तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
श्लोकः १११ ] प्रथमाह्निकम् । १५३
पञ्चमूर्तिः षडात्मायं
सप्तकोष्ठकभूषितः ॥ ११० ॥
नवात्मा दशादिक्शक्ति-
रेकादशकलात्मकः ।
द्वादशारमहाचक्र-
नायको भैरवस्त्विति ॥ १११ ॥
यथा एकवीरो मृत्युजिति प्रथमध्याने । यामलः
तत्रैव । कुलप्रक्रियायां तिस्रः शक्तयः पराद्याः ।
चतुरात्मा जयादिभेदेन । पञ्चमूर्तिः सद्योजातादि-
तया । तदुक्तं
'सिद्धान्ते पञ्चकं सारं चतुष्कं वामदक्षिणे ।
त्रिकं तु भैरवे तन्त्रे....................॥'
इति । षडात्मा इति, यद्वक्ष्यति
'विश्वा तदीशिका रौद्री वीरका त्र्यम्बिका तथा ।
गुर्वीति षडरे देव्यः.................. ॥'
इति । सप्तकः इति, यदुक्तं
पं० ८ क० पु० तत्रैव प्रक्रियायामिति पाठः ।
पं० ११ ख० पु० चतुर्थं वामेति पाठः ।
२०
१५४ श्रीतन्त्रालोकः ।
'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा चेति मातरः ॥'
इति । अष्टकेन अघोरादिना । स एव एतदष्टकम-
ध्यवर्ती नवात्मा । दशदिक्छक्तिः इति, यदुक्तं
'उमा दुर्गा भद्रकाली स्वस्ति स्वाहा शुभङ्करी ।
श्रीश्च गौरी लोकधात्री वागीशी दशमी स्मृता ॥'
इति । एकादश इति खण्डचक्रोक्ता । इयदन्तं
न्यूनसंख्यास्वीकारः भैरवः इति त्रयोदशः । अनेन
अधिकसंख्यासूत्रणम् ॥११०॥१११॥
तच्च अधिकसंख्याकत्वं निरवधि, इत्याह
एवं यावत्सहस्रारे
निःसंख्यारेऽपि वा प्रभुः ।
विश्वचक्रे महेशानो
विश्वशक्तिर्विजृम्भते ॥११२॥
सहस्रारे इति त्रिशिरोभैरवप्रथमपटलोक्ते । ग्रन्थ-
विस्तरभयात्तु न प्रातिपद्येन संवादितम् । निःसंख्यारे
इति भुवनादीनामानन्त्यात् । एवमपि एतस्मान्न व्य-
तिरिक्तम्, इत्याह विश्वशक्तिः इति । तदुक्तं
पं० ८ क० ग० पु० न्यूनस्वीकार इति, ख० पु० अनेन त्रयोदशकथनेन
अधिकेति च पाठः ।
श्लोकः ११३ ] प्रथमाह्निकम् । १५५
'शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते ।
शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ॥'
इति ॥११२॥
ननु विश्वेषामपि चक्राणां यदि प्रभुरेव परमार्थः
तदेकेनैव कार्ताथ्यात् प्रतिशास्त्रं बहूनि किमुक्तानि?,
इत्याशङ्क्याह
तेषामपि च चक्राणां
स्ववर्गानुगमात्मना ।
ऐक्येन चक्रगो भेद-
स्तत्र तत्र निरूपितः ॥११३॥
ऐक्येन तत्तत्सृष्ट्याद्यात्मनियतकृत्यकारित्वादिना
साजात्येन । तच्च नियतकृत्यकारित्वादेव अस्य
स्ववर्गानुगमात्मकत्वमुक्तम्, अत एव चक्रगो भेद
इति शास्त्रेषु चक्राणामानन्त्यम् ॥११३॥
तदेव दर्शयति
चतुष्षड्विद्विंगणा-
योगात्त्रैशिरसे मते ।
पं० १२ क० पु० अस्य स्ववर्गानुगमेति पाठः ।
१५६ श्रीतन्त्रालोकः ।
