तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
१६२ श्रीतन्त्रालोकः ।
ततः इति क्रियाया ज्ञानात्मकत्वात् । तेन
'दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ।'
इत्यादिना क्रियाया अपि अपवर्गनिमित्तत्वमुक्तम् ।
एवं च युक्तमुक्तं 'ज्ञानं मोक्षैककारणम्' इति ।
तदाह 'युक्तं चैतदुदाहृतम्' इति ॥१५५॥
ननु 'स्वतन्त्रात्मातिरिक्तस्तु' इत्यादिना प्राक्
आत्मज्ञानातिरिक्तो मोक्षो नाम न कश्चिदस्ति
इत्युक्तम्, इति ज्ञानमेव विमोक्षाय इत्यनेन हेतुफल-
भावोऽनयोरुच्यमानः कथं संगच्छते ? इत्याशङ्क्याह
मोक्षो हि नाम नैवान्यः
स्वरूपप्रथनं हि सः ।
स्वरूपं चात्मनः संवि-
न्नान्यत्तत्र तु याः पुनः ॥ १५६ ॥
क्रियादिकाः शक्तयस्ताः
संविद्रूपाधिका नहि ।
असंविद्रूपतायोगा-
द्धर्मिणश्चानिरूपणात् ॥ १५७ ॥
पं० १ क० पु० क्रियाया अपवर्गेति अपि शब्दहीनः पाठः ।
पं० १४ क० पु० क्रियाधिकाः शक्तय इति पाठः ।
श्लोक १५७ ] प्रथमाह्निकम् । १६३
ननु स्वरूपमेव नाम किं यस्यापि प्रथनं मोक्षः
स्यात् ? इत्याह स्वरूपम् इति, तेन स्वस्य आत्मनो
रूपं संविच्चैतन्यं, तस्य प्रथनं यथातत्त्वं ज्ञानं, स एव
मोक्षः इति यथोक्तमेव युक्तं । यः पुनरयं हेतुफल-
भाव उक्तः स काल्पनिक एव, न तात्त्विकः, यद्वक्ष्यति
'यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता ।
न सा मुख्या....................॥'
इति । अन्यत् इति संविदतिरिक्तम् इत्यर्थः । ननु
आत्मनः संविदतिरिक्तं यदि रूपं नास्ति, तत्कथमस्य
शक्त्यन्तरयोगित्वं स्यात् ? इत्याशङ्क्याह तत्र
इत्यादि, तु-शब्दः चार्थे ॥ १५६ ॥ १५७ ॥
ननु
'पत्युर्धर्माः शक्तयः स्युः.............।'
इत्याद्युक्त्या साक्षात्पत्युर्धर्मितया शक्तीनां च
धर्मतया निरूपणं कृतम् इति धर्मिणश्च अनिरूप-
णात् इत्यसिद्धोऽयं हेतुः ? इत्याशङ्क्याह
पं० ३ क० पु० तथातत्त्वमिति पाठः ।
२५
१६४ श्रीतन्त्रालोकः ।
परमेश्वरशास्त्रे हि
न च काणाददृष्टिवत् ।
शक्तीनां धर्मरूपाणा-
माश्रयः कोऽपि कथ्यते ॥ १५८ ॥
यथा खलु काणादाः
'आत्मत्वाभिसंबन्धादात्मा।'
इत्यादिना धर्मिरूपमात्मानं निरूप्य,
'तस्य गुणा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्म-
संस्कारसंख्यापरिमाणपृथक्त्वसंयोगविभागाः।'
इत्यादिना तत्समवेतम् आगमापायि भिन्नं धर्मजा-
तम् अभ्युपागमन्, नैवमिह शक्तितद्वतोर्धर्मधर्मि-
भावः कश्चिद् अभिधीयते । पर एव हि स्वतन्त्रो
बोधस्तत्तदुपाधिवशात् तत्तच्छक्तिरूपतया व्यपदि-
श्यते इति न वस्तुतः कश्चित् शक्तितद्वतोर्भेदः,
यदुक्तं प्राक्
पं० १ क० पु० पारमेश्वरेति, पाठः ।
पं० २ ख० पु० काणादिदृष्टेति च पाठः ।
पं० १० क० पु० आगमापायिभिन्नमित्येवं रूपः पाठः ।
पं० ११ क० पु० मप्यभ्युपागमन् इति, ख० पु० अप्युपागमन् इति पाठः ।
श्लोक १५६ ] प्रथमाह्निकम् । १६५
'मातृकल्पते हि भावस्य तत्र तत्र वपुष्यलम् ।
को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव ॥'
इति ॥१५८॥
ननु यदि काणादादिदर्शनवत् इहापि धर्मधर्मि-
भावस्य निरूपणं क्रियते, तदा को दोषः स्यात् ?
