तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 232, कुल 368 में से
संदर्भ में पढ़ें२२२ श्रीतन्त्रालोकः ।
आकस्मिकमेव अभिधानं कृतम् इति को नामायं
प्रसंगः । एवं हि अप्राकरणिकानां प्रमेयाणामान-
न्त्यात् अनन्तान्तरङ्गप्रमेयप्रतिपादनप्रसंगः स्यात् ?
इत्युक्तं 'नास्माकं मानसावर्जी' इति ॥ १६२ ॥ १६३॥
यद्येवं तर्हि किं प्रतिपत्तव्यम् ? इत्याह
उच्यते द्वैतशास्त्रेषु
परमेशाद्विभेदिता ।
भूतादीनां यथा सात्र
न तथा द्वयवर्जिते ॥१६४॥
अत्र इति अद्वयशास्त्रे श्रीश्रीपूर्वे। सा इति विभि-
न्नता । तन्निषेधे तु द्वयवर्जितत्वं हेतुः ॥१६४॥
ततश्च किं स्यात् ? इत्याशङ्क्याह
यावान्षट्त्रिंशकः सोऽयं
यदन्यदपि किंचन ।
एतावती महादेवी
रुद्रशक्तिरनर्गला ॥१६५॥
अन्यत् इति-तद्भेदा एव भुवनाद्याः । अनर्गला
इति-व्यापकत्वादप्रतिहता इत्यर्थः । यदुक्तं