सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

२१० श्रीतन्त्रालोकः ।
शिवतादात्म्यमापन्ना
समावेशोऽत्र शांभवः ।
संवित्तिः अर्थात् संकुचितरूपा ॥ १७८ ॥
ननु अत्र उत्पत्तौ विकल्पापेक्षितत्वं मा भूत्
तथात्वे हि शाक्तोपायादस्य भेदो न स्यात्, औत्त-
रकालिकाः पुनर्विकल्पाः किमत्र अपेक्ष्यन्ते न वा ?
इत्याशङ्क्याह
तत्प्रसादात्पुनः पश्चा-
द्भाविनोऽत्र विनिश्चयाः ॥ १७६ ॥
सन्तु तादात्म्यमापन्ना
न तु तेषामुपायता ।
तच्छब्देन निर्विकल्पकपरामर्शः । अविकल्प-
कयैव संवित्त्या शिवात्मताधिगमः कृतः इति
कृतस्य करणायोगात् तत्पृष्ठभाविनां विकल्पानां
तत्र अकिंचित्करत्वम् इत्याह न तु 'तेषामुपायता'
इति ॥ १७६ ॥
पं० ४ ख० पु० विकल्पापेक्षत्वमिति पाठः ।
पं० ६ क० ख० पु० अपेक्षन्ते इति पाठः ।
पं० १३ क० पु० शिवात्मनाभिगम इति पाठः ।

श्लोक १८० ] प्रथमाह्निकम् । २११
अत एव च अविकल्पस्य विकल्पापेक्षं प्रामाण्यं
वदन्तो निरस्ताः इत्याह
विकल्पापेक्षया मान-
मविकल्पमिति ब्रुवन् ॥ १८० ॥
प्रत्युक्त एव सिद्धं हि
विकल्पेनानुगम्यते ।
अनधिगतार्थविषयं खलु प्रमाणम् । यदाहुः
‘अनधिगतविषयं प्रमाणम् अज्ञातार्थप्रकाशो वा ।’
इति । निर्विकल्पकगृहीतमेव वस्तु च तत्पृष्ठभावी
विकल्पः परिच्छिनत्ति इति, तस्य गृहीतग्राहकत्वात्
स्वात्मन्येव प्रामाण्यं नास्ति - इति कथमन्यस्यापि
प्रामाण्ये निमित्ततां यायात् । अत आह ‘सिद्धं हि
विकल्पेनानुगम्यते' इति । सिद्धम् इति अधिगतम् ।
अनुगम्यते इति अनु पश्चात् गम्यते अधिगम्यते
इत्यर्थः ॥ १८० ॥
ननु प्रवर्ततां नाम गृहीतेऽर्थे विकल्पः, तन्न
पुनरध्यवसायात्मकत्वादस्य ग्राहकत्वं न युज्यते
पं० ८ क० ख० पु० अज्ञातार्थविषयो वा इति पाठः ।

२१२ श्रीतन्त्रालोकः ।
इति 'गृहीतं गृह्णामि' इति प्रतिपत्तिरस्य कथं स्यात् ?
इत्याशङ्क्याह
गृहीतमिति सुस्पष्टा
निश्चयस्य यतः प्रथा ॥ १८१ ॥
गृह्णामीत्यविकल्पैक्य-
बलात्तु प्रतिपद्यते ।
गृहीतमिति प्रथा हि विकल्पस्य भावादौपपत्तकी-
गृहीत एवार्थे अस्य प्रवृत्तेः, यत्तु गृह्णामि इति प्रति-
पद्यते तत् दृश्यविकल्प्यार्थैकीकारादिना निर्विकल्पकै-
कात्म्यावलम्बनबलात् इति युक्तमुक्तं 'विकल्पेन
गृहीतं गृह्यते' इति ॥ १८१ ॥
ननु ज्ञानं खलु ज्ञापकं न तु कारकम् इति, तेन
वस्तुनो ज्ञप्तिः स्यात् न तु सिद्धिः इति कथमुक्तं
'सिद्धं विकल्पेनानुगम्यते' ? इत्याशङ्क्याह
अविकल्पात्मसंवित्तौ
या स्फुरत्तैव वस्तुनः ॥ १८२ ॥
पं० ४ ग० पु० यथा प्रथेति पाठः ।
पं० ७ क० पु० प्रथा हि विकल्पभावादौ प्रतिपत्तिगृहीत एवार्थे इति पाठः ।
पं० ८ क० पु० अस्याः प्रवृत्तेर्यत्तु गृह्णामीत्यविकल्पैकबलात्तं प्रतीति पाठः ।