षट्चक्रेश्वरता नाथ-
स्योक्ता चित्रनिजाकृतेः ॥११४॥
चतुर्णां द्विगणनायोगेन अष्टौ, पुनस्तथात्वेन षोड-
श, षण्णां द्विगणनायोगेन द्वादश, पुनस्तथात्वेन
चतुर्विंशतिः इति षण्णां चक्राणामीश्वरता, तत्तत्स-
मुल्लास्यचक्राद्युपाधिवैचित्र्याच्चित्रा — नानाकारा, तद-
तिरिक्तस्य अन्यस्य अनुपसम्भात् निजाकृतिः
यस्य, अत एव नाथस्य स्वातन्त्र्यशालिनः तत्तच्चक्रा-
धिष्ठातुः प्रभोः त्रैशिरसे मते त्रिशिरोभैरवे उक्ता
अभिहिता इत्यर्थः । तदुक्तं तत्र
‘चतुष्कं षट्कोष्ठकं द्वादशारं षोडशारकम् ।
चतुर्विंशारकं देवि प्रविभक्त्या सुसंस्थितम् ॥’
इत्यादि ॥११४॥
बहुप्रकारत्वं चक्राणां भेदनिमित्तमपि त्रिशिरो-
भैरव एवोक्तम्, इत्याह
पं० ३ क० पु० तथात्वे षोडश इति पाठः ।
पं० ६ क० पु० समुल्लासस्य चक्रेति पाठः ।
पं० ११ क० पु० चतुष्कषट्कोष्ठकेति पाठः ।
पं० १२ क० पु० प्रविभक्त्या तथाष्टकमिति पाठः ।
श्लोकः ११६ ] प्रथमाह्निकम् । १५७
नामानि चक्रदेवीनां
तत्र कृत्यविभेदतः ।
सौम्यरौद्राकृतिध्यान-
योगीन्यन्वर्थकल्पनात् ॥ ११५ ॥
उक्ता इति पूर्वश्लोकाल्लिङ्गादिविपरिणामाद् यो-
ज्यम् । एक एव हि परमेश्वरः तत्तत्साधककामा-
नुसारं नियतां सौम्यरौद्रादिरूपाम् आकृतिमाभा-
स्य तां तां सिद्धिं नियच्छेत् । तदुक्तं
'येन येन हि रूपेण साधकः संस्मरेत्सदा ।
तस्य तन्मयतां याति चिन्तामणिरिवेश्वरः ॥'
इति । श्रीत्रिशिरोभैरवप्रथमपटलाच्च अयमर्थः
स्वयमेवाधिगन्तव्यः । अस्माभिस्तु ग्रन्थविस्तारभ-
यात् न प्रातिपद्येन संवादितम् ॥ ११५ ॥
तदेवाह
एकस्य संविन्नाथस्य
ह्यान्तरी प्रतिभा तनुः ।
पं० ६ ख० पु० साधकशमानुसारमिति पाठः ।
१५८ श्रीतन्त्रालोकः ।
सौम्यं वान्यन्मितं संवि-
दूर्मिचक्रमुपास्यते ॥११६॥
आन्तरी प्रतिभा स्वातन्त्र्यशक्तिः । अन्यत्
इति रौद्रम् । अत एव तत्तत्सौम्यरौद्रादिनियताका-
रावच्छिन्नत्वात् मितम् ॥ ११६ ॥
एतदेव विभज्य दर्शयति
अस्य स्यात्पुष्टिरित्येषा
संविद्देवी तथोदितात् ।
ध्यानात्संजल्पसंमिश्राद्
व्यापाराच्चापि बाह्यतः ॥ ११७ ॥
स्फुटीभूता सती भाति
तस्य तादृक्फलप्रदा ।
पुष्टिः शुष्कस्य सरसी-
भावो जलमतः सितम् ॥११८॥
अनुगम्य ततो ध्यानं
तत्प्रधानं प्रतन्यते ।
पं० २ ख० पु० उपासते इति पाठः ।
पं० ७ ख० पु० अस्य स्यात्तुष्टिरिति प्रथमः पाठः ।
पं० १३ ख० पु० सरसीभावे इति पाठः ।
श्लोकः १२२ ] प्रथमाह्निकम् । १५९
ये च स्वभावतो वर्णा
रसनिःष्यन्दिनो यथा ॥११९॥
दन्त्यौष्ठ्यदन्त्यप्रायास्ते
कैश्चिद्वर्णैः कृताः सह ।
तं बीजभावमागत्य
संविदं स्फुटयन्ति ताम् ॥१२०॥
पुष्टिं कुरु रसेनेन-
माप्यायय तरामिति ।