इत्याशङ्क्याह
ततश्च दृक्क्रियेच्छाद्या
भिन्नाश्चेच्छक्तयस्तथा ।
एकः शिव इतीयं वा-
ग्वस्तुशून्यैव जायते ॥१५६॥
यदि हि शक्तितद्गतोधर्मधर्मिभावन्यायेन वास्तव
एव भेदः स्यात्, तदा
'इत्थं नानाविधैः रूपैः स्थावरैः जङ्गमैरपि ।
क्रीडया प्रसृतो नित्यमेक एव शिवः प्रभुः ॥'
इत्यादौ 'एक एव शिव' इति इयमीश्वराद्वयप्रतिज्ञा-
त्मिका वाक् अनेकेषां शक्तितद्वदात्मनाम् अर्थानां
पं० ८ क० पु० भिन्नश्चेच्छक्तयस्ततः इति पाठः ।
पं० १२ ख० पु० स्यादित्याहेत्येवं पाठः ।
पं० १५ क पु० एक एव इतीयमिति ख० पु० इतीयमद्वयप्रतिज्ञात्मिकाने-
केषामिति पाठः ।
१६६ श्रीतन्त्रालोकः ।
संभवाद् वस्तुशून्या - अभिधेयरहिता स्यात्, अद्वय-
वादखण्डना भवति इति यावत् ॥१५६॥
ननु यदि वस्तुतः संवित्स्वभावः शिव एव एकोऽ
स्ति, तत्कथमयं चिदादिनानाशक्त्यात्मा व्यवहा-
रोऽन्यथा क्रियते ? इत्याशङ्काम् उपसंहारभङ्ग्या
उपशमयितुमाह
तस्मात्संवित्त्वमेवैत-
स्वातन्त्र्यं यत्तदप्यलम् ।
विविच्यमानं बह्वीषु
पर्यवस्यति शक्तिषु ॥१६०॥
एतच्च निर्णीतपूर्वम् इति पुनरिह नायस्तम् ।
यथोक्तं
'बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ।'
इति ॥१६०॥
इह 'आत्मज्ञानमेव मोक्षः' इति ज्ञानमोक्षयोः
कार्यकारणभाव एव वस्तुतो नास्ति - इति 'नावश्यं
कारणानि कार्यवन्ति भवन्ति' इति न्यायेन ज्ञानिनां
- ० १ क० पु० अद्वयखण्डनेति पाठः ।
श्लोक १६१ ] प्रथमाह्निकम् । १६७
सत्यपि ज्ञानाख्ये कारणे कार्यात्मा मोक्षो न स्यात्-
इत्यानिष्टापादनात्मायं प्रसङ्गो नाशङ्कनीयः ? इत्याह
यतश्चात्मप्रथा मोक्ष-
स्तन्नेहाशङ्क्यमीदृशम् ।
नावश्यं कारणात्कार्यं
तज्ज्ञान्यपि न मुच्यते ॥१६१॥
ज्ञानिनो हि अवश्यभाविनी मुक्तिः इति भावः ।
अत एव च
'तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥'
इति । तथा
'................... ज्ञानी त्वात्मैव मे मतः ।'
इत्यादि गीतम् ॥ १६१ ॥
ननु
'ज्ञानमेव विमोक्षाय ...............।'
इत्यादिना ज्ञानमोक्षयोः कार्यकारणभाव उक्त
एव, इति कथं नायं प्रसंगः ? इत्याह
यतो ज्ञानेन मोक्षस्य
या हेतुफलतोदिता ।
१८८ श्रीतन्त्रालोकः ।
न सा मुख्या, ततो नायं
प्रसंग इति निश्चितम् ॥१६२॥
एतच्च निर्णीतचरम् इति नेह पुनरायस्तम् ॥१६२॥
एतदुपसंहरन्नन्यदवतारयति
एवं ज्ञानस्वभावैव
क्रिया स्थूलत्वमात्मनि ।
यतो वहति तेनास्यां
चित्रता दृश्यतां किल ॥१६३॥
ज्ञानस्वभावा इति क्रियाया ज्ञानाविनाभा-
वित्वात् । यदुक्तं