श्लोक १८३ ] प्रथमाह्निकम् । २१३
सा सिद्धिर्न विकल्पात्तु
वस्त्वपेक्षाविवर्जितात् ।
आभासवादे हि आभासमानतैव सिद्धिः इत्युक्तं
स्फुरत्तैव वस्तुनः सिद्धिः । ननु विकल्पानामपि
स्वात्मनि अविकल्पकत्वात् स्फुरद्रूपता अस्ति इति
किमिति न ततोऽपि वस्तुनः सिद्धिः स्यात्? इत्या-
शङ्क्याह 'न विकल्पात्' इति, 'सर्वो विकल्पः स्मृतिः'
इति नीत्या विकल्पानां तावत् स्मृतिरेव रूपं, सा च
असंनिहिते पूर्वानुभूत एव अर्थे प्रवर्तते इति विक-
ल्पानां वस्त्वनपेक्षितत्वं, यद्यपि च स्वतन्त्रविकल्पादौ
क्षेत्रज्ञनिर्मितानां योजनास्ति तथपि पूर्वानुभवसं-
स्कारजा एव तेऽर्थाः इत्युक्तं 'वस्त्वपेक्षाविवर्जितात्'
इति । यस्य च यदपेक्षा नास्ति स कथं तत्सिद्धौ
निमित्ततां यायात् इति भावः ॥ १८२ ॥
यद्येवं निर्विकल्पकसिद्ध एव अर्थे विकल्पः प्रव-
र्तते न अधिकं किंचित्करोति तत्किमिति तेन स
क्वचिदपेक्ष्यते इत्याह
केवलं संविदः सोऽयं
नैर्मल्येतरविभ्रमः ॥१८३॥

२१४ श्रीतन्त्रालोकः ।
यद्विकल्पानपेक्षत्व-
सापेक्षत्वे निजात्मनि ॥
एवं संविदः सर्ववादिसिद्धं व्यवहारादौ विकल्प-
सापेक्षत्वं परिहृत्य विकल्पानपेक्षत्वमेव स्फुटीकर्तु-
मुदाहरति
निशीथेऽपि मणिज्ञानी
विद्युत्कालप्रदर्शितान् ॥१८४॥
तांस्तान्विशेषांश्चिनुते
रत्नानां भूयसामपि ॥
वैकटिको हि अचिरस्थायिनि परिमितेऽपि
आलोके भूयसामपि रत्नानाम् अतिसूक्ष्मान् परस्पर-
विशेषान् अवसायं विनापि अनुभवातिशयादेव
जानीते, येन 'इदमल्पम्, इदं महत्,' इदमितोऽपि
महद्रत्नम्' इत्यस्य विवेकः स्यात् ॥ १८४ ॥
किं चात्र अनुभवातिशये निमित्तं, येन विकल्प-
नैरपेक्ष्येणापि वस्तुनः सिद्धिः स्यात् ? इत्याह
नैर्मल्यं संविदश्चेदं
पूर्वाभ्यासवशादथो ॥ १८५ ॥

श्लोक १८६ ] प्रथमाह्निकम् । २१५
अनियन्त्रेश्वरेच्छात्त
इत्येतच्चर्चयिष्यते ।
पूर्वाभ्यासो जन्मान्तरीयः इति, अत एव चर्चयि-
ष्यते त्रयोदशाह्निकादौ ॥ १८५ ॥
न केवलमस्य आवेशस्य त्रैविध्यमेव अस्ति,
यावद्वान्तरप्रकारत्वमपि इत्याह
पञ्चाशद्विधता चास्य
समावेशस्य वर्णिता ॥ १८६ ॥
तत्त्वषट्त्रिंशकैतत्स्थ-
स्फुटभेदाभिसन्धितः ।
वर्णिता इति श्रीपूर्वशास्त्रे । यदुक्तं तत्र
'रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते ।
भूततत्त्वात्ममन्त्रेशशक्तिभेदाद्वरानने ॥
पञ्चधा भूतसंज्ञोऽत्र त्रिंशद्धा तु तथापरः ।
आत्माख्यस्त्रिविधः प्रोक्तो दशधा मन्त्रसंज्ञकः ॥
द्विविधः शक्तिसंज्ञोऽपि ज्ञातव्यः परमार्थतः ।
पञ्चाशद्भेदभिन्नोऽयं समावेशः प्रकीर्तितः ॥'
पं० ५ ग० पु० अस्याविशेषस्य इति पाठान्तरं च ।
पं० ६ ख० पु० प्रकारत्वमेवाहेति पाठः ।

