सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 225, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 225

श्लोक १८६ ] प्रथमाह्निकम् । २१५
अनियन्त्रेश्वरेच्छात्त
इत्येतच्चर्चयिष्यते ।
पूर्वाभ्यासो जन्मान्तरीयः इति, अत एव चर्चयि-
ष्यते त्रयोदशाह्निकादौ ॥ १८५ ॥
न केवलमस्य आवेशस्य त्रैविध्यमेव अस्ति,
यावद्वान्तरप्रकारत्वमपि इत्याह
पञ्चाशद्विधता चास्य
समावेशस्य वर्णिता ॥ १८६ ॥
तत्त्वषट्त्रिंशकैतत्स्थ-
स्फुटभेदाभिसन्धितः ।
वर्णिता इति श्रीपूर्वशास्त्रे । यदुक्तं तत्र
'रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते ।
भूततत्त्वात्ममन्त्रेशशक्तिभेदाद्वरानने ॥
पञ्चधा भूतसंज्ञोऽत्र त्रिंशद्धा तु तथापरः ।
आत्माख्यस्त्रिविधः प्रोक्तो दशधा मन्त्रसंज्ञकः ॥
द्विविधः शक्तिसंज्ञोऽपि ज्ञातव्यः परमार्थतः ।
पञ्चाशद्भेदभिन्नोऽयं समावेशः प्रकीर्तितः ॥'
पं० ५ ग० पु० अस्याविशेषस्य इति पाठान्तरं च ।
पं० ६ ख० पु० प्रकारत्वमेवाहेति पाठः ।