सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 460, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 460

४४० ताण्ड्यमहाब्राह्मणे

पशूनां गवादीनां रूपं स्वरूपं शतवत् शतसंख्यायुक्तं तथा सह-
स्रवत् सहस्रसंख्यायुक्तञ्च भवति पशूनां नानारूपत्वात् । एताभिः
शतवतीभिर्ऋग्भिः पशूनामेव तदपरिमितं रूपमवरुन्धे लभते ॥ २ ॥
अथ ब्रह्मणः पृष्ठस्य स्तोत्रीयं तृचं विदधाति—
वयङ्घत्वा सुतावन्त इति सतोबृहत्यो वर्षीयश्छ-
न्द आक्रमतेऽनपभ्रंशाय ॥ ३ ॥
वयं घत्वेत्येतास्तिस्रः सतोबृहत्यः स्तोत्रीया भवन्ति । यद्यप्येता-
स्तिस्रो बृहत्यस्तृतीयपादस्य द्वादशाक्षरत्वात् , सतोबृहत्यास्तु प्रथम-
तृतीयौ द्वादशाक्षरौ, अयुजौ जागताविति हि तल्लक्षणम्, तथाऽप्येतासां
सतोबृहतीत्वम्। तथा सति बृहत्याः सकाशात् वर्षीयो वृद्धतरं सतोबृह-
त्यात्मकं छन्द आक्रमते अवष्टभ्नोति । किमर्थम्? अनपभ्रंशाय । न्यूनस्य
छन्दस आक्रमणं अपभ्रंशः । सामावयवस्य(१) भ्रंशोऽपगमः स्यात्
तदभावार्थम् ॥ ३ ॥
अथाऽच्छावाकपृष्ठस्य स्तोस्त्रीयं तृचं दर्शयन् तस्य प्रतिष्ठाहेतु-
तामाह—
तरणिरित्सिषासति वाजं पुरन्ध्या युजा । आव इन्द्रं
पुरुहूतं न मे गिरेत्यावदक्षरमुद्धतमिव वै तृतीयमह-
र्यद्देव तावदक्षरं भवत्यहरेवैतेन प्रतिष्ठापयति ॥ ४ ॥
तरणिरित्सिषासतीति प्रगाथस्तृचीकृतोऽच्छावाकपृष्ठस्य स्तोत्रीयः
तत्र च आव इन्द्रं पुरुहूतं न मे गिरेत्याम्नायते । यद्यपि आव इति उपसर्गो
युष्मदादेशश्च पदद्वयम्, तथाऽपि साहचर्यात् आवदक्षरं अवति धातुनि-
ष्पन्नं आव इत्येकं पदं बुद्धौ सन्निधीयते । तृतीयमहश्च उद्धतमिव उत्सा-
दितमिवाऽप्रतिष्ठितं यदेतत् पूर्वोक्तमावदक्षरं भवति एतेनाऽहरेव प्रति-
ष्ठापयति । अवतेर्हि रक्षणमर्थः । तेन च तत्कार्य्यस्थापनं लक्ष्यते ।
अतोऽनेन प्रतिष्ठाप्रतिपादनमुपपन्नम् ॥ ४ ॥
अथ पृष्ठस्तोत्रस्य निर्वर्त्तकं साम दर्शयति—
पञ्चनिधनं वैरूपं पृष्ठं भवति दिशां धृत्यै ॥ ५ ॥
दिशं विशं हस् इत्यादीनि पञ्च निधनानि यस्य तत्पञ्च निधनंवैरूपं
यद्याव इति तृचे क्रियमाणं प्रथमं पृष्ठस्तोत्रं भवति । दिशं विशं हस् अ-
श्वाञ्जिगुमतीति देवतावाचकं वाक्यद्वयं(२) स्वाध्यायपाठे वैरूपस्य यो-


१. भ्रष इति. क. ख. पु. । २. स्वकीयपाठे इति ख. पु. ।