तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 227, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १९८ ] प्रथमाह्निकम् । २१७
ननु किमिति इदमेव तत्त्वत्रयं भेदेन निर्दिष्टम् ?
इत्याशङ्क्याह
पुंविद्याशक्तिसंज्ञं य-
तत्सर्वव्यापकं यतः ॥१९८॥
अव्यापकेभ्यस्तेनेदं
भेदेन गणितं किल ।
अव्यापकेभ्यः इति व्याप्येभ्यस्तत्त्वान्तरेभ्यः
इत्यर्थः । मायान्तं हि आत्मतत्त्वस्य, सदाशिवान्तं
विद्यातत्त्वस्य, शिवान्तं च शक्तितत्त्वस्य व्याप्तिः ।
यदुक्तं
'माया-सदाशिव-शिवप्रान्तव्याप्तयो ननु क्रमात् ।'
इति ॥१९८॥
न केवलमेतत् तत्त्वान्तरेभ्यो भिद्यते, यावदन्यो-
न्यमपि इत्याह
अशुद्धिशुद्ध्यमानत्व-
शुद्धितस्तु मिथोऽपि तत् ॥१९६॥
पुमान् अशुद्धो — भेदमयत्वात्, विद्या शुद्ध्यमाना—
पं० ११ ख० पु० व्याप्तीन्यनुक्रमादिति पाठः ।
२८