संजल्पोऽपि विकल्पात्मा
किं तामेव न पूरयेत् ॥१२१॥
अमृतेयमिदं क्षीर-
मिदं सर्पिर्बलावहम् ।
तेनास्य बीजं पुष्णीया-
मित्येनां पूरयेत्क्रियाम् ॥१२२॥
ध्यानाद्येव क्रमेण निरूपयति - पुष्टिरित्यादिना ।
ततः इति समनन्तरोक्ताद्धेतोः । अतः इति पुष्टेः
पं० ७ क० पु० पुष्टिं कुरु रसोऽनेन ध्याययन्तु ततस्तरामिति पाठः ।
पं० ९ ख० पु० संकल्पोऽपि इति पाठः ।
पं० १३ ग० पु० पुष्णीयादिति पाठः ।
१६० श्रीतन्त्रालोकः ।
शुष्कस्य सरसीभावापादानलक्षणत्वात् । जलं हि
आप्यायकं तत्प्रधानं पुष्टिप्रयोजकम् पूर्णमित्यादि-
रूपम्। संप्रति संजल्पमपि लौकिकालौकिकभेदेन द्विधा
व्याचष्टे - ये च इत्यादिना । ते इति दन्त्योष्ठ्यदन्त्य-
प्राया वर्णाः । तां संविदं पुष्टिरूपां । बीजभावं
मन्त्रभावम् । अत एवास्य संजल्पस्यालौकिकत्वम् ।
दन्त्योष्ठ्या वकारादयः । दन्त्या अमृतबीजादयः ।
कैश्चिद्वर्णैरिति अदन्त्योष्ठ्यप्रायादिभिः । यदुक्तं
'वषडाप्यायने शस्तः ......................।'
इति । तथा
'पुष्टावाप्यायने वर्गैः ..................।'
इति । एवं मूर्धन्यादीनामपि ग्रहणम् । विकल्पात्मा
इत्यनेन अस्य लौकिकत्वं दर्शितम् । तामिति पुष्टि-
रूपां संविदम् । इदानीं बाह्यमपि होमादिरूपं व्या-
पं० १ ख० पु० शुष्कसरसीति पाठः ।
पं० २ क० पु० पूर्णमितादीति पाठः ।
पं० ८ क० पु० वर्णैरिति दन्त्योष्ठ्येति पाठः ।
प० ११ ख० वर्णैरिति पाठः ।
पं० १३ ख० पु० अस्या लौकिकत्वं दर्शितं तामिति सृष्टिरूपामिति पाठः ।
श्लोक १२३] प्रथमाह्निकम् । १६१
पारं विभजति अमृता इत्यादिना । क्षीरं दधि ।
तदुक्तं
‘दधिहोमात्परा पुष्टिः............।’
इति । बलावहशब्देन प्रत्येकं संबन्धः । तेन इति
गडूच्यादिना द्रव्यजातेन । बीजम् इति शरीरका-
रणभूतं शुक्रशोणितादि धातुव्रातम् । एनाम् इति
पुष्टिरूपां क्रियाम् ॥११७॥११८॥११९॥१२०॥१२१
॥१२२॥
एतदेव प्रमेयान्तरमुपक्षिपन् उपसंहरति
तस्माद्विश्वेश्वरो बोध-
भैरवः समुपास्यते ।
अवच्छेदानवच्छिद्भ्यां
भोगमोक्षार्थिभिर्जनैः ॥१२३॥
अवच्छेदानवच्छिद्भ्याम् इति, अवच्छेदः समन-
पं० १ क० पु० विभजयतीति पाठः ।
पं० ३ क० पु० दधिहोमात्मना पुष्टिरिति पाठः ।
पं० ४ ख० पु० प्रत्येकमभिसंबन्ध इति, क० पु० तेनेति अमृतादिना द्रव्य-
जातेऽप्यबीजमिति पाठः ।
पं० १० क० पु० तस्माद्विकस्वरो बोधेति पाठः ।
पं० १४ क० पु० अवच्छेदानवच्छिद्भ्यामिति वाक्यं नास्ति ।
२१
१६२ श्रीतन्त्रालोकः ।
न्तरोक्तनीत्या ध्यानादिनियतविधिनियन्त्रितत्वं, तद्-
न्यथात्वमनवच्छेदः । यद्वक्ष्यति
‘साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ।
मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः ॥’
इति । भगवतश्च एतत्सावच्छेदमपि रूपम् अनव-
च्छिन्नपरस्वरूपानुप्राणितमेव, नहि तत्स्वरूपानुप्रवेशं
विना किंचिदपि सिद्ध्येत् ॥१२३॥
एतदेव शब्दार्थद्वारकं गीताग्रन्थेन संवादयति
येऽप्यन्यदेवताभक्ता
इत्यतो गुरुरादिशत् ।
इत्यतः – इत्येवमादिकात् वाक्यकदम्बकादित्य-
र्थः । गुरुरिति तात्त्विकार्थोपदेष्टा भगवान्वासुदेवः ।
तत्र हि
‘त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोक-
मश्नन्ति दिव्यान्दिवि देवभोगान् ॥’
- निरर्गलो नियतियन्त्रणारहित इत्यर्थः ।
पं० ३ क० पु० नियतयन्त्रित इति पाठः ।
श्लोक १२४] प्रथमाह्निकम् । १६३
इत्यादिना ।
'क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।'
इत्यादिना च भोगार्थिनाम् ,
'अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥'
इत्यादिना च मोक्षार्थिनाम्, अवच्छेदानवच्छेदाभ्यां
क्रमेण स्वरूपमभिधाय पुनः सावच्छेदेऽपि रूपेऽन-
वच्छिन्नं रूपम् अस्त्येव इत्यभिधातुम्
'येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥'
इत्यादिना तेनोपदिष्टम् ॥
एतदेव व्याचष्टे
ये बोधाद्व्यतिरिक्तं हि
किंचिद्याज्यतया विदुः ॥ १२४ ॥
इत्यादिना इति, क्षीणे पुण्ये इति च १—२ पंक्तिद्वयस्थपाठः ग० पु० न
वर्तते तथात्वे ३ पंक्तिस्थः 'च' इति नास्ति अतः अनुमीयते पुस्तकान्तरेषु पश्चात्प्र-
क्षिप्तोऽधिकश्लोकपाठोऽस्तीति ।
पं० १३ ख० पु० बोधाद्यतिरिक्तमिति प्रथमः, बोधादतिरिक्तमिति लक्ष्यमाण
शोधनः पाठोऽप्यस्ति ।
पं० १४ क० ख० पु० किंचित्पूज्यतयेति पाठः ।
१६४ श्रीतन्त्रालोकः ।
तेऽपि वेद्यं विविञ्चाना
बोधाभेदेन मन्वते ।
ये याजका बोधाद् वेदित्रेकस्वभावात् स्वात्म-
रूपाद्व्यतिरिक्तमन्यत् तत्तन्नियताकारमिन्द्रादिदैवतं
याज्यतया विदुः जानीयुः, ते विच्छिन्ननियताकार-
वत्त्वात् वेद्यमपि इन्द्रादिरूपं दैवतं श्रद्धातिशययो-
गाद् गाढगाढं विमृशन्तः
'वेद्यो वेदकतामाप्तो वेदकः संविदात्मताम् ।
संवित्त्वदात्मा चेत्सत्यं तदिदं त्वन्मयं जगत्' ।।
इत्यादिन्यायेन बोधाभेदेन — परप्रमात्रेकरूपस्वात्मम-
यत्वेन अवबुध्यन्ते इत्यर्थः ॥
ननु देवतोद्देशेन द्रव्यत्यागो याग इत्युक्तेः द्रव्य-
त्यागार्थमुद्दिष्टैव देवता भवति, न च बोधैकरूपस्य
स्वात्मतत्त्वस्य तथात्वेन उद्देशोऽस्ति , कथमस्य
याज्यत्वम् ? इत्याशङ्क्याह
पं० १ क० ख० पु० तेऽपि बोधमिति पाठः ।
पं० ख० ४ अन्यत्तन्न नियताकारमिति पाठः ।
पं० ७ क० पु० मृशन्तोऽपि ते च इति पाठः ।
पं० ९ ख० पु० संवित्त्वदात्म चेदिति पाठः ।
