सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

१९० ताण्ड्यमहाब्राह्मणे
मध्यतोऽन्नं दधातीत्युक्तं किं तन्मध्यमत्र विवक्षितं कथं वा तत्रा-
न्ननिधाने प्रजानां तृप्तिर्भवतीति तत्राह—
साम दे॒वानामन्न॑ꣳ साम्न्ये॒व तद्दे॒वेभ्यो॒ऽन्न॒मूर्ज्जन्द॑-
धाति॒ स ए॒व तदूर्जिꣳ श्रितः प्र॒जाभ्य॒ ऊर्जं॒ विभ॑जति॥१३॥
तस्य सामोपजीवनं प्रायच्छदिति, सामविधाने उक्तत्वादन्नवत्
प्रीतिकरत्वाद्वा देवानामन्रं साम तत्तथा सति साम्न्येव देवानामन्रभूते
सामनि ऊर्जमन्नन्दधाति किमर्थं ? देवेभ्यः देवांस्तर्पयितुम् । स इति श्रित
इति च लिङ्गव्यत्ययः । तत्तथा स एव तदेव देवानामन्रभूतम् ऊर्जि अन्ने
श्रितं साम प्रजाभ्य एषामर्थाय ऊर्जं विभजति प्रयच्छति ॥ १३ ॥
अथौदुम्बरिप्रसङ्गात् उद्गात्रादी

प्रपाठक ११-१५ (दशरात्र एवं संवत्सर सत्र निरूपण)

षष्ठाध्याये पञ्चमः खण्डः । १९१
दिशामभिष्ट्यै दिशामभिप्रीतया इति ब्रूयादित्यस्मात् सर्वासु दिक्ष्वन्नं
विद्यते सर्वा ह्यभीष्टाः प्रीता इति सर्वासु दिक्षु पूर्वरीत्या आर्त्वि-
ज्यकरणन्दिशामभीष्ट्यै तिसृणामपि दिशामभितो यागाय पूजनाया-
भिप्राप्तये वा भवति तथा दिशां सर्वासामभिप्रीतये अभिप्रीणनाय
भवति एकाामपि दिशमनतिहाय सम्भावनायेत्यर्थः । एवमुत्तरं ब्रूयात्,
यस्मादेवं तस्मात् सर्वासु दिक्षु अन्नं विद्यते लभ्यत इत्यर्थः । उक्तार्थ-
स्थैयोपपादनं सर्वा हीति । यस्मात् सर्वा अपि दिशः अभीष्टाश्च
प्रीताश्च तस्मात्सर्वासु दिक्षु अन्नं विद्यत इति युक्तम् ॥ १५ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
अथ समन्त्रकं द्रोणकलशस्य प्रोहणं विवक्षुस्तस्योत्पत्तिमाह-
प्रजापतिरकामयत बहु स्यां प्रजायेयेति सोऽशो-
चत्तस्य शोचत आदित्यो मूर्ध्नोऽसृज्यत सोऽस्य मूर्द्धा-
नमुदहन् स द्रोणकलशोऽभवत्तस्मिन् देवाः शुक्रमगृह्णत
तां वै स आयुषाऽर्त्तिमत्यजीवत् ॥ १ ॥
प्रजापतिरकामयतेत्युक्तार्थम्। तस्य शोचतः आदित्यो मूर्ध्नोऽसृ-
ज्यत सृष्टोऽभूत् । स सृष्ट आदित्यः तस्य प्रजापतेर्मूर्द्धानं मस्तकप्रदेशं
स्वोत्पत्त्यर्थं उदहन् ऊर्द्ध्वे घातितवान् । स भिन्नो मूर्द्धा द्रोणकलशोऽभ-
वत् । तस्मिन् कलशे देवाः शुक्रं शुक्लं दीप्तं सोमरसं प्रत्यगृह्णत गृहीत-
वन्तः । स प्रजापतिः । आयुषा शिरोभङ्गात् क्षीणेनायुष्येण या आर्त्तिर-
भूत् तामार्त्तिमत्यजीवत् अतिक्रम्य चिरकालं जीवितवान् स्वशिरोभा-
गकपाले आप्यायकस्य सोमरसस्य धारणेन आर्त्तिं पर्यहरदित्यर्थः ॥१॥
अथोक्तार्थवेदनं प्रशंसति-
आयुषाऽर्त्तिमतिजीवति य एव ँवेद ॥ २ ॥
योऽन्य एवमुक्तमर्थं जानाति स आयुषा नैमित्तिकायुःक्षयेण जनिता
या आर्त्तिः तामतिजीवति अतिक्रम्य शतवर्षं जीवति ॥ ३ ॥
इदानीं समन्त्रकं द्रोणकलशप्रोहणं विधत्ते-
तं प्रोहे "द्वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि
प्रजापतेर्मूर्द्धाऽस्यत्यायुपात्रमसीदमहम्मां प्राञ्चं प्रोहामि
तेजसे ब्रह्मवर्चसाये"ति ॥ ३ ॥