२१६ श्रीतन्त्रालोकः ।
इति । अत्र च हेतुः - तत्त्व इति । तत्त्वषट्त्रिंशकं च
एतत्स्थानि तत्त्वषट्त्रिंशन्मध्यपतितानि पुमादीनि
पृथग्व्याख्यास्यमानानि तत्त्वानि च, तेषां यो
वक्ष्यमाणप्रकारः स्फुटो भेदः तस्य अनुसंधा-
नम् ॥१८६॥
तमेव भेदं निरूपयति
एतत्तत्त्वान्तरे यत्पुं-
विद्याशक्त्यात्मकं त्रयम् ॥१८७॥
अम्भोधिकाष्ठाज्वलन-
संख्यैर्भेदैर्यतः क्रमात् ।
तद्भिन्नम् इत्यध्याहारः, अतस्तत्र पुमान्
' आत्मा चतुर्विधो ज्ञेयः । '
इत्याद्युक्त्या अम्भोधिभिः - सकलप्रलयाकल-
विज्ञानाकलशुद्धलक्षणैः चतुर्भिः भेदैर्भिन्नः, तथा
विद्या काष्ठाभिः - वर्णबिन्द्वर्धचन्द्रनिरोधिनीनादना-
दान्तशक्तिव्यापिनीसमनोन्मनात्मभिर्दशभिः भेदै-
र्भिन्ना, तथा शक्तिः ज्वलनैः - इच्छाज्ञानक्रिया-
त्मभिः त्रिभिर्भेदैः ॥१८७॥
पं० १ ख० पु० अत्रैव हेतुरिति पाठः ।

श्लोक १९८ ] प्रथमाह्निकम् । २१७
ननु किमिति इदमेव तत्त्वत्रयं भेदेन निर्दिष्टम् ?
इत्याशङ्क्याह
पुंविद्याशक्तिसंज्ञं य-
तत्सर्वव्यापकं यतः ॥१९८॥
अव्यापकेभ्यस्तेनेदं
भेदेन गणितं किल ।
अव्यापकेभ्यः इति व्याप्येभ्यस्तत्त्वान्तरेभ्यः
इत्यर्थः । मायान्तं हि आत्मतत्त्वस्य, सदाशिवान्तं
विद्यातत्त्वस्य, शिवान्तं च शक्तितत्त्वस्य व्याप्तिः ।
यदुक्तं
'माया-सदाशिव-शिवप्रान्तव्याप्तयो ननु क्रमात् ।'
इति ॥१९८॥
न केवलमेतत् तत्त्वान्तरेभ्यो भिद्यते, यावदन्यो-
न्यमपि इत्याह
अशुद्धिशुद्ध्यमानत्व-
शुद्धितस्तु मिथोऽपि तत् ॥१९६॥
पुमान् अशुद्धो — भेदमयत्वात्, विद्या शुद्ध्यमाना—
पं० ११ ख० पु० व्याप्तीन्यनुक्रमादिति पाठः ।
२८

२१८ श्रीतन्त्रालोकः ।
भेदाभेदमयत्वात्, शुद्धा शक्तिः-अभेदमयत्वा
त् ॥१८६॥
ननु अस्तु एवं, भूतानां पुनः पृथक् निर्देशे किं-
निमित्तम् ? इत्याशङ्क्याह
भूतान्यध्यक्षसिद्धानि
कार्यहेत्वनुमेयतः ।
तत्त्ववर्गात्पृथग्भूत-
समाख्यान्यत एव हि ॥१९०॥
भूतानि तावत् प्रत्यक्षसिद्धानि इति, तदेव एषां
तत्त्वान्तरेभ्यो भेदेन उपादाने निमित्तं, तानि हि
नित्यानुमेयान्येव, तदाह 'कार्यहेत्वनुमेयतः तत्त्व-
वर्गात्' इति । तथा चात्र भूतानि कारणपूर्वकाणि
अचैतन्ये सति अनेकसंख्यायोगित्वात् घटादिवत्
इत्यनुमानम् । यच्चैषां कारणं तानि
‘तन्मात्रेभ्यश्च भूतानि .............।’
इत्याद्युक्तेः तन्मात्राणि इति, स्वकार्येभ्यो भूतेभ्य
एषाम् अनुमेयत्वम् । एवम् अनेनैव अनुमानेन मा-
यान्तः सकलतत्त्ववर्गोऽनुमातव्यः । एतच्च तत्त्वाध्वनि