'...... ............न ज्ञानरहिता क्रिया ।'
इति । स्थूलत्वम् इति अन्तर्ग्राह्यग्राहकात्मना भेदेन
उल्हासात् । तेन इति स्थूलतावहनेन हेतुना ।
चित्रता इति तत्तद्ग्राह्यादिभेदवैचित्र्यात् ॥ १६३ ॥
अत एवाह
क्रियोपायेऽप्युपायानां
ग्राह्यबाह्यविभेदिनाम् ।
श्लोक १६४ ] प्रथमाह्निकम् । १६६
भेदोपभेदवैविध्या-
न्निःसंख्यत्वमवान्तरात् ॥१६४॥
ग्राह्याः उच्चाराद्याः । बाह्याः कुण्डमण्डलादयः ।
उच्चारादयो हि ग्राह्यभूमिगताः बाह्यत्वेन अवसिता
अपि चक्षुरादिबाह्येन्द्रियागोचरत्वात् प्रमात्रन्तरासा-
धारणत्वाच्च न बाह्याः । कुण्डमण्डलादयः पुनर्बाह्ये-
न्द्रियगोचरत्वात् साधारणयाच्च बाह्याः सन्तो
ग्राह्याः इत्युक्तम् 'ग्राह्यबाह्यविभेदिनाम्' इति । एवं
नियतभेदवत्त्वेऽपि एषामेव अवान्तरभेदात् भेदोपभे-
दनानात्वात् निःसंख्यत्वं बहुप्रकारत्वम् इत्यर्थः ।
तथाहि - उच्चारस्य प्राणादिभेदात् प्रथमे पञ्च भेदाः,
तत्रापि विन्दुनादादयो बहव उपभेदाः, एवमपि
उच्चार्यमाणानां मन्त्राणामानन्त्यम् इत्यसंख्यभे-
दत्वम् ॥१६४॥
एवं च
'यतो नान्या क्रिया नाम................।'
पं० २ ख० पु० निःसंख्यात्वमिति पाठः ।
पं० ५ क० पु० इन्द्रियगोचरादिति पाठः ।
पं० ६ ख० पु० एषामेवान्तरभेदादिति पाठः ।
पं० ११ क० पु० प्रथमं पञ्च भेदा इति पाठः ।
२०० श्रीतन्त्रालोकः ।
इत्यादिना उपक्रान्तं क्रियाया ज्ञानात्मकत्वं युक्त्या-
गमाभ्यां निर्वाहितम् इत्येक एव ज्ञानात्मा मोक्षा-
वाप्तावुपाय इति न उपायनानात्वम्, अत एव
तत्फलभूते मोक्षेऽपि न कश्चिद्भेदः इत्याह
अनेन चैतत्प्रध्वस्तं
यत्केचन शशङ्किरे ।
उपायभेदान्मोक्षेऽपि
भेदः स्यादिति सूरयः ॥ १६५ ॥
यत्केचन सूरय इति शशङ्किरे इति संबन्धः ।
केचन सूरय इति भेदवादिनः । तत्र हि हेतुफल-
योर्वास्तव एव भेदः इति हेतुभेदात् फलभेदोऽपि
स्यात् । इह पुनः
‘प्रदेशो ब्रह्मणः सर्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च ।’
इत्यादिनीत्या ‘संविदेव सर्वम्’ इति को नाम हेतु-
फलभेदः, काल्पनिकेऽपि हेतुफलयोर्भेदे ज्ञानात्मा
एक एव उपायोऽभ्युपगतः इति उपायनानात्वस्यैव
पं० १ ख० पु० ज्ञानात्मकत्वमिति पाठः ।
पं० १३ क० पु० प्रादेशोऽपीति, अविकल्पश्चेति च पाठः ।
पं० १५ क० पु० काल्पनिके हेत्विति अपिशब्दहीनः पाठः ।
श्लोक १६६ ] प्रथमाह्निकम् । २०१
अभावात् को नाम फलभूतेऽपि मोक्षे भेदः स्यात्
॥ १६५ ॥
ननु
'तच्च साक्षादुपायेन..................'
