – तत्स्फुरत्तात्मिका इति
यावत् । एवं च प्रकर्षेण निःसंस्कारतया ध्वस्तानि
बाह्यावरणानि यया सा प्रशान्तभेदा इत्यर्थः,
अत एव शान्ता चिन्मात्ररूपा इत्यर्थः । एवमपि
पं० ५ ख० ग० पु० शक्तौ विद्योतमानायामिति पाठः ।
पं० ८ ख० पु० सर्वमिदमेतदिति पाठः ।
पं० ९ क० पु० अत एवाचञ्चलयेति पाठः ।
२३० श्रीतन्त्रालोकः
सर्वदिक्षु भवा स्थावरजङ्गमात्मकजगद्रूपत्वात् चित्र-
स्वभावा इति यावत् , तदपि अमृतात्मिका नित्या,
अत एव आद्यन्तोपरता, अनित्ये हि आद्यन्तौ
भवतः, अत एव साध्वी - अनित्यत्वादिदोषकालुष्य-
रहिता इत्यर्थः, एवं-विधा च एषा शक्तिमतः परमे-
श्वरस्य मूर्तित्वेन उपचर्यते - गौण्या वृत्त्या तद्रूपतया
अभिधीयत इत्यर्थः ॥२०२॥२०३॥२०४॥
ननु उपचारे मुख्यार्थबाधादिना त्रितयेन अवश्य-
भाव्यं, तच्चात्र किमस्ति न वा ? इत्याशङ्क्याह
तथोपचारस्यात्रैत-
न्निमित्तं सप्रयोजनम् ।
निमित्तम् इति कारणम्, तद्वशादेव हि उपचारो
भवेत् इति भावः । तत्र शक्तेः शक्तिमद्रूपत्वाभिधाने
बाधितस्तावत् मुख्योऽर्थः, संबन्धश्च तयोरुपायो-
पेयभावः ॥
तदाह
तन्मुखा स्फुटता धर्मि-
ण्याशु तन्मयतास्थितिः ॥१०५॥
पं० १३ क० पु० शक्तिमद्रूपत्वाभिमाने इति, ख० पु० रूपत्वाभिमानेनेति पाठः ।
श्लोक २०७ ] प्रथमाह्निकम् । २३१
त एव धर्माः शक्त्याख्या-
स्तैस्तैरुचितरूपकैः ॥
आकारैः पर्युपास्यन्ते
तन्मयीभावसिद्धये ॥२०६॥
सा शक्तिः मुखम् उपायो यस्याः, स्फुटता नाम
किमुच्यते इत्युक्तम् 'आशु तन्मयतास्थितिः' इति,
आसादितायां शक्तावासादित एव शिवः इत्याशयः।
एतदेव च मुख्यं प्रयोजनम् ॥२०६॥
अत एवाह
तत्र काचित्पुनः शक्ति-
रनन्ता वा मिताश्च वा ।
आक्षिपेद्धवतासत्त्व-
न्यायाद्दूरान्तिकत्वतः ॥२०७॥
अनन्ता मिताश्च इत्यर्थाच्छक्तीः । धवतासत्त्व-
न्यायात् इति - धवता हि अधवव्यावृत्ताः स्वव्य-
पं० ६ ख० पु० तद्युक्तमिति पाठः ।
पं० १२ ख० पु० आक्षिपेद्द्भ्रुवतेति, अन्तिकात्तत इति च पाठः । ग० पु०
अन्तिकास्तत इति पाठः ।
पं० १४ ख० पु० ध्रुवतासत्त्वेति पाठः ।
प्रकाशत्वं चिदात्मता ।
२३२ श्रीतन्त्रालोकः ।
क्तीरेव आक्षिपति इत्यस्याः परिमितवस्त्वाक्षेपि-
त्वम्, सत्त्वं पुनर्धवाधवात्मनि सर्वत्रैव अस्ति