१९२ ताण्ड्यमहाब्राह्मणे
तं प्रजापतिशिरस्त उत्पन्नं कलशं वानस्पत्य इत्यादिना मन्त्रेण प्राञ्चं
प्रोहेत् प्रेरयेत् । एतत्प्रोहणमध्वर्य्वादिभिस्त्रिभिरपि कर्त्तव्यं, तथा च
सूत्रम् 'ऋतमसीति द्रोणकलशमालभ्य ऽवानस्पत्योऽसीति प्रोहेयुरि'ति
अयं मन्त्रः पूर्वं व्याख्यातः ॥ ३ ॥
अथ मन्त्रस्य प्रथमभागस्य तात्पर्यं व्याचष्टे—
यदाह ऽवानस्पत्य इति सत्येनैवैतं तत्प्रोहति ॥ ४ ॥
मन्त्रे उद्गाता वानस्पत्य इति यदाह तत्तेन एनं द्रोणकलशं सत्ये-
नैव प्रोहति । वस्तुतो द्रोणकलशस्य वनस्पतिविकारत्वात् सत्य इति
'बृहस्पतिर्वै देवानामुद्गाता तमेव तद्युनक्ती'ति एतेन मन्त्रभागेनैव प्रो-
हणं कृतवान् भवति ॥ ४ ॥
अथ द्वितीयभागस्य तात्पर्यमाह—
यदाह बार्हस्पत्य इति बृहस्पतिर्वै देवानामुद्गाता
तमेव तद्युनक्ति ॥ ५ ॥
तं बृहस्पतिमेव युनक्ति प्रेरयति ॥ ५ ॥
अथ तृतीयचतुर्थभागयोस्तात्पर्यमाह—
यदाह प्राजापत्य इति प्राजापत्यो ह्येष देवताया
यद्द्रोणकलशो यदाह प्रजापतेर्मूर्द्धेति प्रजापतेर्ह्येष मूर्द्ध
उदहन्यत ॥ ६ ॥
द्रोणकलशस्य प्रजापतेर्मूर्द्धरूपत्वमुक्तप्रकारेण स्पष्टन्तत्सम्बन्धा
देव स प्राजापत्य इत्युच्यते ॥ ६ ॥
अथ पञ्चमस्य तात्पर्यमाह—
यदाहा"त्यायु