इत्यादिना साक्षात् उपायनानात्वमुक्तम् इति कथं
न तद्भेदादुपयेऽपि भेदः ? इत्याशङ्क्याह
मलतच्छक्तिविध्वंस-
तिरोभूच्युतिमध्यतः ।
हेतुभेदेऽपि नो भिन्ना
घटध्वंसादिवृत्तिवत् ॥ १६६ ॥
यत्र वास्तव एव हेतुफलभावोऽस्ति तत्रापि
हेतोः दीक्षादेः भेदेऽपि तत्फलभूतस्य मलतच्छ-
क्त्योर्विध्वंसादेः न कश्चिद्भेदः — कलातत्त्वभुवनादिना
भेदेऽपि दीक्षायाः तस्य अविशेषात् , तथा च
घटस्य मुद्गरकरभित्तिघटाद्युपायभेदेऽपि अविशिष्ट
एव ध्वंसतिरोभावादिः । अतश्च अवश्यमेव हेतुभे-
दात् फलभेदः इति नायमेकान्तः । यत्र पुनः
पं० २ ख० पु० साक्षादेवोपायनानात्वमिति पाठः ।
पं० १२ क० पु० अवशिष्ट एवेति पाठः ।
२६
२०२ श्रीतन्त्रालोकः ।
काल्पनिक एव उपायोपेयभावः, तत्र का नाम इयं
वार्ता इति भावः । तदेवम् इच्छाज्ञानक्रियात्मक-
त्वाद् उपायस्य त्रैविध्येऽपि तदुपैयभूतेऽपवर्गे न
कश्चित् भेदः इति सिद्धम् ॥ १६६ ॥
न केवलं युक्तित एव एतत्सिद्धं यावदागमतोऽपि
इत्याह
तदेतत्त्रिविधत्वं हि
शास्त्रे श्रीपूर्वनामनि ।
आदेशि परमेशित्रा
समावेशविनिर्णये ॥ १६७ ॥
तत्रत्यमेव ग्रन्थं पठति
अकिंचिच्चिन्तकस्यैव
गुरुणा प्रतिबोधतः ।
उत्पद्यते य आवेशः
शाम्भवोऽसावुदीरितः ॥ १६८ ॥
उच्चाररहितं वस्तु
चेतसैव विचिन्तयन् ।
पं० ६ क० पु० परमेशेनेति पाठः ।
पं० १२ ख० पु० चिन्तकस्येवेति, प्रतिबोधित इति च पाठः ।
श्लोक १७१ ] प्रथमाह्निकम् । २०३
यं समावेशमाप्नोति
शाक्तः सोऽत्राभिधीयते ॥ १६६ ॥
उच्चारकरणध्यान-
वर्णास्थानप्रकल्पनैः ।
यो भवेत्स समावेशः
सम्यगाणव उच्यते ॥ १७० ॥
व्यत्यासपाठे च अयमाशयः — यद् उपायोपेया-
दिना द्वारद्वारिभावेन शाम्भवोपाये एव प्रधान्येन
विश्रान्तिः इति ॥ १६८ ॥ १६६ ॥ १७० ॥
तदेव क्रमेण व्याचष्टे
अकिंचिच्चिन्तकस्येति
विकल्पानुपयोगिता ।
तया च झटिति ज्ञेय-
समापत्तिर्निरूप्यते ॥ १७१ ॥
तया इति विकल्पानुपयोगितया । विकल्पोपयोगे
हि तदैव
'यस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः ।'
पं० ४ क० पु० स्थान-विकल्पनैरिति पाठः ।
३०४ श्रीतन्त्रालोकः ।
इत्यादिदृष्ट्या ज्ञेयस्य अवश्यज्ञातव्यस्य पारमार्थि-
कस्य चिदात्मनो रूपस्य समापत्तिर्न स्यात्, विकल्पो
हि अभ्यासबलात् स्वतुल्यविकल्पान्तराविर्भावकतया
विगलदस्फुटत्वादिना यथायथं सातिशयविकल्पजन-
नाक्रमेण अविकल्पात्मकसंवित्तादात्म्यम् अभ्येति ।
यद्वक्ष्यति
'प्रविविञ्चुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ।'
इत्याद्युपक्रम्य
'संविदभ्येति विमलामविकल्पस्वरूपताम् ।'
इति । अत एव शाक्तोपायादस्य भेदः ॥ १७१ ॥
ननु कथं विकल्पानुपयोगितयैव एतत् स्यात् ?