इत्यस्यानन्तवस्त्वाक्षेपित्वम् अत एव च मितवस्वा-
क्षेपिण्यो दूरा - अव्यापकत्वेन सर्वत्र असन्निहि-
तत्वात्, अनन्तवस्त्वाक्षेपिण्यस्तु आसन्ना - व्यापक-
त्वात् सर्वत्रैव संनिहितत्वात् ॥२०७॥
एतदेव प्रकृते योजयति
तेन पूर्णस्वभावत्वं
प्रकाशत्वं चिदात्मता ।
भैरवत्वं विश्वशक्ती-
राक्षिपेद्व्यापकत्वतः ॥२०८॥
सदाशिवादयस्तूर्ध्व-
व्याप्त्यभावादधोजुषः ।
शक्तीः समाक्षिपेयुस्त-
दुपासान्तिकदूरतः ॥२०९॥
पं० ३ क० पु० इत्यस्यानन्तरवस्त्विति पाठः ।
पं० ४ ख० पु० ध्रुवा अव्यापकेति पाठः ।
पं० ५ क० पु० क्षेपिण्यस्त्वसत्त्वव्यापकेति, ख० पु० क्षेपिण्यस्तु
सत्त्वाव्यापकेति पाठः ।
श्लोक २१० ] । प्रथमाह्निकम् । २३३
अधोजुषः इति-ईश्वरादिकाः शक्तीः, तदिति
पूर्णस्वभावत्वसदाशिवत्वादेः व्यापकत्वाव्यापकत्वस्व-
भावत्वाद्धेतोः । पूर्णस्वभावे हि रूपे उपासन्नाः पूर्ण-
मेव भुक्तिमुक्तिलक्षणं फलम् आसादयन्ति, अपूर्ण-
स्वभावे पुनरपूर्णत्वमेव इत्युक्तम् 'उपासान्तिकदूरतः'
इति । अत एव च दर्शनभेदः ॥२०८॥२०९॥
ननु विकल्प एव तत्कल्पनाबलान्नियतः सामा-
न्यात्मा धर्मोऽवभासते इति तत्र तन्मुखेन धर्मिणि
अवभासो भवेत् इत्ययं क्रमः शाक्तोपाये स्यात्
न तु अखण्डवस्त्ववभासात्मनि निर्विकल्पकस्वभावे
शाम्भवे इति कथमिवैतदुक्तम् ? इत्याशङ्क्याह
इत्थं-भावे च शाक्ताख्यो
वैकल्पिकपथक्रमः ।
इह तूक्तो यतस्तस्मात्
प्रतियोग्यविकल्पकम् ॥२१०॥
पं० २ क० पु० शिवत्वादेः व्यापकस्वभावत्वाद्धेतोरिति पाठः ।
पं० १२ क० पु० शाक्ताख्ये इति पाठः ।
पं० १५ क० पु० योगाविकल्पनम् इति पाठः ।
३०
प्रकाशे तन्मुखेनैव
२३४ श्रीतन्त्रालोकः ।
इह इति शाम्भवावसरे, तस्मात् इति विकल्पात्,
प्रतिपक्षे हि निरूपिते सुष्ठु पक्षनिरूपणं कृतं स्यात्
इति-नैतदप्रस्तुतं किंचिदभिहितमिति भावः ।
विकल्पे हि क्रमेण अखण्डवस्त्ववभासो भवति
अविकल्पे पुनरक्रमेण इति-प्राप्ताविकल्पस्थितिर्यत्र
कुत्रचिद्ववधत्ते तत्रास्य तदैव शिवतापत्तिः स्यात्
॥२१०॥
तदाह
अविकल्पपथारूढो
येन येन पथा विशेत् ।
धरासदाशिवान्तेन
तेन तेन शिवीभवेत् ॥२११॥
एतदेव उदाहरति
निर्मले हृदये प्राग्य-
स्फुरद्भूम्यंशभासिनि ।
प्रकाशे तन्मुखेनैव
संवित्परशिवात्मता ॥२१२॥
पं० ५ क० ग० पु प्राप्तविकल्पस्थितिरिति पाठः ।
