ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
भवतीति यत् तत्तेन ब्रह्म ब्राह्मणजातिमेव च क्षत्रं क्षत्रियजातिमेव च
सयुजी संयुक्ते करोति । अपि च गायत्रीणामृचां साम्न आधारतया प्रथ-
मभावित्वात्, स्तोमस्य च स्तोत्रीयासङ्ख्यात्मकस्य पञ्चदशस्य पश्चा-
द्भावित्वात्, क्षत्रस्य क्षत्रियजातेः पुरस्तात् पूर्वस्मिन् भागे ब्रह्मैव ब्रा-
ह्मणजातिमेव निदधाति, न तावत् पुरस्तान्निधानमात्रं ब्राह्मणजातेः,
अपि तु ब्रह्मणे षष्ठ्यर्थे चतुर्थी ब्रह्मणः क्षत्रञ्च विशञ्च क्षत्रियजातिं
वैश्यजातिञ्च अनुगे अनुगन्ध्यौ करोति ॥ ८ ॥
अथाऽस्मिन्नहनि गायत्रीषु ब्रह्मसामकरणं ब्राह्मणजातेरभिवृद्धिहे-
तुश्चेत्याह—
ब्रह्म वै पूर्वमहः क्षत्रं द्वितीयं यद्गायत्रीषु ब्रह्मसाम
भवति ब्रह्म तद्यशसाऽर्द्धयति ब्रह्म हि गायत्री ॥९॥
पूर्वं प्रायणीयमहर्ब्रह्म वै ब्राह्मणजातिरेव, गायत्रीरथन्तरसम्ब-
न्धात् । तयोश्च ब्राह्मणजात्या सहोत्पन्नत्वात् । द्वितीयमहः क्षत्रं क्षत्रिय-
जातिः । तया सहोत्पन्नानां त्रिष्टुबादीनामत्र सद्भावात् । अतः क्षत्रसंस्तुते
द्वितीयेऽप्यहनि गायत्रीष्वृक्षु ब्रह्मसाम भवतीति यत् तत्तेन ब्रह्म ब्रा-
ह्मणजातिं यशसा कीर्त्या अर्द्धयति समृद्धं करोति । कुत एतत् ? हि
यस्माद्ब्राह्मणजातिरेव गायत्री, छन्दसां मध्ये गायत्र्याख्यं छन्दः ॥ ९ ॥
अथ तृचस्याऽर्थद्वारा समृद्धिहेतुतामाह—
तदु समानं वदन्तीषु क्रियते समृद्धयै ॥ १० ॥
तदु तद्ब्रह्मसाम समानं वदन्तीषु एकरूपमेवाऽर्थं प्रतिपादयन्तीषु
‘एवाह्यसि, एवा शूर, एवा ते राधम्’ इत्यादिना एवशब्देनैवं शब्दपर्यायेण
सदृशस्याऽर्थस्य तत्र प्रतिपादनात् तासु क्रियते । एकस्यैव शब्दस्य
भूयोऽभ्यासात्तत्साम समृद्धयै समृद्धयर्थमेव भवति ॥ १० ॥
अथ तृतीये उक्थस्तोत्रे विकल्पेन सामनी विधत्ते—
आष्टादंष्ट्रे भवतः ॥ ११ ॥
अष्टादंष्ट्रेण ऋषिणा दृष्टे सामनी आष्टादंष्ट्रे । तयोरन्यतरत् इन्द्रं वि-
श्वा इत्यस्मिंस्तृचे अच्छावाकसामत्वेन गातव्यम् ॥ ११ ॥
तयोः साम्नोराद्यौ स्तोभौ वृत्रहननसम्बन्धाविति प्रतिपादयन्
वीर्यवत्त्वं प्रतिपादयति—
ऐयाहा इति वा॑ इन्द्रो वृत्रमहन्नैषादोहोवेति न्यगृ-
ह्णाद्वार्त्रघ्ने सामनी वीर्यवती ॥ १२ ॥
[Header] एकादशाध्याये एकादशः खण्डः । ४२९
ऐयाहा इति पूर्वमाष्टादंष्ट्रे विद्यमानस्तोभः । शब्दानुकरणमेतत् ।
एवं शब्दं कुर्वन् खलु पुरा इन्द्रो वृत्रमसुरमहन् हतवान् । ऐयादो हो
वेति द्वितीयस्य स्तोभः । एतदपि शब्दानुकरणम् । ऐयादो हो वेति श-
ब्दायमानस्तमसुरं न्यगृह्णात् निगृहीतवान् । अत एते सामनी वार्त्रघ्ने
वृत्रहननसाधने वीर्यवती वीर्योपेते ॥ १२ ॥
किं तत इत्याह—
ओज एवैताभ्यां वीर्यमवरुन्धे ॥ १३ ॥
यस्मादुक्तप्रकारेण वीर्योपेते तस्मादेताभ्यां सामभ्यां ओजो बल-
रूपं वीर्यं शत्रुहननसामर्थ्यमवरुन्धे लभते ॥ १३ ॥
अथैषामुक्थानां पूर्ववत् स्तोमं विधाय तत्साध्यफलमाह—
पञ्चदश एव स्तोमो भवत्योजस्येव तद्वीर्ये प्रतिति-
ष्ठत्योजो वीर्यं पञ्चदशः ॥ १४ ॥
पूर्वोक्तः पञ्चदश एवैषां स्तोमो भवति । तत्तेन ओजस्येव ओजोरूपे
बलात्मक एव वीर्ये प्रतितिष्ठति यजमानः प्रतिष्ठितो भवति, यतः प-
ञ्चदशः स्तोमः ओजो वीर्यं ओजोरूपवीर्यात्मकः वीर्यवतोऽङ्गात्
बाहुलक्षणात् प्रजापतिना सृष्टत्वात् । अतः पञ्चदशस्तोमेन वीर्ये प्रति-
ष्ठायुकेतिभावः ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १४ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरबुक्कभूपाल-
साम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये सामवे-
दार्थप्रकाशे ताण्ड्यमहाब्राह्मणे एकादशाध्यायस्य
एकादशः खण्डः ॥
एकादशाध्यायः समाप्तिमगमत् ॥
द्वादशोऽध्यायः ॥
अथ प्रथमः खण्डः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
अथ तृतीये दाशरात्रिकेऽह्नि बहिष्पवमानस्य सप्तदशस्तोमस्य प्र-
थमं तृचं विदधाति—
दविद्युतत्यारुचेति तृतीयस्याऽह्नः प्रतिपद्भवति ॥ १ ॥
प्रतिपद्यते अनेनेति प्रतिपदाद्यस्तृचः । तृतीयस्य सप्तदशस्तोम-
स्योक्थसंस्थस्य पार्ष्टिकस्याऽह्नो बहिष्पवमानस्य दविद्युतत्येत्याद्यस्तृ-
चः कार्यः ॥ १ ॥
अनुष्ठितयोरह्नोस्तृतीयस्य चाऽह्नः सन्धायकानि रूपाणि दविद्युत-
त्येत्यस्यां दर्शयन् त्रिरात्रसन्धानं दर्शयति—
दविदूयुतती वै गायत्री परिष्टोभन्ती त्रिष्टुब्गवाशी-
र्जगती त्रीणि रूपाणि समारभते त्रिरा-
त्रस्याऽविस्रꣳसाय ॥ २ ॥
गायत्रीत्रिष्टुब्जगतीत्येतानि त्रीणि छन्दांसि क्रमेणैतेषां त्रयाणा-
मह्नां रूपाणि । अत्र च दविद्युततीति गायत्र्यभिधीयते । दविद्युततीत्य-
स्य दीप्यमानेति हि शब्दार्थः । गायत्री च अग्निना सहोत्पत्तेस्तेजो-
रूपत्वात् दीप्यमाना भवति । अतः शब्दसामान्येन दविद्युतती शब्देन
गायत्र्येवोपस्थाप्यते, परिष्टोभन्तीशब्देन त्रिष्टुब्द्ब्यक्षराधिकेन गायत्र-
पादेन । स्तोभतीति त्रिष्टुप् परितः स्तोभतीति परिष्टोभन्ती । अतोऽ-
नेन पादेन त्रिष्टुबेवोपस्थाप्यते । परिष्टोभन्त्या रूपेति ह्यत्र द्वितीयः
पादः, सोमाः शुक्रागवाशिर इति तृतीयः । जगती च गवाशीः गोविका-
रेण पयसा आशिरा आश्रयतासाधनेन युक्ता । तृतीयसवनं हि जगत्या
(१)अपात्तरसम् । तत्र चाशिरावनयनं रसवत्त्वाय क्रियते । अतो गवाशिर
इति पदेन जगती सन्निधाप्यते । एतेषां त्रयाणां छन्दसामस्यामृचि
प्रतिपादनात् तानि त्रीणि रूपाणि त्रयाणामह्नां रूपाणि समारभते स-
१. आयतनं.