पं० १० क० पु० प्रमात्रेकस्वात्मेति पाठः ।
श्लोक १२७ ] प्रथमाह्निकम् । १६५
तेनाविच्छिन्नतामर्श-
रूपाहन्ताप्रथात्मनः ॥ १२५ ॥
स्वयं-प्रथस्य न विधिः
सृष्ट्यात्मास्य च पूर्वगः ।
वेद्या हि देवतासृष्टिः
शक्तेर्हेतोः समुत्थिता ॥ १२६ ॥
अहंरूपा तु संवित्ति-
र्नित्या स्वप्रथनात्मिका ।
तेन बोधात्मत्वेन हेतुना, अस्य - स्वात्मतत्त्वस्य,
‘सकृद्विभातोऽयमात्मा’ इति न्यायेन अनवच्छिन्नतया
प्रवृत्ताविरतेन रूपेण पराहंप्रकाशपरामर्शमयस्य, अत
एव स्वयं प्रथस्य - प्रमाणादिनिरपेक्ष्येण स्वतः सिद्धस्य,
विधिः - अप्रवृत्तप्रवर्तनात्मा, पूर्वभावी, तथा सृष्ट्यात्मा -
तत्तत्सिद्धिसाधनस्वभावो न भवतीत्यर्थः । न खलु
बोधस्वभावं स्वात्मतत्त्वं विधिविषयतामापद्यते - तस्य
पं० ५ 'वेद्या हि' इति संपूर्णपदं ग० पुस्तकात्पूरितमस्ति ।
पं० ६ क० ख० पु० बोधात्महेतुनेति पाठः, क० ख० पु० स्वात्मतत्वस्य
इति वाक्यं नास्ति ।
पं० १० क० ख० पु० अनवच्छिन्नतया अविरतेनेति पाठः ।
१६६ श्रीतन्त्रालोकः ।
विधिप्राप्यभावात्, यावदप्राप्तं हि विधेर्विषयः, न च
स्वात्मनः कदाचित् अप्राप्तिरस्ति — आदिसिद्धतया
सर्वदैव स्फुरणात् । ननु विधेर्नियोगभावनाद्यात्मतया
बहुविधत्वमुक्तम्, स्वात्मा पुनः कस्य विधेर्विषयतां
न भजते ? इत्याशङ्क्याह
विधिर्नियोगस्त्र्यंशा च
भावना चोदनात्मिका ॥ १२७ ॥
विधिः अप्रवृत्तप्रवर्तको, न पुनरज्ञातज्ञापकः ।
यदाहुः
'विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् ।
अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥'
इति । स्वर्गयागयोश्च साध्यसाधनभावमवबो-
धयतोऽस्यैव विधेः तावत्प्रवर्तकत्वं — यत् सप्रत्ययस्य
पुंसः 'प्रवृत्तोऽहम्' इति ज्ञानजननम् । स च 'नियोग'
पं० ३ क० पु० सर्वस्फुरणादिति पाठः ।
पं० ४ ख० पु० कस्य तावद्विषयेत्येवंविधः पाठः ।
पं० ६ ख० पु० नियोगस्त्र्यंशश्चेति पाठः ।
पं० ११ ख० पु० न ज्ञातज्ञापनं विधिरिति पाठः ।
पं० १२ ख० पु० अवबोधयतोऽस्यैतावत्प्रवर्तकत्वमिति प्रथमः पाठः ।
पं० १३ क० पु० प्रवृत्तोहम् इत्यारभ्य प्रत्ययवाच्य इत्यन्तः पाठो ग० पुस्त-
कात्पूरितोऽस्ति ।
श्लोक १२७ ] प्रथमाह्निकम् । १६७
इति प्राभाकरैरुक्तः, ‘भावना’ इति भाट्टैः । तत्र
तिङादिप्रत्ययवाच्यः ‘प्रवर्तितोऽहम्’ इति प्रेरणात्मकः
कार्यात्मा अनुष्ठेयो धर्मो नियोगः । स च
‘दर्श-पौर्णमासाभ्यां यजेत स्वर्गकामः ।’
इत्यादावनुबन्धद्वयावच्छिन्नः प्रतीयते । याज्या-
दिना हि अस्य विषयानुबन्ध उच्यते । ‘स्वर्गकामः’
इत्यनेन च अधिकारानुबन्धः, अत एव च द्वयनुबन्ध-