पं० १० ग० पु० पथा व्रजेदिति पाठः ।
पं० १४ क० ख० पु० प्राग्रस्फुरदिति पाठः ।
श्लोक २१३] प्रथमाह्निकम् । २३५
इह खलु निर्मले हृदये पूर्णाहंविमर्शात्मनि, अत
एव प्राग्र्यम् - आखण्ड्येन प्रकृष्टं कृत्वा, स्फुरद्भूमि-
लक्षणः तत्त्वान्तरापेक्षया अंशः - षट्त्रिंशो भागः,
तदाभासात्मनि प्रकाशे तद्भूम्यंशात्मनैव उपायेन
संवित्परशिवात्मता - तदावेशः स्यादित्यर्थः ॥२१२॥
एतदेव उपसंहरति
एवं परेच्छाशक्त्यंश-
सदुपायमिमं विदुः ।
शाम्भवाख्यं समावेशं
सुमत्यन्तेनिवासिनः ॥२१३॥
परा भट्टारिकारूपा च असौ इच्छाशक्तिः, तदा-
त्मकश्च असौ अंशः
'...........परं त्विच्छात्मकं मतम् ।'
इत्याद्युक्तेः शाक्ताद्यपेक्षया साक्षादुपायत्वात् संश्चासौ
उपायः तं, सुमत्यन्तेनिवासिनः इति - श्रीसोमदेवा-
पं० २ क० ख० पु० प्राग्रमाखण्ड्येनेति पाठः ।
पं० ४ क० पु० प्रकाशेन भूम्यंशात्मनैवेति पाठः ।
पं० ६ क० पु० तदेवोपपादयतीति पाठः ।
२३६ श्रीतन्त्रालोकः ।
दयः । श्रीसुमतिनाथस्य श्रीसोमदेवः शिष्यः, तस्य
श्रीशम्भुनाथः इति हि आयातिक्रमविदः । यद्व-
क्ष्यति
‘श्रीसोमतः सकलवित्किल शम्भुनाथः..............।’
इति । यत्तु
‘कश्चिद्दक्षिणभूमिपीठवसतिः श्रीमान्विभुर्भैरवः
पञ्चस्रोतसि सातिमार्गविभवे शास्त्रे विधाता च यः ।
लोकेऽभूत्सुमतिस्ततः समुद्भूत्तस्यैव शिष्याग्रणीः
श्रीमाञ्छम्भुरिति प्रसिद्धिमगमज्जालन्धरात्पीठतः ॥’
इत्यन्यत्रोक्तं, तत्परमगुर्वभिप्रायेणैव योज्यम् । यद्वा
‘यावानस्य हि सन्तानस्तावोनेको गुरुर्मतः ।’
इत्यादिवक्ष्यमाणनीत्यवलम्बनेन एतद्व्याख्येयम् । एवं
‘इति श्रीसुमतिप्रज्ञाचन्द्रिकापास्ततामसः ।
श्रीशम्भुनाथः सद्भावं जाग्रदादौ न्यरूपयत् ॥’
इत्यादावपि ज्ञेयम् ॥२१३॥
इदानीं शाम्भवमुपायं प्रतिपाद्य, शाक्तमप्याह
शाक्तोऽथ भण्यते चेतो-
धी-मनोहंकृति स्फुटम् ।
पं० ११ क० पु० यावान्यस्येति पाठः ।
पं० १३ ग० पु० चन्द्रिकाशान्ततामस इति पाठः ।
श्लोक २१४ ] प्रथमाह्निकम् । २३७
सविकल्पतया माया-
मयमिच्छादि वस्तुतः ॥२१४॥
एतच्चात्र न मनोमात्रम् इत्याह धीमनोऽहंकृति
इति । अत एव स्फुटं - साक्षादभिव्यक्तस्वरूपम्
इत्यर्थः । ततश्च
'सर्वे विकल्पः संसारः............।'