षष्ठाध्याये पञ्चमः खण्डः । १९३
इति विदुषः फलमाह—
देवपात्री भवति य एव ँवेद ॥ ८ ॥
य उक्तार्थज्ञः स देवपात्री देवपात्रं द्रोणकलशस्तद्वान् भवति। सोम-
यागानुष्ठाता भवतीत्यर्थः ॥ ८ ॥
अथ प्रासङ्गिकं किञ्चिदाह—
ब्राह्मणं पात्रे न मीमाँसेत यं ब्राह्मणमिव मन्यते
प्र देवपात्रमाप्नोति न मनुष्यपात्राच्छिद्यते ॥ ९ ॥
ब्राह्मणं पात्रे पात्रभावे अयं पात्रं भवति न वेति न मीमांसेत विचार-
न्न कुर्यात्। किं ब्राह्मणब्रुवमात्रेण न मीमांसितव्यं नेत्याह-यं पुरुषं ब्राह्म-
णमिव मन्येत। इव शब्द एवकारार्थः। जात्या ब्राह्मणमेव यदि निश्चिनु-
यात् तदा तद्विषयं वृत्तविद्यादिसद्भावासद्भावान्न मीमांसेतेत्यर्थः। तथा
च स्मृतिः 'न पृच्छेद्गोत्रचरणे न स्वाध्यायं श्रुतं तथा। हृदये कल्पयेद्देवं
सर्वदेवमयोद्विज' इति। एवं यस्मिन्विचारमकृत्वा पात्रमेवेति यो निश्चयं
करोति तस्य तदेव पात्रमन्वेति विद्यातपोयुक्ते यत्फलं भवति तत्तस्मि-
न्नपि भवतीत्यर्थः। किञ्च स पुमान् मनुष्यपात्रान्न छिद्यते मनुष्याणां
पात्रं भवतीत्यर्थः ॥ ९ ॥
उक्तं द्रोणकलशप्रोहणं हविर्द्धानादधः कर्त्तव्यं तत्राक्षगतवागवरो-
धनायेति वक्ष्यति। अतो वागक्षरसम्बन्धं वक्तुमाख्यायिकामाह—
वाग्वै देवेभ्योऽपक्रामत्सापः प्राविशत्तां देवाः पुन-
रयाचँस्ता अब्रुवन्यत्पुनर्द्द्याम किन्नस्ततः स्यादिति
यत्कामयध्व इत्यब्रुवँस्ता अब्रुवन्देवास्मासु मनुष्या
अपूतं प्रवेशयाँस्तेनासँमृष्टा असामेति ॥ १० ॥
पुरा देवेभ्यः सकाशात् स्वयमात्मानं प्रकाशयन्ती वाक् अपक्रामत्
आत्मानमप्रकाश्यापगताभूत् 'वै शब्दः श्रुत्यन्तरप्रसिद्ध्यर्थः' तथाच तै-
त्तिरीयकं' वाग्वै देवेभ्योऽपक्रामत् यज्ञायातिष्ठमानेत्यादि। सापगता
अपः प्राविशत् तां वाचं पुनर्यज्ञार्थमयाचन् प्रार्थयन् ताश्च पुनरब्रुवन्
किमिति यत्पुनर्द्द्याम यच्छाम नोऽस्माकं ततः किं फलं स्यादिति पृ-
ष्टास्ते देवाः तर्हि यत्फलं कामयध्व इत्यब्रुवन् ताश्च पृष्टाः पुनरब्रुवन्
हे देवाः अपूतमपूतादिकं अस्मासु मनुष्याः तदुपलक्षिताः सर्वे प्राणि-
नः प्रवेशयान् प्रवेशयेयुः। लोडूबहुवचनस्येदं रूपम्। तेनापूतेन असंमृ-
ष्टाः संसर्गरहिताः। असाम भवेम ॥ १० ॥
१७ ता०

