तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 226, कुल 368 में से
संदर्भ में पढ़ें२१६ श्रीतन्त्रालोकः ।
इति । अत्र च हेतुः - तत्त्व इति । तत्त्वषट्त्रिंशकं च
एतत्स्थानि तत्त्वषट्त्रिंशन्मध्यपतितानि पुमादीनि
पृथग्व्याख्यास्यमानानि तत्त्वानि च, तेषां यो
वक्ष्यमाणप्रकारः स्फुटो भेदः तस्य अनुसंधा-
नम् ॥१८६॥
तमेव भेदं निरूपयति
एतत्तत्त्वान्तरे यत्पुं-
विद्याशक्त्यात्मकं त्रयम् ॥१८७॥
अम्भोधिकाष्ठाज्वलन-
संख्यैर्भेदैर्यतः क्रमात् ।
तद्भिन्नम् इत्यध्याहारः, अतस्तत्र पुमान्
' आत्मा चतुर्विधो ज्ञेयः । '
इत्याद्युक्त्या अम्भोधिभिः - सकलप्रलयाकल-
विज्ञानाकलशुद्धलक्षणैः चतुर्भिः भेदैर्भिन्नः, तथा
विद्या काष्ठाभिः - वर्णबिन्द्वर्धचन्द्रनिरोधिनीनादना-
दान्तशक्तिव्यापिनीसमनोन्मनात्मभिर्दशभिः भेदै-
र्भिन्ना, तथा शक्तिः ज्वलनैः - इच्छाज्ञानक्रिया-
त्मभिः त्रिभिर्भेदैः ॥१८७॥
पं० १ ख० पु० अत्रैव हेतुरिति पाठः ।