इत्यादिनीत्या भेदप्रथारूपम् इत्युक्तं - 'सविकल्पतया
मायामयम्' इति । एवमपि परमार्थतो यथायोगम्
एतदिच्छाज्ञानक्रियात्मकम् इत्युक्तम् 'इच्छादि-
वस्तुतः' इति । यथा खलु पतिरिच्छाद्याभिः शक्ति-
भिर्विश्वं निर्मिमीते तथैव विकल्पाद्यपि बुद्ध्याद्य-
न्तःकरणत्रयेण पशुरित्याशयः, विकल्पादौ हि प्रायः
क्षेत्रज्ञस्यैव स्वातन्त्र्यम्, तन्निर्माणं च एतत्रया-
धीनमेव इत्येवमुक्तम् ॥२१४॥
पं० ३ ग० पु० एतच्च नात्र मनोमात्रमिति पाठः ।
पं० ५ क० ग० पु० तश्चेति पाठः ।
पं० ११ क० पु० निर्मियते इति पाठः ।
पं० १३ ख० पु० क्षेत्रज्ञस्य हीति पाठः ।
२३८ श्रीतन्त्रालोकः ।
अत आह
अभिमानेन संकल्पा-
ध्यवसायक्रमेण यः ।
शाक्तः स मायोपायोऽपि
तदन्ते निर्विकल्पकः ॥२१५॥
इह हि स्वात्मनि अहङ्कारग्रहेण कर्तृत्वमभि-
मन्य बाह्यमेषणीयादि तद्तद्रूपतया संकल्प्य तदेव
च अन्यापोहेन निश्चित्य 'अहमेव सर्वत्र स्थितः'
'सर्वं वा मय्येव स्थितम्' इत्येवमात्मा यः शाक्तो
वैकल्पिकः प्रत्यय उदेति स यद्यपि विकल्पानां
भेदनिष्ठत्वात् मायात्मक उपायः तथापि तेषां
विकल्पानाम् अभ्यासबलेन यथायथं सातिशयवि-
कल्पजननात् अन्ते स्फुटतमार्थसाक्षात्कारात्मा
निर्विकल्पकः शाम्भवः समावेशः स्यात् इत्यर्थः ।
यद्वक्ष्यति
'अनन्तराह्णिकोक्तेऽस्मिन् स्वभावे पारमेश्वरे ।
प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥'
पं० ६ क० पु० अहङ्कारग्रहणकर्तृत्वेति पाठः ।
पं० ७ ख० पु० तदेवान्यापोहेति पाठः ।
पं० ६ क० पु० स्थितः एवं च मय्येवेति पाठः ।
श्लोक २१६ ] प्रथमाह्निकम् । २३६
इत्याद्युपक्रम्य
'ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता ।
संविद्भ्येति विमलामविकल्पस्वरूपताम् ॥'
इति । अत एव हि शाक्तोपायस्य उपायोपायत्व-
मुक्तम् ॥२१५॥
ननु अस्मदादेः सर्वस्यैव अयत्नोपनतः स्वार-
सिको निर्विकल्पकः प्रत्ययः स्थितः इति किंनाम तत्र
शाम्भवावेशरूपत्वमुक्तं, यदपि उपेयतया उपदिश्यते ?
इत्याशङ्क्याह
पशोर्वै याविकल्पा भू-
र्दशा सा शाम्भवी परम् ।
अपूर्णा मातृदौरात्म्या-
त्तदपाये विकस्वरा ॥२१६॥
सा इति अविकल्पा भूः । यदुक्तं
'तस्यां दशायामैश्वरो भावः पशोरपि।'
इति । यद्येवं तर्हि अत्र किमुपदेशादियत्नेन ?