बान्धवो ‘नियोगः’ इत्युद्धोष्यते । कांचिन् क्वचिन्नियुंक्ते
इति नियोगस्वरूपम् इति । ‘भावना’ च भाव्यनिष्ठो
भावकव्यापारः, भाव्यं स्वर्गादिफलं, तन्निष्ठस्त-
दुत्पादकः पुरुषव्यापारो भावना । पुरुषो हि भवन्तं
स्वर्गादिकमर्थं स्वव्यापारेण भावयति इति भावना
इत्युच्यते । सा च द्विविधा - शब्दभावना अर्थभावना
च इति । तस्याश्च किं, केन, कथं भावयेत् इति
अंशत्रयापेक्षत्वात् त्र्यंशत्वम् । तदुक्तम्
‘सा धातोः प्रत्ययाद्वापि भावनावगता सती ।
अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥’
इति । त्र्यंशा इति, तत्रार्थभावनायां ‘किम्’ इत्य-
पेक्षायां स्वर्गः, ‘केन’ इत्यपेक्षायां यागः, ‘कथम्’ इत्य-
१६८ श्रीतन्त्रालोकः ।
पेक्षायां च व्रीह्यादि संबन्धनीयम् । एवं शब्दभाव-
नायामपि, ‘किम्’ इत्यपेक्षायां भाव्या पुरुषप्रवृत्तिः,
‘केन’ इत्यपेक्षायां शब्दः, ‘कथम्’ इत्यपेक्षायाम् अर्थ-
वादवाक्यव्यापारः संबन्धनीयः । चोदना वैदिकं
विधायकं वाक्यम् । यदाहुः
‘चोदनेति क्रियायाः प्रवर्तकं वचनम् ।’
इति । एतच्चोभयत्रापि संबन्धनीयम् । तच्च प्रमाणा-
न्तरप्रतिपन्नमेव अर्थमभिदधत् प्रमाणतां लभते, तं
चार्थं साधयति ।
‘ऐन्द्राग्नमेकादशकपालं निर्वपेत् ।’
इत्यादौ निर्वपणादिवदुद्दिष्टा इन्द्राद्या देवता अपि
विधेयाः–द्रव्यदेवतासंबन्धस्यैव साक्षात्प्रतिपाद्यत्वात्
॥ १२४–१२५–१२६–१२७ ॥
तदेवाह
तदेकसिद्धा इन्द्राद्या
विधिपूर्वा हि देवताः ।
अहंबोधस्तु न तथा
ते तु संवेद्यरूपताम् ॥ १२८ ॥
पं० १८ क० पु० संवेद्यरूपिण इति ख० पु० रूपितामिति पाठः ।
प्रकाशमानत्वात् न स्वसिद्धौ प्रमाणं किंचिदपेक्षते
श्लोक १२६ ] प्रथमाह्निकम् । १६६
उन्मग्नामेव पश्यन्त-
स्त विन्दन्तोऽपि नो विदुः ।
तदुक्तं न विदुर्मां तु
तत्त्वेनातश्चलन्ति ते ॥ १२६ ॥
विधिपूर्वाः-विधिरेव पूर्वं पूर्वभावि अनधिग-
तार्थप्रकाशनात्मकं प्रमाणं यासां ताः तथोक्ताः,
स्वात्मव्यतिरिक्ता हि देवताः वेद्यप्रायाः प्रमाणा-
न्तराप्रतिपन्नाः शास्त्रेण साध्यन्ते इति युक्तः पक्षः।
अहंबोधैकरूपः पुनः स्वात्मा पूर्वोक्तयुक्त्या सदैव
प्रकाशमानत्वात् न स्वसिद्धौ प्रमाणं किंचिदपेक्षते
इति युक्तमुक्तम् - अविधिपूर्वकमिति । तदेवाह अहं-
बोधः इति । तथा इति विधिपूर्व इत्यर्थः । ननु
याद प्रमाणादिनिरपेक्ष्येणैव स्वात्मा स्वयं प्रकाशते
किमिति न सर्वदैव सर्वेषाम् ? इत्याशङ्क्याह - ते तु
इत्यादि । त इति स्वात्मव्यतिरिक्तेन्द्रादिदेवता-
याजकाः, तं सर्वदैव प्रकाशमानं स्वात्मानं - वेद्यवेद-
पं० २ क० पु० तं वदन्तोऽपीति पाठः ।