द्वादशाध्याये प्रथमः खण्डः । ४३१
मूहीकृत्य प्रयुङ्क्ते । किमर्थम् ? त्रिरात्रस्य अनुष्ठितयोरनुष्ठीयमानस्य
त्रयाणामहामविस्रंसाय स्रंसनाभावाय परसम्बन्धाय दार्ढ्यायेति
यावत् ॥ २ ॥
अथाऽनुरूपाख्यं तृचं विधत्ते—
एते असृग्रमिन्दव इत्यनुरूपो भवति ॥ ३ ॥
अनुरूपाख्यो द्वितीयस्तृचो भवतीत्यर्थः ॥ ३ ॥
एते असृग्रमिन्दव इति पदत्रयेण देवमनुष्यपितृसृष्टिरूपोऽर्थः पर्य-
वसाने वृत्या प्रतिपाद्यत इत्याह—
एत इति वै प्रजापतिर्देवानऽसृजतासृग्रमिति मनुष्यानि-
न्दव इति पितॄंस्तदेव तदभिवदति ॥ ४ ॥
एतत् ज्योतिष्टोमप्रकरण एव व्याख्यातम् । प्रजापतिस्सृष्टिसमये एतैः
पदैर्येदेवाऽर्थरूपं ससर्ज तदेवार्थरूपं तत् पादत्रयमभिवदति ॥ ४ ॥
अथाऽस्य तृचस्यानुरूपां संज्ञांन्निब्रुवन् तद्वेदनफलमाह—
पूर्वमुचैव तद्रेपमपरेण रूपेणाऽनुवदति यत्पूर्वं रूप-
मपरेण रूपेणोऽनुवदति तदनुरूपस्याऽनुरूपत्वमनुरूप एनं
पुत्रो जायते य एवं वेद ॥ ५ ॥
एतत् पवस्व वाचो अग्रिय इति द्वितीयस्याऽह्नः प्रतिपद्भवतीतिति ख-
ण्डे व्याख्यातम् ॥ ५ ॥
अथ विहितावेतौ तृचावनूद्य फलान्तरहेतुतामाह—
स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानाना-
मवरुद्ध्यै ॥ ६ ॥
एतदपि तत्रैव व्याख्यातम् ॥ ६ ॥
अथ तृचान्तरं विधत्ते—
राजा मेधाभिरीयते पवमानो मनावध्यन्तरिक्षेण
यातव इति ॥ ७ ॥
राजा मेधाभिरिति बहिष्पवमानस्य तृतीयस्तृचः ॥ ७ ॥
तृतीयेऽहन्यस्य तृचस्य सङ्गतिं वक्तुं अवशिष्टपादद्वयस्याऽनुवादः ।
तामेव सङ्गतिं दर्शयति—
अन्तरिक्षदेवत्यस्तृचो भवत्यन्तरिक्षदेवत्यमेतदह-
र्यत्तृतीयं तदेव तदभिवदति ॥ ८ ॥
[४३२ ताण्ड्यमहाब्राह्मणे]
यत्तृतीयमहरन्तरिक्षदेवत्यं अन्तरिक्षदेवतार्थं अतो अन्तरिक्षेण या-
तव इति तन्मन्त्रवाक्यं तदेवाऽन्तरिक्षदेवत्यमभिवदति ॥ ८ ॥
अथ पञ्चर्चं साम बहिष्पवमानस्य विधत्ते—
पञ्चर्चो भवति पञ्चपदा पङ्क्तिः पाङ्क्तमन्नमन्नाद्य-
स्याऽवरुद्ध्यै ॥ ९ ॥
पञ्चनामृचां समुदायो भवति पञ्चपदा । पञ्चभिरष्टाक्षरैरुपेता
पंक्तिः । अन्नञ्च लेह्यशोष्यद्विभेदेन पांक्तं पंचसंख्यायुक्तम् । अतोऽसौ
पञ्चर्चः तन्त्वा नृम्णानीत्यादिकः पञ्चर्चः अन्नाद्यस्यावरुद्ध्यै सम्पद्यते ॥ ९ ॥
अथाऽन्त्यं तृचं विधत्ते—
तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्यु-
पयन्ति ॥ १० ॥
द्वितीयस्याऽह्नो बहिष्पवमानविधावेतदपि व्याख्यातम् ॥ १० ॥
अथाऽस्य स्तोत्रस्य विहिताभि ऋग्भिः सिद्धां स्तोमक्लृप्तिं ब्रुवन्
विशिष्टफलहेतुतामाह—
सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै ॥ ११ ॥
सप्तदशस्तोत्रीयात्मक एवाऽस्य स्तोत्रस्य स्तोमो भवति । किमर्थम् ?