इत्याह परमपूर्णा इति । संकुचितस्य हि मातुः
पं० ४ क० पु० शाक्तस्य उपायस्येति असमस्तः पाठः । ग० पु० शाक्तस्यो-
पायोपायत्वमिति ।
पं० १० क० पु० पशोर्यैवाविकल्पेति पाठः ।
२४० श्रीतन्त्रालोकः ।
संकुचिते एव ज्ञानक्रिये भवतः, इति कथं तत्रास्य
दुरात्मनः साक्षात् शाम्भवत्वं भवेत् इति भावः,
अत एव तस्य मातृदौरात्म्यस्य अपाये पूर्णतोल्लासे
सा शाम्भवी दशा विकस्वरा पूर्णज्ञत्वकर्तृत्वादिशा-
लिनी भवेत् इत्यर्थः, तेन संकुचितज्ञत्वकर्तृत्वाद्यप-
हस्तनपुरःसरं स्वात्मप्रत्यभिज्ञापनाथंम् अवश्यो-
पादेयोऽयम् उपदेशादियत्नः इति सिद्धम् ॥२१६॥
तदेव प्रकृते योजयति
एवं वैकल्पिकी भूमिः
शाक्ते कर्तृत्ववेदने ।
यस्यां स्फुटे परं त्वस्यां
संकोचः पूर्वनिर्तितः ॥२१७॥
तथा संकोचसंभार-
विलायनपरस्य तु ।
सा यथेष्टान्तराभास-
कारिणी शक्तिरुज्ज्वला ॥२१८॥
पं० २ क० पु० साक्षाच्छाम्भुत्वं भवेदिति भावः ।
पं० ११ ख० पु० यस्यां स्फुटमिति पाठः ।
पं० १४ ख० पु० विज्ञापनपरस्येति पाठः ।
श्लोक २१६ ] प्रथमाह्निकम् । २४१
इह सविकल्पज्ञानात्मनि शाक्तोपाये यद्यपि
निर्विकल्पापेक्षया स्फुटे ज्ञानक्रिये, तथापि मातृदौ-
रात्म्यात् ते संकुचित एव, इति अत्रापि उपदे-
शादियत्नेन अवश्यं भाव्यं, येन सर्वस्य तथा
संकोचविलायनपरतया सा शाक्ती भूः उज्ज्वला
विकस्वरा, यदियम् उपेयत्वेन अभीप्सितम् अन्तः
प्रमात्रैकात्म्यस्वभावम् आभासं करोति – परप्रमात्रे-
करूपतया स्फुरति इत्यर्थः ॥२१७॥२१८॥
ननु शाक्तस्य शाम्भवाद्विकल्पाविकल्परूपत्वेन
सिद्धो भेदः, विकल्पैकरूपात् पुनराणवादस्य कथं भेदः
स्यात् ? इत्याशङ्कां प्रदर्श्य, तयोरेव भेदमभिधत्ते ।
ननु वैकल्पिकी किं धी-
राणवे नास्ति तत्र सा ।
अन्योपायात्र तूच्चार-
रहितत्वं न्यरूपयत् ॥२१६॥
तत्र इत्यादिना समाधिः, अन्य इति उच्चारादयः ।
पं० ५ ख० पु० विलापनपरतयेति पाठः ।
पं० ७ ख० पु० परप्रमात्रैकात्म्यरूपेति पाठः ।
पं० १३ क० पु० यत्र सा इति पाठः ।
पं० १६ क० पु० अत्र इत्यादिनेति पाठः ।
३१
२४१ श्रीतन्त्रालोकः ।
आणवे हि उच्चारादि बाह्यमेव अवलम्ब्य वैकल्पि-
की बुद्धिरस्ति, अत्र शाक्ते पुनस्तद्रहितत्वेन इति
विशेषः, अत एव चेतसैव इति सावधारणं चिन्तन-
मात्रम् अत्रोक्तम् ॥२१६॥
नन्वत्र किमुच्चारमात्रेणैव रहितत्वम्, उत करणा-
दिभिरपि ? इत्याह
उच्चारशब्देनात्रोक्ता
बहन्तेन तदादयः ।
शक्त्युपाये न सन्त्येते
