सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 243, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 243

श्लोक २१० ] । प्रथमाह्निकम् । २३३
अधोजुषः इति-ईश्वरादिकाः शक्तीः, तदिति
पूर्णस्वभावत्वसदाशिवत्वादेः व्यापकत्वाव्यापकत्वस्व-
भावत्वाद्धेतोः । पूर्णस्वभावे हि रूपे उपासन्नाः पूर्ण-
मेव भुक्तिमुक्तिलक्षणं फलम् आसादयन्ति, अपूर्ण-
स्वभावे पुनरपूर्णत्वमेव इत्युक्तम् 'उपासान्तिकदूरतः'
इति । अत एव च दर्शनभेदः ॥२०८॥२०९॥
ननु विकल्प एव तत्कल्पनाबलान्नियतः सामा-
न्यात्मा धर्मोऽवभासते इति तत्र तन्मुखेन धर्मिणि
अवभासो भवेत् इत्ययं क्रमः शाक्तोपाये स्यात्
न तु अखण्डवस्त्ववभासात्मनि निर्विकल्पकस्वभावे
शाम्भवे इति कथमिवैतदुक्तम् ? इत्याशङ्क्याह
इत्थं-भावे च शाक्ताख्यो
वैकल्पिकपथक्रमः ।
इह तूक्तो यतस्तस्मात्
प्रतियोग्यविकल्पकम् ॥२१०॥
पं० २ क० पु० शिवत्वादेः व्यापकस्वभावत्वाद्धेतोरिति पाठः ।
पं० १२ क० पु० शाक्ताख्ये इति पाठः ।
पं० १५ क० पु० योगाविकल्पनम् इति पाठः ।
३०