श्लोक १६१ ] प्रथमाह्निकम् । २१६
भविष्यति इति नेहायस्तम् । अत एव इति प्रत्यक्ष-
सिद्धत्वात् ॥१६०॥
ननु भूतानां प्रत्यक्षसिद्धत्वम् अनुमेयात् तत्त्व-
वर्गात् पृथक्त्वेऽस्तु निमित्तं, कथं पुनर्भूतत्वेऽपि
तदेव ? इत्याशङ्क्याह
सर्वप्रतीतिसद्भाव-
गोचरं भूतमेव हि ।
विदुश्चतुष्टये चात्र
सावकाशे तदास्थितिम् ॥१६१॥
सर्वेषां विदुषामविदुषां वा प्रतीतौ सता पारमा-
र्थिकेन सत्ताया गोचरमेव हि भूतम् उच्यते । भूतं
हि सत्यं, तच्च सत्यं, यत्र न कदाचिदपि कस्यचि-
दपि विप्रतिपत्तिः, अनुमेये पुनरविदुषां तावत् प्रती-
तिर्नास्त्येव, विदुषां च प्रतीतावपि बहुप्रकारं परस्परं
विप्रतिपत्तिः इति तत्र असत्यत्वसंभावनापि भवेत्
इति भावः । चो हेतौ, अतश्च सर्व एवात्र अव-
काशः तद्धातृत्वादाकाशः, तत्सहिते वाय्वन्ते चतुष्टये
प० १७ ग० पु० तत्तादृक्त्वादाकाश इति पाठान्तरं च वर्तते ।

२२० श्रीतन्त्रालोकः ।
पृथिव्यादिभूतपञ्चके सर्वप्रतीतिसद्भावगोचरत्वात्
तस्य भूतत्वस्य आस्थितिम् अवस्थानं विदुः इति
युक्तमुक्तं 'भूतसमाख्यान्यत एव' इति । एवं भौत
आवेशः पञ्चधा, आत्मावेशश्च त्रिधा । एकोऽपि
पुंस्तत्त्वरूप आत्मभेदः तत्त्वमध्येऽवस्थाप्यः, अ-
न्यथा हि तात्त्व आवेशः त्रिंशद्धा न स्यात् । विद्या-
याश्च समनन्तरोक्तेन सामान्यात्मना मान्त्रेण रूपेण
दशधावेशः । विशिष्टेन तु मन्त्र-मन्त्रेश-मन्त्रमहे-
शात्मना रूपेण अस्यास्तत्त्वमध्ये परिगणनम् । एवं
शक्तेरपि एकं भेदं तत्त्वमध्ये व्यवस्थाप्य तदीय आ
वेशो द्विधा । शिवस्तु समावेश्य एव इति न तत्रा-
वेशोऽस्ति - तस्य परमाद्वयस्वभावत्वात्, तदपेक्षया
समावेश्यसमावेशकलक्षणभेदानुपपत्तेः तद्युक्तमुक्त-
म् 'अस्य समावेशस्य पञ्चाशद्विधत्वम्' इति ॥१६१॥
ननु श्रीपूर्वशास्त्रे रुद्रशक्तिसमावेशस्य पञ्चधात्व-
चर्चनं प्रतिज्ञाय भूतादीनां स्वरूपनिरूपणं कृतम्?
इत्याह ।
प० २ क० ख० पु० भूततत्त्वस्थितिमिति पाठः ।
प० १० ग० पु० तत्त्वमध्ये अवस्थापि इति पाठः ।