पं० ४ ख० पु० मूलगीतास्वपि च्यवन्ति ते इति पाठः ।
पं० ६ ख० पु० स चैवेति पाठः ।
० १३ क० पु० प्रमाण्यान्तरनैरपेक्ष्येणैवेति पाठः ।
२२
१७० श्रीतन्त्रालोकः ।
नान्यथानुपपत्त्या तदतिरिक्तस्य च अन्यस्य देवता-
त्वानुपपत्तेः, वस्तुतो विदन्तोऽपि न विदुः — वेद्यताया
एव प्राधान्येन दर्शनात् वेदित्रेकरूपतया न जानीयुः
इत्यर्थः । अतश्च नियततत्तद्देवतादिरूपग्रहणेन
च्यवन्ते इत्यर्थः । तदुक्तं तत्र
'न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते।'
इति ॥ १२८-१२६ ॥
तदेव व्याचष्टे
चलनं तु व्यवच्छिन्न-
रूपतापत्तिरेव या ।
एतदपि तत्रत्येन ग्रन्थेनैव संवादयति
देवान्देवयजो यान्ती-
त्यादि तेन न्यरूप्यत ॥ १३० ॥
तेन इति व्यवच्छिन्नरूपतापत्तिलक्षणेन हेतुना
इत्यर्थः। यदुक्तं
'यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥'
इति ॥ १३० ॥
पं० २ क० पु० वदन्तोऽपीति पाठः ।
श्लोक १३२ ] प्रथमाह्निकम् । १७१
ननु यद्येवं कथमन्यदेवताभक्ता अपि यजन्ति
इत्युक्तम् ? इत्याशङ्क्याह
निमज्ज्य वेद्यतां ये तु
तत्र संविन्मयीं स्थितिम् ।
विदुस्ते ह्यनवच्छिन्नं
तद्भक्ता अपि यान्ति माम् ॥१३१॥
तत्र इति स्वात्मव्यतिरिक्तायां देवतायाम् ।
तद्भक्ताः स्वात्मव्यतिरिक्तदेवतायाजिन इत्यर्थः ।
माम् इति परबोधैकस्वभावम् आत्मानम् । अस्मिन्
परमाद्वयमये संविन्मयतयावस्थानमेव यागः, तत्स-
मापत्तिरेव च फलम् ॥१३१॥
ननु भगवद्वासुदेवेन उक्तस्य 'माम्' इति अस्म-
च्छब्दस्य तदेकवाचकत्वात् कथं बोधमात्राभिधाय-
कत्वमुच्यते ? इत्याशङ्क्याह
सर्वत्रात्र ह्यहंशब्दो
बोधमात्रैकवाचकः ।
पं० १६ क० पु० मात्रैकगोचर इति पाठः ।
प्रकाशादद्वितीयस्य अपोह्यस्य प्रतियोगिनः संभवोऽ-
१७२ श्रीतन्त्रालोकः ।
स भोक्तृप्रभुशब्दाभ्यां
याज्ययष्टृतयोदितः ॥१३२॥
अत्र इति गीताग्रन्थे अनवच्छिन्नस्यैव बोध-
मात्रस्य प्रतिपिपादयिषितत्वात्, अत एव केवल-
स्यैव बोधस्य वाचकः पराम्रष्टा इत्युक्तम् । नहि
प्रकाशादद्वितीयस्य अपोह्यस्य प्रतियोगिनः संभवोऽ-
प्यस्ति — तस्य प्रकाशमानत्वाप्रकाशमानत्वविकल्पो-
पहतत्वात् । यस्तु शरीरादौ ‘कृशोऽहम्’ इत्यादिः
अहंविमर्शः स विकल्प एव — शरीराद्यपेक्षया परस्य
अपोह्यस्य प्रतियोगिनः संभवात् । ननु यदि बोध
एव अप्रतिपक्ष एकोऽस्ति, तत्कथं ‘मां यजन्ति’
इत्यादौ याज्ययष्टृतया भेदः पारमार्थिकः स्यात् ?
इत्याशङ्क्याह — स भोक्तृ इत्यादि । बोध एव
उभयात्मना स्फुरितः इति भावः । तदुक्तं तत्र
‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।’
इति ॥१३१॥
ननु एकश्च उभयात्मा च इति कथं संगच्छताम् ?
इत्याशङ्क्याह