प्रतिष्ठायै प्रतिष्ठार्थम् । द्वादशमासाः पञ्चर्त्तव इति संवत्सरात्मकः सप्त-
दशः संवत्सरेणैव च पुरुषस्य प्रतिष्ठानात् । सप्तदशस्य तद्धेतुत्वं तथा
प्रजात्यै प्रजात्यर्थं प्रजापतिर्वै सप्तदश इति श्रुतेः । प्रजोत्पत्तिरपि सप्तद-
शस्तोमसाध्येत्यर्थः ॥ ११ ॥
इति ताण्ड्यमहाब्राह्मणे सायणाचार्यविरचिते माधवीये वेदा-
र्थप्रकाशे द्वादशाध्यायस्य प्रथमः खण्डः ।
अथ द्वितीयः खण्डः ।
अथ होतुराज्यस्य स्तोत्रीयं तृचं दर्शयति—
अग्निनाग्निः समिध्यत इत्याग्नेयमाज्यं भवति ॥ १ ॥
आग्नेयमग्निदेवत्यं होतुराज्यं स्तोत्रं अग्निनाऽग्निरित्यादिकस्तृचो भ-
वतीत्यर्थः ॥ १ ॥
अस्मिंस्तृचे विद्यमानस्याऽग्निनाग्निरित्यग्निशब्दद्वयस्य पर्यवसित-
मर्थमाह—
पूर्वे एव तदहनी समिद्धे तृतीयमहरभिसमिन्धे ॥ २ ॥
द्वादशाध्याये द्वितीयः खण्डः । ४३३
तत्सेनाऽग्निरिति शब्देन समिद्धे सम्यग्दीप्ते पूर्वे एवाऽहनी अभि-
लक्ष्य तृतीयमिदमहः समिन्धे सन्दी॒पयति । अयमर्थः-अग्निनेति तृतीया-
न्तेन पदेन 'अग्न आयाहि वीतये' 'अग्निं दूतं वृणीमह' इत्याज्याभ्यां यद-
नुष्ठितं पूर्वमहर्द्वयं तदेवोपलक्ष्य तेन सह पुनरग्निशब्दाभिधेयमेतदहः
समिन्द्ध इति ॥ २ ॥
अथ द्वितीयमाज्यस्य स्तोत्रीयं तृचं विधत्ते—
मित्रँ॑हुवे पूतदक्षमिति राथन्तरम्मैत्रावरुणम् ॥ ३ ॥
मित्रं हुव इति तृचः राथन्तरं रथन्तरसम्बन्धि मैत्रावरुणेन य-
दाज्यस्तोत्रमनुशस्यते तद्भवतीत्यर्थः ॥ ३ ॥
कुतोऽस्य रथन्तरसम्बन्धित्येत आह—
हुव इति वै राथन्तरँ॑ रूपम् ॥ ४ ॥
प्राकृतिके राथन्तरे प्रगाथे
": 'य' in line 7 "मैन्द्राग्नम्" has no loop.
Now look at the first letter of this word: it has a top horizontal bar, then a round loop on the left, then another loop, and attaches to the vertical bar. That is undeniably 'घ'!
Wait, but is it 'घ' or 'ध'? It has a full top bar, so it's 'घ'.
Wait, could it be 'य' with an ink blob? No, it's a clear 'घ'.
Wait, what is the next letter?
The next letter is 'यो'!
So it is "घयोरिदमिति"!
I will transcribe it as "घयोरिदमिति" (or note the reading if needed, but the prompt says: "transcribe ... pure, clean Markdown in Unicode Devanagari ... strictly adhere to the glyphs, words, ligatures ... faithful transcription of the text as printed").
Wait, could it be "यद्योरिदमिति"?
No, there is only one letter before 'यो': that letter is 'घ'. So it is "घयोरिदमिति".
Wait, let's look at line 8:
"ता हुव इति तृचः राथन्तरं रथन्तरसम्बन्धि ऐन्द्राग्नं इन्द्राग्निदेवतयं"
Wait, look at "इन्द्राग्निदेवतयं":
Is it "देवतयं" or "दैवतं यं"?
Wait!
द्वादशाध्याये तृतीयः खण्डः । ४३५
उद्वत्त्रिवद्दिग्वदित्यादिना तृतीयेऽहनि रूपत्वेनोद्वत्त्वं परिगणितम् । तदु-
द्वत्त्वलक्षणं रूपमेव तदुच्चा त इति वाक्यं वदति । यद्यप्यस्मिन् उदि-
ति पृथक्पदं न (१) श्रूयते तथाऽप्युच्चा त इत्यत्र प्रथमपदस्याऽवयवभूतो
य उच्च्छब्दः तदपेक्षयैवेयं स्तुतिर्द्रष्टव्या ॥ २ ॥
अथैतस्मिन् तृचे पदान्तरस्य श्रवणात् पवमानस्याऽऽरम्भयोग्यस्तृ-
च इति दर्शयति—
अन्धस्वती भवत्यहर्वा अन्धोऽह्न आरम्भः ॥ ३ ॥
अन्धस्वती अन्धश्शब्दयुक्ता उच्चा ते जातमन्धस इत्येषा भवति ।
अन्धः इति सकारान्तमन्ननाम । अत्र तु तत्साधनेऽहनि वर्त्तत इति
व्याचष्टे-अहर्वा अन्ध इति । यदिदं दशरात्रस्य तृतीयमहः एतदेवाऽ-
न्धश्शब्दसामान्येन स्तुतिः । तथा सत्यन्धश्शब्दप्रयोगादह एव आर-
म्भ उपक्रमः कृतो भवति ॥ ३ ॥
अथाऽन्यं प्रगाथं विधत्ते—
अभि सोमास आयव इति ॥ ४ ॥
स्पष्टोऽर्थः ॥ ४ ॥
बृहद्रथन्तरयोः प्रत्येकं असाधारणमन्यत्र सिद्धं तद्रूपद्वयं तद-
स्मिन्नहनि प्रदर्शयन् तयोस्साम्नोरस्मिन्नहनि सम्बन्धमाह--
अभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह
रूपमुपैत्युभौ हि वर्णावेतदहः ॥ ५ ॥
अभि सोमास इत्यत्र यो अभीति शब्दः एतद्रथन्तरस्य रूपम् , अभि-
त्वा शूरेति तद्योन्यां दृष्टत्वात् , तथाऽस्मिन् प्रगाथे प्रहिन्वान ऋतं बृह
दिति बृहच्छब्दः श्रूयते । स च बृहतस्साम्नो वाचकत्वात्तस्यैव बृहतो रूपम्।
एवं सत्युभयोर्बृहद्रथन्तरयोः सह सहितं संहतं रूपमस्मिन् तृतीयेऽ-