इत्याशङ्कां दर्शयितुमाह
सा कथं भवतीत्याह
गुरुणातिगरीयसा ।
ज्ञेयाभिमुखबोधेन
द्राक्प्ररूढत्वशालिना ॥ १७२ ॥
पं० १ ख० पु० ज्ञातव्या पारमार्थिकस्येति पाठः ।
पं० ४ क० पु० विकल्पजननाक्रमेणाविकल्पात्मकेति पाठः ।
पं० १३ क० पु० स कथं भवतीति पाठः ।
श्लोक १७३ ] प्रथमाह्निकम् । २०५
प्रतिः आभिमुख्ये, आभिमुख्यं च वस्त्वन्तरा-
पेक्षं, तच्च अत्र औचित्यात् चिन्मात्रम् इत्युक्तं
'ज्ञेयाभिमुखेति' । अतिगरीयस्त्वमेव व्याख्यातुं
द्राक्प्ररूढत्वेत्याद्युक्तम्, द्राक् इत्यनेन यथोक्तवि-
कल्पक्रमोपारोहाभावः सूचितः ॥ १७२ ॥
ननु कथमनयोर्भिन्नविभक्तिकयोः सामानाधिक-
रण्यम् ? इत्याशङ्क्याह
तृतीयार्थे तसि व्याख्या
वा वैयधिकरण्यतः ।
तृतीयार्थे तसि, इति तसि इत्यनुबन्धलोपे प्रयोगः ।
तृतीयार्थे इति सर्वविभक्त्यन्तात् प्रातिपदिकात्
तस्येष्टेः । वा शब्दः पक्षान्तरे । वैयधिकरण्यतः
इति गुरुणा कृतो यः प्रतिबोधः ततः इत्यर्थः ॥
आवेशश्चास्वतन्त्रस्य
स्वतद्रूपनिमज्जनात् ॥ १७३ ॥
परतद्रूपता शम्भो-
राद्याच्छक्त्यविभागिनः ।
पं० ७ ख० पु० इत्याह इति पाठः ।
पं० १० क० पु० तृतीयार्थे तस् तसीति पाठः ।
पं० १३ क० ग० पु० यो बोध इति पाठः ।
पं० १६ ख० पु० तद्रूपमिति शोधितः पाठः ।
२०६ श्रीतन्त्रालोकः ।
अस्वतन्त्रस्य जडस्य बुद्ध्यादेर्मितस्य प्रमातुः, स्वम्
असाधारणं, तत् संकुचितं यत् रूपं तस्य निमज्जनं -
गुणीभावः, तदवलम्ब्य परेण स्वतन्त्रेण बोधेन या
तद्रूपता - तादात्म्यं, स आवेशः इति संबन्धः । यदुक्तं
'मुख्यत्वं कर्तृतायास्तु बोधस्य च चिदात्मनः ।
शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥'
इति । कुतः पुनरयमागतः ? इत्याह शम्भोः इति । न
पुनः शक्तेरणोर्वा । आद्यात् इति - तत एव हि
शक्तेरणोश्च प्रभवः इति भावः । अत एव शक्तिरत्र
इच्छा, न तु ज्ञानं क्रिया वा - तयोः समावेशान्तर-
गतत्वेन अभिधास्यमानत्वात् ॥१७३॥
इह पदार्थावगमपुरःसरीकारेण वाक्यार्थावगमः
इति पदार्थयोजनानन्तरं वाक्यार्थमपि योजयितुमाह
तेनायमत्र वाक्यार्थो
विज्ञेयं प्रोन्मिषत्स्वयम् ॥१७४॥
विनापि निश्चयेन द्राक्
मातृदर्पणबिम्बितम् ॥
पं० ६ क० पु० तद्गुणज्ञानमिति समस्तः पाठः ।
पं० ११ क० पु० गतत्वेन व्याख्यास्यमानत्वात् इति पाठः ।