श्लोक १६३ ] प्रथमाह्निकम् । २२१
रुद्रशक्तिसमावेशः
पञ्चधा ननु चर्च्यते ।
कोऽवकाशो भवेत्तत्र
भौतावेशादिवर्णने ॥१६२॥
प्रसंगादेतदितिचे-
त्समाधिः संभवन्नयम् ।
नास्माकं मानसावर्जी
लोको भिन्नरुचिर्यतः ॥१६३॥
कोऽवकाश इति—भौतावेशादीनाम् अप्रस्तुतत्वात्,
इदमेव हि तदप्रस्तुताभिधानं यदन्यदुपक्रम्य अन्य-
दभिधीयते इत्यतश्चोदितं 'कोऽवकाशो भौतावेशा-
दिवर्णने' इति । अथ रुद्रशक्तिसमावेशवर्णने प्रति-
ज्ञातेऽपि प्रसंगादेतदुक्तम्, इति पुनस्तदप्ययुक्तम्
इत्याह 'प्रसंगादेतत्' इति । निर्णीतप्राये प्रक्रान्तेऽर्थे
यत्किंचिदनुषक्तत्वेन अप्रकृतम् अभिधीयते तत्रायं
समाधिः 'प्रसंगादेतदुक्तम्' इति । इह तु उद्दिष्टेऽपि
प्रकृते लक्षणपरीक्षादि अनुक्त्वैव भूतावेशादीनाम्
पं० ११ ख० ग० पु० भौताद्यावेशवर्णने इति पाठः ।
पं० १२ ग० पु० प्रस्तुतेऽपि प्रसङ्गादित्युक्तम् ।

२२२ श्रीतन्त्रालोकः ।
आकस्मिकमेव अभिधानं कृतम् इति को नामायं
प्रसंगः । एवं हि अप्राकरणिकानां प्रमेयाणामान-
न्त्यात् अनन्तान्तरङ्गप्रमेयप्रतिपादनप्रसंगः स्यात् ?
इत्युक्तं 'नास्माकं मानसावर्जी' इति ॥ १६२ ॥ १६३॥
यद्येवं तर्हि किं प्रतिपत्तव्यम् ? इत्याह
उच्यते द्वैतशास्त्रेषु
परमेशाद्विभेदिता ।
भूतादीनां यथा सात्र
न तथा द्वयवर्जिते ॥१६४॥
अत्र इति अद्वयशास्त्रे श्रीश्रीपूर्वे। सा इति विभि-
न्नता । तन्निषेधे तु द्वयवर्जितत्वं हेतुः ॥१६४॥
ततश्च किं स्यात् ? इत्याशङ्क्याह
यावान्षट्त्रिंशकः सोऽयं
यदन्यदपि किंचन ।
एतावती महादेवी
रुद्रशक्तिरनर्गला ॥१६५॥
अन्यत् इति-तद्भेदा एव भुवनाद्याः । अनर्गला
इति-व्यापकत्वादप्रतिहता इत्यर्थः । यदुक्तं

श्लोक १६६ ] प्रथमाह्निकम् । २२३
'तच्छक्तिचक्रात्मकमेव विश्वं
ग्राह्यग्रहीतृग्रहणात्मनैतत् ।
अन्तादिमध्येषु सदा विभाति
नान्यन्तभिन्नं भवतोऽस्ति किंचित् ॥'
इति ॥१६५॥
एतच्च तत्रत्येनैव अर्थेन संवादयति
तत एव द्वितीयेऽस्मि-
न्नधिकारे न्यरूप्यत ।
धरादेर्विश्वरूपत्वं
पाञ्चदश्यादिभेदतः ॥१६६॥
तत एव इति - रुद्रशक्तेरेव तावत्स्फाररूपत्वात् ।
अस्मिन् इति - श्रीपूर्वशास्त्रे । यदुक्तं तत्रैव
'शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते ।
स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा ॥'
इत्यादि
...........'शिवः साक्षान्न भिद्यते ।'
इत्यन्तम् । एतच्च तत्त्वभेदने भविष्यति, इति
ग्रन्थविस्तरभयात् नेह आयस्तम् ॥१६६॥
ननु यद्येवं तर्हि रुद्रशक्तावेवं-समावेशोऽभिधीयतां
किं भूताद्यावेशेन इति स एव दोषः ? इत्याशङ्कां