हन्युपैति । हि यस्मात् एतत्तृतीयमहरुभौ वर्णौ बृहद्रथन्तरयोरुभयोरपि
यावाकारौ तादृगाकारद्वयात्मकमित्यर्थः । सृष्टिसमये बृहद्रथन्तरे मिथु-
नीभूय पश्चाद्रथन्तराद्वैरूपस्योत्पत्तेः तत्पृष्ठकस्य तृतीयस्याऽह्नः उभय-
वर्णात्मकत्वम् । अत्र चैतरेयकं सृष्टिप्रतिपादकं ब्राह्मणं पूर्वमेवो-
दाहृतम् ॥ ५ ॥
अथ तृचान्तरं विधत्ते--
तिस्रो वाच ईरयति प्रवह्निरिति तृतीयस्याऽह्नो रूपं
तेन तृतीयमहरारभन्ते ॥ ६ ॥
१. गृह्यत इति. ख. पु. ।
तिस्रो वाच इत्ययमन्त्यस्तृचः कार्य्यः । तत्र तिस्र इति त्रिशब्दः
श्रूयते । तच्च तृतीयस्याऽह्नो रूपं प्रत्यभिज्ञापकत्वात् । अत एव उद्बन्त्रि-
वद्भिगवदित्यादिना पूर्वं त्रित्वयोगस्य तृतीयेऽहनि रूपत्वमुक्तम् । तेन
कारणेन त्रित्वसंख्यावाचकेन तिस्र इत्यनेन तृतीयमेवाऽहरारभन्ते
अवलम्बन्ते ॥ ६ ॥
ननु गायत्रं प्रथममहस्त्रैष्टुभं द्वितीयं जागतं तृतीयमिति प्रसि-
द्धत्वात् कथमस्य त्रैष्टुभस्य तृचस्य जागतेऽहनि सङ्गतिरिति तत्राह--
त्रिष्टुभः सत्यो जगत्यो रूपेण जागतꣳ ह्येतदहः ॥७॥
तृतीयस्याऽह इव जागतस्य छन्दसोऽपि त्रित्वं रूपम्, छन्दसां मध्ये
तस्य तृतीयत्वात् । यस्मादेतास्त्रैष्टुभः सत्योऽपि रूपेण जगत्याः सम्ब-
न्धिना त्रित्वादिलक्षणेन युक्ताः तस्मादेता जगत्यः एतदहश्च जागतम्।
अतोऽस्मिन्नहनि विनियोगार्हा इत्यर्थः ॥ ७ ॥
अथोच्चा त इति प्रथमे तृचे पूर्ववद्गायत्रं साम विधाय प्राकृतिकं त-
द्ब्राह्मणञ्चाऽतिदिशति--
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् ॥ ८ ॥
सिद्धमेतत् ॥ ८ ॥
अथ पुनरावृत्तेऽस्मिन्नेव तृचे सामान्तरं विधत्ते--
वैष्टम्भं भवति ॥ ९ ॥
यत् क्षुल्लकवैष्टम्भमिति सम्प्रदायप्रसिद्धं तदस्मिन् तृचे कार्य्य-
मित्यर्थः ॥ ९ ॥
अथाऽस्यैतत्संज्ञानिर्वचनद्वारेण अहर्दाढ्यहेतुतामाह--
अहर्वा एतद्वलीयत तद्देवा वैष्टम्भैरव्यष्टभ्नुवꣳस्त-
द्वैष्टम्भस्य वैष्टम्भत्वम् ॥ १० ॥
एतत्तृतीयमहः खलु पुरा अवलीयत अहिंस्यत व्लीनातिर्हिंसाकर्म्मा
शिथिलावयवं जातमित्यर्थः । तत्तदवस्थमहः देवाः वैष्टम्भैरस्य सा-
म्नोऽवयवैर्व्यष्टभ्नुवन् विष्टब्धं विशेषेण स्थिरमकुर्वन् । तत्तस्मात् वि-
ष्टम्भनसाधनत्वादस्य वैष्टम्भस्य साम्नो वैष्टम्भत्वं वैष्टम्भमिति संज्ञा
संजाता ॥ १० ॥
अथाऽस्य निधनं दिशां धृतिहेतुरित्याह--
दिश इति निधनमुपयन्ति दिशां धृत्यै ॥ ११ ॥
स्पष्टोऽर्थः ॥ ११ ॥
- wait, is there an r-stroke:
प्र? Wait, no, it looks likeपरपञ्चर?
Wait, how many characters betweenपापनिवृत्तिandक. ख. पु. ।?
Let's look:
२. पापनिवृत्ति[space]
Then:
Char 1:प
Char 2:र
Char 3:प
Char 4:श्च? orञ्च?
Char 5:र?
Char 6:मि
Char 7:ति
Wait! Count: 1, 2, 3, 4, 5, 6, 7?
Wait, let's re-read the main text L15:
अथाऽस्य संज्ञानिर्वचनद्वारेण(२) पापनिवृत्तिपुरस्सरं शुद्धिहेतुतामाह-
The footnote marker(२)is right afterद्वारेण:द्वारेण(२)!
Wait, where is(२)?
Look at L15:अथाऽस्य संज्ञानिर्वचनद्वारेण(२) पापनिवृत्तिपुरस्सरं
Ah! Footnote(२)is onपापनिवृत्तिपुरस्सरं!
४१८ ताण्ड्यमहाब्राह्मणे
अस्य साम्नः पूर्वमाम्नातं ब्राह्मणमत्राऽप्यतिदिशति—
यदेव गौतमस्य ब्राह्मणम् ॥ १६ ॥
गौतमं भवति सामार्षेयवत् स्वर्गाय युज्यत इत्यादिकं तदेव चाऽत्रा-
ऽपि द्रष्टव्यमित्यर्थः ॥ १६ ॥
अथाऽस्मिन् साम्नि पादस्याऽऽद्यन्तयोः स्तोभमाम्नायते हावभिसो-
मास आयवो हा ऊ इति । तदेतदस्मिन्नहनि सङ्गतिमाह—
उभयतः स्तोभं तथा ह्येतस्याऽह्नो रूपम् ॥ १७ ॥
उभयतः पादस्य आद्यन्तयोः स्तोभो यस्य तत्तथोक्तम् तथैव ख-
ल्वेतस्य तृतीयस्याऽह्नो रूपमुक्तं प्राक्—यदुभयतः स्तोभं तत्तृतीयस्ये-
त्यादिना ॥ १७ ॥
अथाऽस्मिन्नेवाऽऽवृत्ते तृचे सामान्तरं विधत्ते—
अन्तरिक्षं भवति ॥ १८ ॥
पिबा सुतस्य रसिन इत्यस्यामुत्पन्नं सामाऽन्तरिक्षम् , तत्तस्मिन्
तृचे गातव्यमित्यर्थः ॥ १८ ॥
साम्नोऽह्नश्च सङ्गतिं दर्शयति—
अन्तरिक्षदेवत्यमेतदहर्यत्तृतीयमन्तरिक्ष एव तद-
न्तरिक्षेण स्तुवते प्रतिष्ठायै ॥ १९ ॥
यदेतत्तृतीयमहः एतदन्तरिक्षदेवत्यं अन्तरिक्षदेवतार्थं अन्तरिक्षमस्य
देवतेत्यर्थः । तथा सति अन्तरिक्षदेवत्यत्वात् अन्तरिक्षे अन्तरिक्षात्म-
क(१) एवैतस्मिन्नहनि अन्तरिक्षेण साम्ना स्तुवते स्तुवन्ति । निराधारेऽ-
न्तरिक्षे स्तवनात् तच्च प्रतिष्ठायै प्रतिष्ठानाय (२)आस्पदाय भवति॥१९॥