श्लोक १७५ प्रथमाह्निकम्। २०७
मातारमधरीकुर्वन्
स्वां विभूतिं प्रदर्शयन् ॥१७५॥
आस्ते हृदयनैर्मल्या-
तिशये तारतम्यतः ॥
विज्ञेयं – चिन्मात्राख्यं पारमार्थिकं रूपं, माता –
सकलकरणग्रामप्रसवनिमित्तत्वाद् बुद्धिः, सैव
चिच्छायासंक्रान्तिसहिष्णुत्वाद् दर्पणः, तत्र प्रति-
बिम्बितं गृहीतात्मग्रहं परिमितं प्रमातारम् अधरी-
कुर्वत् – बुद्ध्यादौ आत्माभिनिवेशनं गुणीभावमापा-
दयत् । एवं तरतमभावेन अनन्यसाधारणां विभूतिं –
बोधात्मताप्रधानतां रचयत्, समनन्तरोक्तयुक्त्या
विकल्पोपारोहमन्तरेण अनन्यापेक्षित्वात् झटिति
'सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः।'
इत्याद्युक्तेः हृदयं – विमर्शः, तस्य नैर्मल्यम् – अन-
न्योन्मुखत्वादपरिम्लानत्वं, तस्य अतिशयः – परा
पं० ५ ख० पु० चिन्मात्रात्म पारमार्थिकेति पाठः ।
पं० ६ ख० पु० आत्माभिनिवेशमिति पाठः ।
पं० १२ क० पु० नन्यापेक्षत्वादिति पाठः ।
पं० १४ क० ग० पु० हृदयं विसर्ग इति पाठः ।
प्रकाशते इत्यर्थः ॥१७४॥१७५॥
२०८ श्रीतन्त्रालोकः ।
काष्ठा, तत्र स्वयं प्रोन्मिषदास्ते-स्वप्रकाशतया
प्रकाशते इत्यर्थः ॥१७४॥१७५॥
ननु ज्ञेयं तावत् जडाजडात्म द्विधा संभवति, तत्र
संविदि जडेन नीलादिनापि आवेशोऽस्ति इति
कथं 'बोधात्मैव समावेशः' इत्युक्तम् ? इत्याह
ज्ञेयं द्विधा च चिन्मात्रं
जडं चाद्यं च कल्पितम् ॥१७६॥
इतरत्तु तथा सत्यं
तद्विभागोऽयमीदृशः ॥
जडेन यः समावेशः
सप्रतिच्छन्दकाकृतिः ॥१७७॥
चैतन्येन समावेश-
स्तादात्म्यं नापरं किल ॥
ननु कथं स्वप्रकाशायाः चितोऽपरप्रकाश्यत्वं
ज्ञेयत्वं नाम ? इत्याशङ्क्योक्तम् 'आद्यं च कल्पितम्'
इति। चः शङ्काद्योतकः, परमेश्वर एव हि स्वातन्त्र्याद्
अपरिहृतवेदकभावमपि स्वात्मानं भावनोपदेशादौ
पं० ५ क० पु० बोधैकात्मेति पाठः ।
श्लोक १७८ ] प्रथमाह्निकम् । २०६
शिव एव सर्वक्रियाणां कर्ता विज्ञेयः इत्यादि परामर्शैः
अहंप्रतीतिम् अन्तरीकृत्य वेद्यतया प्रतिपादयति ।
इदमेव हि परं स्वातन्त्र्यं-यत् स्वं स्वरूपं वेदकमेव
सत् वेद्यत्वेन अवभासयति । अत एव कल्पितं
वस्तुशून्यम् इत्युक्तम् । इतरत् इति जडं नीलादि ।
तथा इति ज्ञेयतया । तत्र नीलज्ञानम् इत्यादौ
चितो नीलादिना दर्पणमुखन्यायेन प्रतिबिम्बन-