भेदाभेदौ हि शाक्तता ॥२२०॥
बहन्तेन इति बहुवचनादाद्यर्थो हि लभ्यते इति
भावः, तेन उच्चारैः रहितम् इति विग्रहो दर्शयि-
तव्यः । एते इति उच्चारकरणादयः । न सन्ति इति
भेदैकनिष्ठत्वादेषाम् । अत्र हि बाह्योच्चारादिरहित-
त्वात् अभेदस्य विकल्पात्मकत्वाच्च भेदस्यापि सं-
भवः इत्युभयमयत्वम्, तदाह 'भेदाभेदौ हि शाक्तता'
इति, आणवे पुनर्भेदस्यैव प्राधान्यम् ॥२२०॥
पं० ५ क० पु० उच्चारणामात्रेणैवेति पाठः ।
पं० ८ क० पु० बहन्तेनैतदादय इति पाठः ।
पं० १० क० पु० भेदाभेदौ चेति पाठः ।
श्लोक २२२] प्रथमाह्निकम् । २४३
तदाह
अणूनां स्फुटो भेद-
स्तदुपाय इहाणवः ।
विकल्पनिश्चयात्मैव
पर्यन्ते निर्विकल्पकः ॥२२१॥
पर्यन्ते निर्विकल्पकः इत्यनेन अस्यापि शाम्भव
एव विश्रान्तिरिति दर्शितम् ॥२२१॥
ननु
‘सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधो जुषः ।
शक्तौ समाविशेयुः’...................२०८
इत्याद्युक्तयुक्त्या बुद्ध्यादीनां शिवे व्याप्तिरेव
नास्ति इति कथमेषां तद्वाप्तावुपायत्वमपि उक्तम् ?
इत्याह
ननु धी-मानसाहंकृ-
त्पुमांसो व्याप्नुयुः शिवम् ।
नाधोवर्तितया तेन
कथितं कथमीदृशम् ॥२२२॥
एतदेव समाधत्ते
पं० १२ ग० पु० व्याप्नुयुश्चिरमिति पाठः ।
२४४ श्रीतन्त्रालोकः ।
उच्यते वस्तुतोऽस्माकं
शिव एव तथाविधः ।
स्वरूपगोपनं कृत्वा
स्वप्रकाशः पुनस्तथा ॥२२३॥
वस्तुतो हि शिव एव अस्माकम् अद्वैतवादिनां मते
'शिव एव गृहीतपशुभावः ।'
इत्याद्युक्तयुक्त्या स्वस्वातन्य्रमाहात्म्यादात्मानं प्र-
च्छाद्य तथाविधो बुद्ध्यादिरूपः परिमितः प्रमाता
स्यात्, स एव पुनः उद्वेष्टनयुक्त्या बुद्ध्याद्युपाया-
साधनक्रमेणैव तथा शिव एव स्वप्रकाशो भवति
इति शिवेऽपि बुद्ध्यादयो व्याप्रियेरन् नो वा इति
न कश्चिद्दोषः ॥२२३॥
न केवलमेतदद्वैतशास्त्रेषु उक्तं यावत् द्वैतशास्त्रेष्वपि
इत्याह
द्वैतशास्त्रे मतङ्गादौ
चाप्येतत्सुनिरूपितम् ।
अधोव्याप्तुः शिवस्यैव
स प्रकाशो व्यवस्थितः ॥२२४॥
पं० ६ ग० बुद्ध्याद्युपायसाधनेति पाठः ।
पं० १७ क० पु० प्रभोर्व्याप्तुरिति पाठः ।
श्लोक २२६ ] प्रथमाह्निकम् । २४५
येन बुद्धि-मनोभूमा-
वपि भाति परं पदम् ॥२२५॥
यदुक्तं तत्र
'इत्थं गुणवतस्तस्मात्तत्त्वात्तत्त्वमनिन्दितम् ।
स्फुरद्रश्मिसहस्राढ्यमधस्ताद्व्यापकं महत् ॥'
इति । एतदेव निगमयति 'अधोव्याप्तुः' इत्या-
दिना । स इति बुद्ध्यादिरूपः, येन इति बुद्ध्या-