नृभिर्येमाण इति द्विपदा अभि सोमास इत्यस्याऽवसान आम्नाता
प्रहिन्वान इति पूर्वेण पादेनाऽभ्यस्तायां तस्यामेकं साम गेयमिति
विधत्ते—
आष्कारणिधनं काण्वं भवति ॥ २० ॥
आष्कार आष् इति शब्दो निधनं यस्य तथाविधं काण्वं नृभिर्ये-
माण इत्यस्यां गातव्यम् । पूर्वयोरह्नोः प्रयुक्तयोर्बृहद्रथन्तरयोर्ये निधने
तद्विलक्षणत्वमस्य निधनस्य प्रतीयते ॥ २० ॥
अतो निधनानां बहुत्वात्समृद्धिर्भवतीत्याह—
असिति वै राधन्तरं रूपं हासिति बार्हतं तृतीयमेव
तद्रूपमुपयन्ति समृद्धयै ॥ २१ ॥
१. इत्येतस्मिन्निति क. ख. पु. । २ अभ्यादानायेति. क. ख. पु. ।
द्वादशाध्याये चतुर्थः खण्डः। ४३९
अस् इति राथन्तरं रथन्तरसम्बन्धिरूपम्, हासिति बार्हतं बृहतः
सम्बन्धि। तयोर्ह्यैते निधने। एतदाष् इति रूपं तृतीयमेव उभयविल-
क्षणमन्यदेव त्रिसंख्यापूरकमुपयन्ति उपगच्छन्ति प्रयुञ्जते। तथा सति
निधनबहुत्वापादकमेतत्तृतीयस्य निधनस्योपायनं समृद्धयै यजमानस्य
पश्वादिभिः समर्द्धनाय अभिवृद्ध्यै सम्पद्यते॥ २१॥
अथ तिस्रो वाच इत्यस्मिन् त्रैष्टुभेऽन्तिमे तृचे एकं साम विदधाति-
आङ्गिरसाꣳ संक्रोशो भवति॥ २२॥
अङ्गिरसां संक्रोश इति साम्नः संज्ञा। तदस्मिन् तृचे गेयमित्यर्थः२२॥
एतत्संज्ञार्थं ब्रुवन् अस्य स्वर्गप्राप्तिसाधनतामाह-
एतेन वा आङ्गिरसः संक्रोशामानाः स्वर्गं लोकमायन्
स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान् न च्यवते तुष्टु-
वानः स्तोमः॥ २३॥
अङ्गिरसो नाम केचिदृषयः। ते पुरा एतेन खलु साम्ना साधनेन संक्रो-
शमानाः संहृत्य शब्दं परस्पराह्वानरूपं प्रियवाक्यं वदन्तः स्वर्गं लोक-
मायन्। अतोऽस्य साम्नोऽङ्गिरसांसंक्रोश इति संज्ञेत्यभिप्रायः। अत एत-
त्साम स्वर्गस्य लोकस्यानुख्यात्यै अनुख्यानाय अनुक्रमेण सम्यगनुभ-
वाय भवति। अपि च तुष्टुवानः स्तुतवानपि स्वर्गात् लोकान्न च्यवते
न प्रच्युतो भवति। स्तोमश्च पूर्वोक्तः सप्तदश एव विहितेषु सामसु क्रि-
यमाणेषु सम्पद्यत इत्यर्थः॥ २३॥
इति ताण्ड्यमहाब्राह्मणे सायणीये वेदार्थप्रकाशे
द्वादशाध्यायस्य तृतीयः खण्डः॥
अथ चतुर्थः खण्डः॥
अथ होतुः पृष्ठस्य स्तोत्रीयं तृचं विधत्ते-
यद्याव इन्द्र ते शतमिति शतवत्यो भवन्ति ॥ १ ॥
यद्यप्येष प्रगाथस्तथापि(१) प्रग्रथनेन त्रित्वात् शतवत्यः शतशब्द-
युक्ता भवन्तीति बहुवचनम् ॥ १ ॥
किं तत इत्याह-
शतवद्वै पशूनाꣳ रूपꣳ सहस्रवत्पशूनामेवैताभी रू-
पमवरुन्धे ॥ २ ॥
१. प्रगाथेनेति. क. ख. पु. ।
४४० ताण्ड्यमहाब्राह्मणे
पशूनां गवादीनां रूपं स्वरूपं शतवत् शतसंख्यायुक्तं तथा सह-
स्रवत् सहस्रसंख्यायुक्तञ्च भवति पशूनां नानारूपत्वात् । एताभिः
शतवतीभिर्ऋग्भिः पशूनामेव तदपरिमितं रूपमवरुन्धे लभते ॥ २ ॥
अथ ब्रह्मणः पृष्ठस्य स्तोत्रीयं तृचं विदधाति—
वयङ्घत्वा सुतावन्त इति सतोबृहत्यो वर्षीयश्छ-
न्द आक्रमतेऽनपभ्रंशाय ॥ ३ ॥
वयं घत्वेत्येतास्तिस्रः सतोबृहत्यः स्तोत्रीया भवन्ति । यद्यप्येता-
स्तिस्रो बृहत्यस्तृतीयपादस्य द्वादशाक्षरत्वात् , सतोबृहत्यास्तु प्रथम-
तृतीयौ द्वादशाक्षरौ, अयुजौ जागताविति हि तल्लक्षणम्, तथाऽप्येतासां
सतोबृहतीत्वम्। तथा सति बृहत्याः सकाशात् वर्षीयो वृद्धतरं सतोबृह-
त्यात्मकं छन्द आक्रमते अवष्टभ्नोति । किमर्थम्? अनपभ्रंशाय । न्यूनस्य
छन्दस आक्रमणं अपभ्रंशः । सामावयवस्य(१) भ्रंशोऽपगमः स्यात्
तदभावार्थम् ॥ ३ ॥
अथाऽच्छावाकपृष्ठस्य स्तोस्त्रीयं तृचं दर्शयन् तस्य प्रतिष्ठाहेतु-
तामाह—
तरणिरित्सिषासति वाजं पुरन्ध्या युजा । आव इन्द्रं
पुरुहूतं न मे गिरेत्यावदक्षरमुद्धतमिव वै तृतीयमह-
र्यद्देव तावदक्षरं भवत्यहरेवैतेन प्रतिष्ठापयति ॥ ४ ॥
तरणिरित्सिषासतीति प्रगाथस्तृचीकृतोऽच्छावाकपृष्ठस्य स्तोत्रीयः
तत्र च आव इन्द्रं पुरुहूतं न मे गिरेत्याम्नायते । यद्यपि आव इति उपसर्गो
युष्मदादेशश्च पदद्वयम्, तथाऽपि साहचर्यात् आवदक्षरं अवति धातुनि-
ष्पन्नं आव इत्येकं पदं बुद्धौ सन्निधीयते । तृतीयमहश्च उद्धतमिव उत्सा-
दितमिवाऽप्रतिष्ठितं यदेतत् पूर्वोक्तमावदक्षरं भवति एतेनाऽहरेव प्रति-
ष्ठापयति । अवतेर्हि रक्षणमर्थः । तेन च तत्कार्य्यस्थापनं लक्ष्यते ।
अतोऽनेन प्रतिष्ठाप्रतिपादनमुपपन्नम् ॥ ४ ॥
अथ पृष्ठस्तोत्रस्य निर्वर्त्तकं साम दर्शयति—
पञ्चनिधनं वैरूपं पृष्ठं भवति दिशां धृत्यै ॥ ५ ॥