मात्रमेव समावेशार्थो न तु तादात्म्यं, तथात्वे हि
नीलादेर्ज्ञानात्मभूतत्वात् ज्ञानमेव अवशिष्यते इति
प्रतिच्छन्दव्यवस्थैव न स्यात् । संकुचितायाः चितः
पुनरसंकुचितया चितैकात्म्यमेव तस्या एव वस्तुतो
भावात्, तेन बोधैकात्म्यमेव समावेशार्थः इति
युक्तमुक्तम् अस्वतन्त्रस्य परतद्रूपता नामावेशः
इति ॥ १७६ ॥ १७७ ॥
तदेवोपसंहरति
तेनाविकल्पा संवित्ति-
र्भावनाद्यनपेक्षिणी ॥ १७८ ॥
पं० २ क० पु० अधरीकृत्येति पाठः ।
पं० १० क० ख० पु० प्रतिकर्मव्यवस्थैवेति पाठः ।
पं० ११ क० पु० असंकुचितचिदैकात्म्यमेवेति पाठः ।
२७
२१० श्रीतन्त्रालोकः ।
शिवतादात्म्यमापन्ना
समावेशोऽत्र शांभवः ।
संवित्तिः अर्थात् संकुचितरूपा ॥ १७८ ॥
ननु अत्र उत्पत्तौ विकल्पापेक्षितत्वं मा भूत्
तथात्वे हि शाक्तोपायादस्य भेदो न स्यात्, औत्त-
रकालिकाः पुनर्विकल्पाः किमत्र अपेक्ष्यन्ते न वा ?
इत्याशङ्क्याह
तत्प्रसादात्पुनः पश्चा-
द्भाविनोऽत्र विनिश्चयाः ॥ १७६ ॥
सन्तु तादात्म्यमापन्ना
न तु तेषामुपायता ।
तच्छब्देन निर्विकल्पकपरामर्शः । अविकल्प-
कयैव संवित्त्या शिवात्मताधिगमः कृतः इति
कृतस्य करणायोगात् तत्पृष्ठभाविनां विकल्पानां
तत्र अकिंचित्करत्वम् इत्याह न तु 'तेषामुपायता'
इति ॥ १७६ ॥
पं० ४ ख० पु० विकल्पापेक्षत्वमिति पाठः ।
पं० ६ क० ख० पु० अपेक्षन्ते इति पाठः ।
पं० १३ क० पु० शिवात्मनाभिगम इति पाठः ।
श्लोक १८० ] प्रथमाह्निकम् । २११
अत एव च अविकल्पस्य विकल्पापेक्षं प्रामाण्यं
वदन्तो निरस्ताः इत्याह
विकल्पापेक्षया मान-
मविकल्पमिति ब्रुवन् ॥ १८० ॥
प्रत्युक्त एव सिद्धं हि
विकल्पेनानुगम्यते ।
अनधिगतार्थविषयं खलु प्रमाणम् । यदाहुः
‘अनधिगतविषयं प्रमाणम् अज्ञातार्थप्रकाशो वा ।’
इति । निर्विकल्पकगृहीतमेव वस्तु च तत्पृष्ठभावी
विकल्पः परिच्छिनत्ति इति, तस्य गृहीतग्राहकत्वात्
स्वात्मन्येव प्रामाण्यं नास्ति - इति कथमन्यस्यापि
प्रामाण्ये निमित्ततां यायात् । अत आह ‘सिद्धं हि
विकल्पेनानुगम्यते' इति । सिद्धम् इति अधिगतम् ।
अनुगम्यते इति अनु पश्चात् गम्यते अधिगम्यते
इत्यर्थः ॥ १८० ॥
ननु प्रवर्ततां नाम गृहीतेऽर्थे विकल्पः, तन्न
पुनरध्यवसायात्मकत्वादस्य ग्राहकत्वं न युज्यते
पं० ८ क० ख० पु० अज्ञातार्थविषयो वा इति पाठः ।