तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 166, कुल 368 में से
संदर्भ में पढ़ें१५६ श्रीतन्त्रालोकः ।
षट्चक्रेश्वरता नाथ-
स्योक्ता चित्रनिजाकृतेः ॥११४॥
चतुर्णां द्विगणनायोगेन अष्टौ, पुनस्तथात्वेन षोड-
श, षण्णां द्विगणनायोगेन द्वादश, पुनस्तथात्वेन
चतुर्विंशतिः इति षण्णां चक्राणामीश्वरता, तत्तत्स-
मुल्लास्यचक्राद्युपाधिवैचित्र्याच्चित्रा — नानाकारा, तद-
तिरिक्तस्य अन्यस्य अनुपसम्भात् निजाकृतिः
यस्य, अत एव नाथस्य स्वातन्त्र्यशालिनः तत्तच्चक्रा-
धिष्ठातुः प्रभोः त्रैशिरसे मते त्रिशिरोभैरवे उक्ता
अभिहिता इत्यर्थः । तदुक्तं तत्र
‘चतुष्कं षट्कोष्ठकं द्वादशारं षोडशारकम् ।
चतुर्विंशारकं देवि प्रविभक्त्या सुसंस्थितम् ॥’
इत्यादि ॥११४॥
बहुप्रकारत्वं चक्राणां भेदनिमित्तमपि त्रिशिरो-
भैरव एवोक्तम्, इत्याह
पं० ३ क० पु० तथात्वे षोडश इति पाठः ।
पं० ६ क० पु० समुल्लासस्य चक्रेति पाठः ।
पं० ११ क० पु० चतुष्कषट्कोष्ठकेति पाठः ।
पं० १२ क० पु० प्रविभक्त्या तथाष्टकमिति पाठः ।