दिशं विशं हस् इत्यादीनि पञ्च निधनानि यस्य तत्पञ्च निधनंवैरूपं
यद्याव इति तृचे क्रियमाणं प्रथमं पृष्ठस्तोत्रं भवति । दिशं विशं हस् अ-
श्वाञ्जिगुमतीति देवतावाचकं वाक्यद्वयं(२) स्वाध्यायपाठे वैरूपस्य यो-
१. भ्रष इति. क. ख. पु. । २. स्वकीयपाठे इति ख. पु. ।
द्वादशाध्याये चतुर्थः खण्डः । ४४१
नौ उपरिष्टादाम्नातं प्रयोगसमये उत्तरार्द्धर्चर्चस्य प्रथमपादात् पूर्वं दिशं
विशामिति प्रयोक्तव्यम् । अश्वा शिशुमतीति द्वितीयपादात् पूर्वमेतत्पाद-
द्वयं देवतावाक्यद्वयं च मिलित्वा चत्वारि निधनानि, इड् इडेति प-
ञ्चमं निधनम् । तदुक्तं सूत्रकृता-देवतापदं देवतापदमिति वैरूपे नि-
धनानि इति । तानि पञ्च निधनान्यस्मिन् साम्नि प्रयुज्यमानानि
दिशां प्राच्यादीनां मध्यादिक्सहितानां पञ्चानां धृत्यै धारणा-
य सम्पद्यते ॥ ५ ॥
अपि चाऽन्नाद्यहेतुश्चैतत्सामेत्याह—
पञ्चपदा पङ्क्तिः पाङ्क्तमन्नमन्नाद्यस्याऽवरुद्ध्यै ॥ ६ ॥
अस्मिन् साम्नि पञ्च निधनानि दृश्यन्ते । पङ्क्तिश्च पञ्चपदा पञ्चभिः पादै-
रुपेता पाङ्क्तं अन्नं पङ्क्तिसम्बद्धं पञ्चसङ्ख
करोति, प्रतितिष्ठन्तं यजमानमनु पश्चादुद्गाता स्वयमपि प्रतितिष्ठति
य उद्गाता एवं विद्वान् उक्तप्रकारं ब्राह्मणार्थञ्जानन् वैरूपेणोद्गायति
उद्गानं करोति ॥ ९ ॥
दिक्छन्दवत्त्वमनूद्य स्तौति—
दिग्वद्भवति भ्रातृव्यस्याऽपनुत्त्यै ॥ १० ॥
दिग्वत् दिक्छन्दयुक्तमेतत्साम भवति भ्रातृव्यस्य शत्रोरपनुत्यै
दिग्भ्यः सकाशादपनोदार्थम् ॥ १० ॥
अथाऽस्य प्रथमं निधनमनुवदन् प्राक्प्रदर्शितं दिग्धारणमनेन ल-
क्ष्यमित्याह—
दिशं विशमिति निधनमुपयन्ति दिशां धृत्यै ॥ ११ ॥
दिशं विशमिति प्रथमं निधनमुपयन्ति ब्रुवन्त्युद्गातारः । दिक्छ-
ब्देन सन्निधापितानां सर्वासां दिशां धृत्यै धारणायैतन्निधनं सम्पद्यत
इत्यर्थः ॥ ११ ॥
अथ निधनान्तरं दर्शयति--
हसित्युपरिष्टाद्दिशां निधनमुपयन्ति तेन बार्हतम् ॥ १२॥
दिशामुपरिष्टाद्दिशं विशमित्यस्मादूर्ध्वं हस् इति निधनमुपयन्ति ।
तेनैतत्साम बार्हतं बृहतः सम्बन्धि भवति । हसिति हि तस्य निघ-
ने रथन्तरादुत्पत्तेर्वैरूपस्य प्राग्दर्शितत्वात् राथन्तरञ्च भवति ॥ १२ ॥
किमतस्तदाह—
राथन्तरो वा अयं लोको बार्हतोऽसावुभे एव त-
द्बृहद्रथन्तरयो रूपेणाऽपराध्नोति ॥ १३ ॥
अयं भूलोको राथन्तरो वै रथन्तरसम्बन्धी, असौ द्युलोको बार्हतो
बृहतस्सम्बन्धी तत्तथा सति बृहद्रथन्तरयोः सम्बन्धिना रूपेणा-
ऽस्मिन् साम्नि दृश्यमानेन उभे एव द्यावापृथिव्यौ अपराध्नोति
अपेत्ययं वीत्यस्यार्थे व्यपराध्नोति लोकद्वयेऽप्यसन्दिग्धः समृद्धो
भवति ॥ १३ ॥
रूपद्वयकरणस्य प्रयोजनान्तरमाह—
अनड्वाहौ वा एतौ देवयानौ यजमानस्य यद्बृह-
द्रथन्तरे तावेव तद्युनक्ति स्वर्गस्य लोकस्य समष्ट्यै ॥१४॥
अनड्वाहौ अनड्वाहाविव एतौ वाहनभूतौ यजमानस्य देवयानौ
देवलोकप्राप्तिसाधनौ यत् ये बृहद्रथन्तरे तत्तथा सति बृहद्रथन्तरयोः
सम्बन्धिना रूपेण वैरूपगतेन तावेव देवयानौ वाहौ युनक्ति योजयति ।
किमर्थम् ? स्वर्गस्य लोकस्य समष्ट्यै सम्प्राप्त्यै ॥ १४ ॥
अथ निधनान्तरमनूद्य स्तौति-
अश्ववद्भवति प्रजात्यै ॥ १५ ॥
अश्वा शिशुमतीत्यश्वशब्दयुक्तं निधनं भवति प्रजात्यै प्रजातिरु-
त्पत्तिः पुत्रादीनामुत्पत्त्यर्थम् । अश्वा शिशुमतीति शिशुभिर्बालैरेवैरूपेता
वडवा प्रतीयते । अतः प्रजातिहेतुता युक्तेत्यर्थः ॥ १५ ॥
नन्वेतस्मिन् साम्नि बहूनां निधनानां प्रयोगे नीरसत्वं स्यादित्या-
शङ्क्याह-
यथा मण्डूक आदू करोत्येवं निधनमुपयन्त्ययातया-
मतायै ॥ १६ ॥
यथा खलु मण्डूको लोके वृष्ट्यनन्तरमाट् करोति आट् आट् इत्ये-
वं शब्दं स्वरभेदेन विलक्षणमेव करोति एवं निधनमप्येते विभिन्नस्व-
रमेवोपयन्ति उपगच्छेयुः । किमर्थम् ? अयातयामतायै नीरसत्वाभावाय
रसातिशयजननार्थमित्यर्थः ॥ १६ ॥
अथैतत्साम संवत्सरे प्रतिष्ठासाधनमित्याह--
द्वादश वैरूपाणि भवन्ति द्वादशमासाः संवत्सरः
संवत्सर एव प्रतितिष्ठति ॥ १७ ॥
यद्याव इत्यस्यामृच्येव वैरूपमुत्पन्नम् । तत्र च ऋगक्षरव्यतिरिक्तानि
द्वादशसंख्यानि वैरूपाणि वैरूप्यापादकानि रूपाणि भवन्ति । तानि च
तु वा हि हे इत्यादीनि द्रष्टव्यानि । द्वादशसंख्याका मासाः संहताः सं-
वत्सरो भवति द्वादशमासात्मकः संवत्सर इत्यर्थः । अतोऽस्मिन्
साम्नि द्वादशसंख्यायोगात् द्वादशमासात्मके संवत्सर एव प्रतिति-