२२४ श्रीतन्त्रालोकः ।
गर्भीकृत्य, एतदेव उपसंहारभङ्ग्या दृष्टान्तं दर्शयन्
उपपादयति
तस्माद्यथा पुरःस्थेऽर्थे
गुणाद्यंशांशिकामुखात् ।
निरंशभावसंबोध-
स्तथैवात्रापि बुध्यताम् ॥१६७॥
यथा संनिहिते घटादौ अर्थे लौहित्याद्यंशाभास-
द्वारेण अनेकसामान्याभाससंमेलनात्मनो निरंशस्य
अखण्डस्य अर्थस्य सम्यक् स्वालक्षण्येन बोधो भवेत्
तथैव अत्रापि भूताद्यंशमुखेन निखिलरुद्रशक्त्य-
वभासः इत्यधिगन्तव्यम् ॥१६७॥
एवमपि किं स्यात् ? इत्याशङ्क्याह
अत एवाविकल्पत्व-
ध्रौव्यप्राभववैभवैः ।
अन्यैर्वा शक्तिरूपत्वा-
द्धर्मैः स्वसमवायिभिः ॥१६८॥
सर्वशोऽप्यथ वांशेन
तं विभुं परमेश्वरम् ।
पं० १३ क० पु० अत एव विकल्पेति पाठः ।

श्लोक २०० ] प्रथमाह्निकम् । २१५
उपासते विकल्पौघ-
संस्काराद्ये श्रुतोत्थितात् ॥१६६॥
ते तत्तत्स्वविकल्पान्तः-
स्फुरद्धर्मपाटवात् ।
धर्मिणं पूर्णधर्मौघ-
मभेदेनाधिशेरते ॥२००॥
अत एव इति - धर्ममात्रावगममुखेन धर्मिण्यव-
गमात् । ध्रुवस्य भावो ध्रौव्यं - नित्यत्वम् । अन्यैः
इति - पूर्णत्वादिभिः, स्वसमवायिभिः इति - शक्ति-
रूपत्वादभिन्नैरित्यर्थः । ये केचन श्रुतचिन्ताद्युत्थि-
ततत्तन्नियतधर्मविषयस्य विकल्पौघस्य संस्कारम्
अवलम्ब्य परमेश्वरं समनन्तरोद्दिष्टाभिः सर्वाभिरेव
शक्तिभिः एकयैव वा शक्त्या समाविशन्ति, ते
समाविष्टाः सन्तः, ते ते ये विकल्पाः तेषाम् अन्तः
स्वाकारतया स्फुरन्तः, ते नियता अनियता वा
धर्माः शक्तयः, तेषां पाटवं प्रबोधः, तदाश्रित्य
पूर्णधर्मौघम् अनन्तशक्तिखचितत्वेन पूर्णस्वभावं
पं० ३ ख० पु० तेन तत्स्वविकल्पेति पाठः ।
२६

२२६ श्रीतन्त्रालोकः ।
धर्मिणं शक्तिमन्तं परमेश्वरम् अभेदेन अधिशेरते -
तद्रूपतया स्फुरन्ति इत्यर्थः ॥१९८॥१९६॥२००॥
ननु एकस्यापि नानाविधधर्मयोगिनोऽर्थस्य आ-
खण्ड्येनैव प्रतीतिगोचरीभावः संभवति न तु
इतरथा इति किमेतदुक्तम् ? इत्याशङ्काशान्त्यर्थम्
एतदेव संवादयति
ऊचिवानत एव श्री-
विद्याधिपतिरादरात् ।
तदेव पठति
त्वत्स्वरूपमविकल्पमत्तजा
कल्पने न विषयीकरोति चेत् ।
अन्तरुल्लिखितचित्रसंविदो
नो भवेयुरनुभूतयः स्फुटाः ॥२०१॥
यदि नाम ऐन्द्रियकी निर्विकल्पप्रतीतिः अवि-
कल्पम् - अविभागमपि त्वत्स्वरूपं, कल्पने नियत-
पं० ३ क० पु० अखण्डेनैवेति पाठः ।
पं० ११ क० पु० कल्पनमिति पाठः ।
पं० १३ क० पु० बभूवुरिति पाठः ।
पं० १४ क० पु० त्वत्स्वरूपकल्पने इति समस्तः पाठः ।