दीनां शिवप्रकाशैकरूपत्वेन हेतुना ॥२२४॥२२५॥
एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह
द्वावप्येतौ समावेशौ
निर्विकल्पार्णवं प्रति ।
प्रयात एव तद्रूढिं
विना नैव हि किंचन ॥२२६॥
प्रतिः आभिमुख्ये, तेन एतदुभयमपि परप्रका-
शात्मनि शाम्भवावेशे एव विश्रान्तम् इत्यर्थः ।
यद्धि तत्र न विश्रान्तं तदप्रकाशमानत्वात् न
किंचित् स्यात् इत्युक्तं 'तद्रूढिं विना नैव हि किंचन'
पं० ६ क० पु० प्रभोर्व्याप्तुरिति पाठः ।
पं० १२ क० पु० विश्रान्तिरिति इति पाठः ।
२४६ श्रीतन्त्रालोकः ।
इति । एवं च निर्विकल्पात्मा परः प्रकाश एव
सर्वेषामेषामुपायः इत्युक्तं स्यात् ॥२२६॥
न चैतदस्मदुपज्ञमेव इत्याह
संवित्तिफलभिच्चात्र
न प्रकल्प्येत्यतोऽब्रवीत् ।
कल्पनायाश्च मुख्यत्व-
मत्रैव किल सूचितम् ॥२२७॥
अतः इति एकस्यामेव निर्विकल्पात्मिकायां संवि-
त्तौ अनुप्रवेशात् । तदुक्तं
'संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः ।'
इति । अत्र च उपायानां नानात्वात् प्राप्तं तावत्फ-
लभेदकल्पनम्, अन्यथा हि निषेधस्य प्राप्तिपूर्व-
त्वात् स एवात्र न स्यात् इति 'न प्रकल्प्या' इत्युक्त्या
एतदाक्षिप्तम् इत्याह - कल्पनाया इति । मुख्यत्वम्
इति अभिधेयत्वं । सूचितम् इति - न तु साक्षाद-
भिहितम् इति भावः ॥२२७॥
न केवलमिह निर्विकल्पके विश्रान्तिसतत्त्वं, याव-
दितो बाह्यानां मतेऽपि इत्याह
पं० १० ग० पु० संवित्तिः फलभेदेन न प्रकल्प्या मनीषिभिरिति पाठान्तरं च ।
श्लोक २२६] प्रथमाह्निकम् । २४७
विकल्पापेक्षया योऽपि
प्रामाण्यं प्राह तन्मते ।
तद्विकल्पक्रमोपात्त-
निर्विकल्पप्रमाणता ॥२२८॥
तस्य विकल्पापेक्षनिर्विकल्पप्रामाण्यवादिनो वैभा-
षिकादेः मतेऽपि, ते च ते विकल्पाः, तेषां यः क्रमः -
परम्परा, तया उपात्ता - जनिता, निर्विकल्पस्यैव
प्रमाणता - विकल्पोपारोहेण निर्विकल्प एव विश्रा-
न्तिः इत्यर्थः ॥२२८॥
एतदेव उदाहरति
रत्नतत्त्वमविद्वान्प्राङ्-
निश्चयोपायचर्चनात् ।
अनुपायाविकल्पाप्तौ
रत्नज्ञ इति भण्यते ॥२२६॥
यः कश्चन वैकटिकादिः आदौ अविकल्पवृत्त्या
रत्नस्वरूपमजानानोऽपि 'किमेवमस्य तत्त्वं न वा'
इत्यादिकल्पनामुखेन विचारमवलम्ब्य, अनुपायस्य
स्वारसिकस्य अविकल्पस्य उत्थाने रत्नज्ञः तद्विषय-
पं० १८ क० पु० रत्नज्ञस्तद्विषयमन्त्रनिर्विकल्पज्ञानम् इति ख० पु० तद्विषयो
मन्त्रेति पाठः ।