ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 451, कुल 518 में से
संदर्भ में पढ़ेंद्वादशाध्याये प्रथमः खण्डः । ४३१
मूहीकृत्य प्रयुङ्क्ते । किमर्थम् ? त्रिरात्रस्य अनुष्ठितयोरनुष्ठीयमानस्य
त्रयाणामहामविस्रंसाय स्रंसनाभावाय परसम्बन्धाय दार्ढ्यायेति
यावत् ॥ २ ॥
अथाऽनुरूपाख्यं तृचं विधत्ते—
एते असृग्रमिन्दव इत्यनुरूपो भवति ॥ ३ ॥
अनुरूपाख्यो द्वितीयस्तृचो भवतीत्यर्थः ॥ ३ ॥
एते असृग्रमिन्दव इति पदत्रयेण देवमनुष्यपितृसृष्टिरूपोऽर्थः पर्य-
वसाने वृत्या प्रतिपाद्यत इत्याह—
एत इति वै प्रजापतिर्देवानऽसृजतासृग्रमिति मनुष्यानि-
न्दव इति पितॄंस्तदेव तदभिवदति ॥ ४ ॥
एतत् ज्योतिष्टोमप्रकरण एव व्याख्यातम् । प्रजापतिस्सृष्टिसमये एतैः
पदैर्येदेवाऽर्थरूपं ससर्ज तदेवार्थरूपं तत् पादत्रयमभिवदति ॥ ४ ॥
अथाऽस्य तृचस्यानुरूपां संज्ञांन्निब्रुवन् तद्वेदनफलमाह—
पूर्वमुचैव तद्रेपमपरेण रूपेणाऽनुवदति यत्पूर्वं रूप-
मपरेण रूपेणोऽनुवदति तदनुरूपस्याऽनुरूपत्वमनुरूप एनं
पुत्रो जायते य एवं वेद ॥ ५ ॥
एतत् पवस्व वाचो अग्रिय इति द्वितीयस्याऽह्नः प्रतिपद्भवतीतिति ख-
ण्डे व्याख्यातम् ॥ ५ ॥
अथ विहितावेतौ तृचावनूद्य फलान्तरहेतुतामाह—
स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानाना-
मवरुद्ध्यै ॥ ६ ॥
एतदपि तत्रैव व्याख्यातम् ॥ ६ ॥
अथ तृचान्तरं विधत्ते—
राजा मेधाभिरीयते पवमानो मनावध्यन्तरिक्षेण
यातव इति ॥ ७ ॥
राजा मेधाभिरिति बहिष्पवमानस्य तृतीयस्तृचः ॥ ७ ॥
तृतीयेऽहन्यस्य तृचस्य सङ्गतिं वक्तुं अवशिष्टपादद्वयस्याऽनुवादः ।
तामेव सङ्गतिं दर्शयति—
अन्तरिक्षदेवत्यस्तृचो भवत्यन्तरिक्षदेवत्यमेतदह-
र्यत्तृतीयं तदेव तदभिवदति ॥ ८ ॥