ष्ठति यजमानः प्रतिष्ठितो भवति ॥ १७ ॥
अथाऽनेन संवत्सरव्याप्तिद्वारेणाऽन्नाद्यहेतुरप्येतत्सामेत्याह--
विरूपः संवत्सरो विरूपमन्नमन्नाद्यस्याऽवरुद्ध्यै ॥ १८ ॥
उक्तप्रकारेण संवत्सरो विविधरूपः । अन्नमपि विरूपं व्रीहियवादि-
भेदेन विविधाकारम् । अतः संवत्सरान्नयोः सादृश्यात् संवत्सरे प्रति-
ष्ठानेनाऽन्नाद्यस्य अत्तुं योग्यस्याऽन्नस्याऽवरुद्ध्यै अवरोधाय लाभाय
भवति ॥ १८ ॥
अथ वयं घत्वेति तृचे गातव्यं साम दर्शयति--
महावैष्टम्भं ब्रह्मसाम भवत्यन्नाद्यस्याऽवरुद्ध्यै ॥ १९ ॥
४४४ ताण्ड्यमहाब्राह्मणे
महावैष्टम्भाख्यं साम ब्रह्मणः पृष्ठस्तोत्रत्वेन कर्त्तव्यम्। तच्चाऽन्नाद्य-
स्याऽवरोधार्थं भवति ॥ १९ ॥
तत्कथमन्नेनाऽन्नाद्यस्याऽवरोधस्तदाह--
यदा वै पुरुषोऽन्नमत्त्यथाऽन्तरतो विष्टब्धः ॥ २० ॥
यदा वै यस्मिन् काले हि पुरुषो देही अन्नमत्ति भक्षयति अथाऽन-
न्तरमेव अन्तरतःशरीरमध्ये विष्टब्धो विशेषेण स्तब्धो भवति। अतोऽ-
न्नस्य विष्टम्भनहेतुत्वात् वैष्टम्भस्य साम्नो विष्टम्भहेतुभूतस्याऽन्नस्या-
ऽवरोधकत्वम् ॥ २० ॥
अथाऽस्य निधनं प्रदर्शयन् तस्य प्रयोजनमाह--
दिश इति निधनमुपयन्ति दिशां धृत्यै ॥ २१ ॥
दिश इति निधनद्वारा दिशां वैष्टम्भसम्बन्धात्तासां धृति(१)र्द्धारणं
नैश्चल्येनाऽवस्थानं वैष्टम्भेन कृतं भवतीत्यर्थः ॥ २१ ॥
अथाऽस्य साम्न आधारभूतानामृचां छन्दोद्वारेण स्तौति--
सतो बृहतीषु स्तुवन्ति पूर्वयोरह्नोः प्रत्युद्यमाय ॥ २२ ॥
सतोबृहतीषु ऋक्षु स्तुवन्ति यस्याः प्रथमतृतीयौ पादौ द्वादशा-
क्षरौ द्वावष्टाक्षरौ सा सतोबृहती। एतत्सतोबृहतीषु स्तवनं पूर्वयोः
प्रथमद्वितीययोरह्नोः प्रत्युद्यमाय प्रतिरूपत्वेनोद्यमनाय उच्छ्रयणाय
भवति। तत्र हि बृहतीषु ब्रह्मसाम भवति अस्मिन्नहनि तु सतो बृहती-
ष्विति अधिकाक्षरत्वात् ताभ्यामहोभ्यामेतदहरुच्छ्रितं भवति ॥ २२ ॥
अथ तरणिरित्सिषासतीति तृचे गातव्यं साम विधत्ते--
रौरवमच्छावाकसाम भवति ॥ २३ ॥
रौरवाख्यं साम अच्छावाकपृष्ठस्तोत्रत्वेन तरणिरित्सिषासतीति
तृचे कार्यम् ॥ २३ ॥
अनेन साम्ना स्तवनस्य पश्वभिक्रमणहेतुत्वं विवक्षुस्तदर्थं रौरवे-
णाग्नेः सम्बन्धमाह--
अग्निर्वै रुरो रुद्रोऽग्निः ॥ २४ ॥
एतेन खलु साम्ना पुरा रुरोऽत्यर्थं शब्दायमानो रुद्रस्तीक्षणो
रुद्रात्मको वा अग्निः पशुलक्षणं वीर्य्यं प्राप्नोत्। अत एवाऽस्य रौरवमि-
ति संज्ञा अग्नेः पश्वाधिपत्यञ्च जातम् ॥ २४ ॥
एतच्च तद्देवा यशो व्यभजन्त तस्याग्नी रौरवं प्राबृहतेत्यादिना
१. रक्षणमिति क. ख. पु. ।
द्वादशाध्याये पञ्चमः खण्डः । ४४५
प्रागाम्नातम् । किमतो भवति ? तदाह—
अग्नि॒र्वा ए॒तस्य॑ प॒शूनप॑क्रमयति॒ यस्य॑ प॒शवोऽप॑-
क्रामन्त्य॒ग्निरे॒व तस्य॑ प॒शून॒भिक्र॑मयति॒ यस्य॑ प॒शवो॑-
ऽभिक्र॑ामन्ति ॥ २५ ॥
यस्मादुक्तप्रकारेण रुद्रात्मकोऽग्निरनेन साम्ना पशून्(१)प्रापत् त-
स्मादग्निरेव एतस्य पशूनपक्रमयत्यपगमयति यस्य यजमानस्य पशवो-
ऽपक्रामन्त्यपगच्छन्ति। यस्य च पशवोऽभिक्रामन्ति अभिमुखमाप्नुवन्ति
यस्य यजमानस्याऽग्निरेव तस्य पशूनभिक्रमयति प्रापयति अपक्रमणा-
भिक्रमणयोरुभयोरग्निरव कारयितेत्यर्थः॥ २५ ॥
इत्थमग्नेः पशुस्वामित्वं जानतो रौरवेण स्तुवतः फलमाह—
अ॒भ्य॑भ्येवाऽस्य॑ प॒शवः॑ क्रामन्ति॒ य ए॒वं वि॒द्वान्
रौर॑वेण स्तु॒वते॑ ॥ २६ ॥
एवमुक्तमर्थं विद्वान् जानन् यो रौरवेण स्तुवते स्तौति अस्य पशवो-
ऽभ्यभ्येव क्रामन्ति सर्वदाऽभिमुखा एव प्राप्नुवन्ति । न तु कदाचि-
त्पराङ्मुखा गच्छन्तीत्यर्थः ॥ २६ ॥
अस्मिन् साम्नि विद्यमानमिडाविशेषं प्रदर्श्य तृतीयेऽहनि(२) तस्या-
ऽऽनुरूप्यमाह—
प॒रि॒ष्टुब्धेडं॒ तथा॒ ह्येत॒स्याऽह्नो॑ रू॒पꣳ स्तोमः॑ ॥ २७ ॥
परिष्टुब्धा परितः स्तोभयुक्ता इडा औ २३ हो वा हो ५ इडा इत्येवं-
रूपा यस्य तत्परिष्टुब्धेडं इदं रौरवम्, तथा ह्येतस्य तृतीयस्याऽह्नो
रूपं प्रागुक्तं 'परिष्टुब्धेडं तृतीयस्ये'ति । एतेषु पृष्ठस्तोत्रेषु स्तोमः
पूर्वोक्त एव सप्तदशः कार्य्यः इत्यर्थः ॥ २७ ॥
इति ताण्ड्यमहाब्राह्मणे सायणीये वेदार्थप्रकाशे
द्वादशाध्यायस्य चतुर्थः खण्डः ॥
अथ पञ्चमः खण्डः ॥
अथाऽस्मिंस्तृतीयेऽहन्यार्भवपवमानस्याऽऽद्यं स्तोत्रीयं तृचं दर्श-
यित्वा तस्य(२) तत्राऽऽनुपूर्व्यमाह--
"तिस्रो वाच उदीरते" इति तृतीयस्याऽह्नो रूपं तेन
१. आप्नोदिति. क. पु. २. तत्राऽऽनुगुण्यमाहेति. क. पु.