श्लोक २०२ ] प्रथमाह्निकम् । २२७
तत्तद्धर्मविषयत्वेन भेदनमवलम्ब्य न विषयीकुर्यात्
तत् स्फुटा-नियतैकतरधर्मावभासमुखेन धर्मिस्वरू-
पावभासमय्यः, अन्तः-अस्फुटाकारत्वेन, उल्लिखिताः
चित्राः-अवान्तरनानाधर्मविषयाः संविदो यासां
ताः, एवंविधाः अनुभूतयः-अनुभवा, नो भवेयुः न
उत्पद्येरन् इत्यर्थः । यदि हि सर्वधर्माक्रान्त्या धर्मि-
णि सर्वे अनुभवाः स्युः तत् परिव्राडित्यादौ एकै-
कस्यापि तिस्रः कल्पना भवेयुः, तेन स्वेच्छावशात्,
अर्थित्वानुरोधाद्वा, नैपुण्याद्वा प्रतिप्रमातृनियत-
धर्मावभासमुखेनैव धर्मिण्यवभासो भवेत् न तु
इतरथा इति युक्तम्-एकतरशक्त्यवभासमुखेन अन-
न्तशक्तावपि परमेश्वरेऽवभासः इति ॥२०१॥
एतच्च न केवलं युक्त्या सिद्धं यावदागमेनापि
इत्याह
तदुक्तं श्रीमतङ्गादौ
स्वशक्ति किरणात्मकम् ।
अथ पत्युरधिष्ठान-
मित्याद्युक्तं विशेषणैः ॥२०२॥
पं० ११ क० पु० शक्त्यवभासेनानन्तशक्ताविति पाठः ।

३२८ श्रीतन्त्रालोकः।
तस्यां दिवि सुदीप्तात्मा
निष्कम्पोऽचलमूर्तिमान् ।
काष्ठा सैव परा सूक्ष्मा
सर्वदिक्कामृतात्मिका ॥२०३॥
प्रध्वस्तावरणा शान्ता
वस्तुमात्रातिलालसा ।
आद्यन्तोपरता साध्वी
मूर्तित्वेनोपचर्यते ॥२०४॥
स्वशक्तिकिरणात्मकं यद्वस्तु तत् 'पत्युरधिष्ठानम्'
इत्यादिभिः विशेषणैः अर्थात् विशिष्टमुक्तम् इति
संबन्धः। 'अथ पत्युरधिष्ठानं स्वशक्तिकिरणात्मकम्।'
इत्येवं-पाठ ऐशः, ग्रन्थकृता पुनरेवं विध्यनुवादभाव-
दर्शनार्थम् अन्यथा पाठः कृतः, तान्येव विशेषणानि
दर्शयितुं 'तस्याम्' इत्यादि 'उपचर्यते' इत्यन्तमागमः
पठितः, स्वा अनन्यसाधारणा याः शक्तयः ता एव
अभिन्नत्वप्रकाशत्वानन्त्यादिना किरणा रश्मयः
पं० १२ क० पु० मौलः, ग० पु० पाठान्तरात्मा पुनरेवंविधानुभवदर्शनार्थ-
मिति पाठः।

श्लोक २०४ ] प्रथमाह्निकम् २२६
तदात्मकं, पत्युः – शक्तिमतः, अधिष्ठानम् – अभिव्य-
क्तिस्थानम् इत्यर्थः। शक्तिरेव तज्ज्ञतावुपायः, यदुक्तं
'यथालोकेन दीपस्य किरणैर्भास्करस्य वा।
ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये ॥'
इति । अत एव तस्यां शक्तौ, दिवि द्योतमानायां,
सोऽपि सुष्ठु दीप्तात्मा – महाप्रकाशवपुः, अत एव
निष्कम्पः – स्वस्मिन्नेव रूपे अवस्थितः, तस्य हि प्र-
काशात्मनः स्वरूपात्प्रच्यावे सर्वमिदम् अन्धं स्यात्,
अत एव च अचलया – महाप्रकाशमय्या प्रशस्यया
मूर्त्या युक्तः, यतश्च तस्यामेवं-विधायाम् अयमेवं-
विधः, ततः सैव परा काष्ठा लोकोत्तरा विश्रान्तिभूः,
अत एव सूक्ष्मा परिच्छेत्तुमशक्या – परप्रमात्रे-
करूपत्वात्, अत एव वस्तुमात्रे पारमार्थिके
रूपे अतिशयेन लालसा – तत्स्फुरत्तात्मिका इति
यावत् । एवं च प्रकर्षेण निःसंस्कारतया ध्वस्तानि
बाह्यावरणानि यया सा प्रशान्तभेदा इत्यर्थः,
अत एव शान्ता चिन्मात्ररूपा इत्यर्थः । एवमपि
पं० ५ ख० ग० पु० शक्तौ विद्योतमानायामिति पाठः ।
पं० ८ ख० पु० सर्वमिदमेतदिति पाठः ।
पं० ९ क० पु० अत एवाचञ्चलयेति पाठः ।