३८ ता० ब्रा०
तृतीयमहरारभन्ते ॥ १ ॥
'तिस्रो वाच' इत्ययमाद्यस्तृच आर्भवपवमानस्य । एतच्च उच्छब्द-
त्रिशब्दयोगात् तृतीयस्याऽह्नो रूपम् । तेन तार्तीयरूपयुक्तेन तृचेन तृती-
यमहरारभन्ते गृह्णन्ति ॥ १ ॥
एतदेवोपपाद्यते--
उद्बद्धा एतत् त्रिवदहर्यत् तृतीयं तदेव
तदभिवदति ॥ २ ॥
एतदहरुद्बद्धै उच्छब्दयुक्तमेव, तथा त्रिवत् त्रिशब्दयुक्तं च । उद्ब-
त्रिवदित्यादिना तृतीयस्याऽह्नो रूपम्, तथा परिसङ्ख्यानात् । तद्दे-
वाह-तृतीयाहस्सम्बद्धं रूपं तन्मन्त्रवाक्यमभिवदति प्रकाशयति ॥२॥
अथाऽपरां स्तोत्रीयामृचं विदधाति--
"आ सोता परिषिञ्चते"ति परिवत्यो भवन्ति ॥ ३ ॥
आ सोतेत्याद्यास्तिस्र ऋचः परिवत्यः परिशब्दयुक्ता भवन्ति । स्तो-
मातिरेकपरिहाराय(१) तास्वेकस्यामेव यथाभ्यस्यमानं वाक्षसाम गा-
तव्यम्, अन्ये तु विकल्पिता इत्यर्थः ॥ ३ ॥
(२)तदेव प्रशंसति--
अन्तो वै तृतीयमहस्तस्यैताः पर्यांप्त्यै ॥ ४ ॥
इदं तृतीयमहरन्तो वै । अनेनैकस्य त्रिरात्रस्य परिसमापनात्तस्याऽह्न
एताः परिवत्य ऋचः परिसमाप्तिसूचकत्वात् पर्यांप्त्यै परिसमाप्त्यै
भवन्ति ॥ ४ ॥
अथाऽपरां स्तोत्रीयां विदधाति--
'सखाय आनिषीदते'त्युद्धृतमिव वै तृतीयमहर्यदाह
निषीदतेत्यहरेवैतेन प्रतिष्ठापयति ॥ ५ ॥
'सखाय आनिषीदते'त्येका स्तोत्रीया । सा चानिषीदतेति निषदन-
लिङ्गात् अह्नः प्रतिष्ठाहेतुरित्याहोद्धृतमित्यादिना । उद्धृतमिव वा उत्खा-
तमिव वै खल्वेतत् तृतीयमहर्निषीदत निषण्णा भवत यथास्थानमु-
पविशतेति तत्र वाक्यं यदाह, एतेन निषादनप्रतिपादकेनाऽहरेवेदं
प्रतिष्ठापयति यथास्थानं प्रतिष्ठितं करोति ॥ ५ ॥
१. तिसृष्वेकस्यामेवार्चि विधास्यमानमिति. क. ख. पु.
२. तदेतत्प्रशंसतीति. क. पु.
द्वादशाध्याये पञ्चमः खण्डः। ४४७
(१)अथाऽपरां स्तोत्रीयां विधत्ते—
'सुतासो मधुमत्तमा' इत्यनुष्टुभः सत्यो जगत्यो
रूपेण जागतꣳ ह्येतदहः ॥ ६ ॥
सुतासो मधुमत्तमा इति तिस्र ऋचः कार्याः। ताश्चाऽनुष्टुभः सत्यो
रूपेण जगत्यो भवन्ति। तथा हि मधुमत्तमा(२) इत्यनेन अतिशयेन मधु-
रत्वं प्रतिपाद्यते। तच्च तृतीयसवनस्य रूपं आशिरावनयनेन मधुरत्वं रसा-
तिशयस्य करणात् । तृतीयसवनञ्च जगत्याः स्थानम्। अतः परम्परया
अतिशयेन माधुर्य्यं जगत्या रूपमिति तद्वाचको मधुमत्तमशब्दोऽपि
जागतं रूपं भवति तद्युक्तत्वात् स्वभावतोऽनुष्टुभोऽपि जगत्यो भवन्ति।
एतत्तृतीयमहश्च जागतम्। अत आसामस्मिन्नहनि सङ्गतिः ॥ ६ ॥
अथ तृचान्तरं विधत्ते—
"पवित्रं ते विततं ब्रह्मणस्पत" इति ॥ ७ ॥
स्पष्टोऽर्थः ॥ ७ ॥
विततशब्दसूचितां तृचस्य तृतीयेऽहनि सङ्गतिमाह—
विततमिव वा इदमन्तरिक्षमन्तरेमे अन्तरिक्षदेवत्य-
मेतदहर्यत्तृतीयं तदेव तदभिवदति ॥ ८ ॥
इमे द्यावापृथिव्यावन्तरा द्यावापृथिव्योर्मध्ये इदं दृश्यमानमन्त-
रिक्षं विततं विस्तृतमिव वै । अतोऽनेन विततशब्देनाऽन्तरिक्षमेव
सूचितं भवति । शिष्टं स्पष्टम् ॥ ८ ॥
तिस्रो वाच इति प्रथमे तृचे गातव्यं साम विधाय प्राग्वदत्र ब्राह्म-
णञ्चाऽतिदिशति--
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् ॥ ९ ॥
सिद्धमेतत् ॥ ९ ॥
अथ तस्मिन्नेव तृचे पुनरावृत्ते सामन्तरं विधत्ते—
पाष्ठौहं भवति ॥ १० ॥
षष्ठौहा ऋषिणा दृष्टं पाष्ठौहम् । "(३)दृष्टं सामे"त्यण्प्रत्यये असंज्ञायां
"(४)वाह ऊट्" इत्यूड्भावे(५) "एत्येधत्यूठ्स्वि"ति वृद्धिः ॥ १० ॥
अथैतत्स्राम निधनद्वारेण चतुर्थस्याऽह्नः सम्बन्धहेतुरिति दर्शयं-
१. अथाऽपरं स्तोत्रीयं तृचमिति. क. ख. पु. । २. इत्यनेनेति. नास्ति ख. ख. पु. ।
३. पा. सू. ४.२.७. ४. पा. सू. ६. ४. १३२. ५. पा. सू. ६. १. ८९.