१९४ ताण्ड्यमहाब्राह्मणे

उक्तार्थब्रह्मविदः फलमाह-
शुद्धा अस्मा आपः पूता भवन्ति य एव ँवेद॥११॥
स्पष्टोऽर्थः ॥ ११ ॥
अथाप्राप्ताया वाचो वनस्पतीन् प्रवेशमाह-
सा पुनर्त्तार्त्यक्रामत् सा ऽवनस्पतीन् प्राविशत्तान्दे-
वाः पुनरयाचँस्तान्न पुनरददुस्तानशपन् स्वेन वः कि-
ष्कुणा ऽवज्रेण वृश्चान्निति तस्माद्वनस्पतीन् स्वेन किष्कु-
णा ऽवज्रेण वृश्चन्ति देवशप्ता हि ॥ १२ ॥
पुनर्त्तार्ति अद्भिः पुनर्हता सा अत्यक्रामत् । अतिक्रम्य सा वनस्पतीन्
प्राविशत् । प्रविष्टां तां देवाः इत्यादि अशपन्नित्यन्तः स्पष्टः । शापप्रका-
रमाह-वो युष्मान् स्वेन स्वसम्बन्धिना वानस्पत्येन किष्कुणा दण्डेन
युक्तेन वज्रेण परश्वादिना वृश्चान् वृश्च्युरिति । यस्मादेवन्तस्मादिदा-
नीमपि स्वेन किष्कुणा वज्रेण वृश्चन्ति । हि यस्माद्वनस्पतयो देवैः श-
प्ताः । अत इत्यभिप्रायः ॥ १२ ॥
इदानीमक्षसम्बन्धं वक्तुं प्रविष्टाया वाचश्चतुर्द्धा विभागमाह-
ता ँवनस्पतयश्चतुर्द्धा ऽवाचं व्यँन्यदधुर्दुन्दुभौ ऽवीणा-
यामक्षे तूणवे तस्मादेषा ऽवदिष्ठैषा ऽवल्गुतमा ऽवाग्वा
ऽवनस्पतीनां देवाना ँ ह्येषा ऽवागासीत् ॥ १३ ॥
तान्तेषु प्रविष्टां वाचं वनस्पतयश्चतुर्द्धा चतुःप्रकारं व्यन्यदधुः वि-
भज्य निधनमकुर्वन् । केष्विति उच्यते-दुन्दुभौ भेर्य्यां वीणायां वेणु-
निर्म्मिततन्तुसम्बद्धायां विपञ्च्याम्। अक्षे रथादिचक्रयोर्मध्यवर्त्तिनि ति-
र्यग्दण्डे। तूणवे धनुषि गुणे। तस्मादुक्तपदार्थप्रवेशादेषैव वाक् वदिष्ठा
अतिशयेन वक्त्री। अत एषैव वल्गुतमा चारुतमा वाक् या श्रोतृमनोहादि-
नीत्यर्थः । एषेत्युक्तं केत्याह-या वनस्पतीनां वनस्पतिविकाराणां दुन्दु-
भ्यादीनां सम्बन्धिनी। उक्तस्यैव विवरणं देवानां हीति । यस्मात् दुन्दु-
भ्यादिषु प्रविष्टा वाक् वदिष्ठा वल्गुतमा च अतः खलु देवानां
योग्यासीत् ॥ १३ ॥
इदानीमक्षस्थवागवरोधनाय तदधः कलशप्रोहणन्तदुपरि दशाप-
वित्रस्थापनञ्च विधत्ते-
अधोऽधो ऽक्षं द्रोणकलशं प्रोहन्ति तस्या ऽवाचो ऽवरु-
ध्या उपर्युपर्यक्षं पवित्रं प्रयच्छन्त्युभयत एव ऽवाचं प-
रिगृह्णन्ति ॥ १४ ॥

षष्ठाध्याये पञ्चमः खण्डः । १९५
अक्षमधोऽधः । अक्षस्याव्यवहितेऽधःप्रदेशे । द्रोणकलशं प्रोहन्त्युद्गा-
तारः । तच्च प्रोहणं तस्या अक्षप्रविष्टाया वाचोऽवरुध्या अवरोधनाय
भवति । तथा उपर्युपर्यक्षम् अक्षस्याव्यवहिते उपरि भागे । पवित्रं प्रय-
च्छन्ति । तथा सति उभयत एव वाचमक्षस्थां परिगृह्णन्ति स्वायत्तां
कुर्वन्ति ॥ १४ ॥
अथाक्षस्पर्शननिन्दापूर्वकं तस्यास्पर्शं विधत्ते—
यस्य॒ कामये॑तासु॒र्य॑मस्य य॒ज्ञं कु॑र्याँ॒ वाच॑ँ वृ॒ञ्जीये॑-
ति द्रो॑णकल॒शं प्रोह॑न्बा॒हुभ्या॒मक्ष॒मुप॑स्पृशे॒दसु॑र्य॒मस्य
य॒ज्ञङ्क॑रोति॒ वाच॑ँ वृङ्क्ते॒ योऽस्य॑ प्रि॒यः स्या॒दनु॑पस्पृश॒न्नक्षं॑
प्रोहेत्प्रा॒णा वै द्रो॑णकल॒शः प्रा॒णाने॒वास्य॑ कल्पयति॥१५॥
अस्य यजमानस्य यज्ञम् । असुर्यमसुरेभ्यो हितं देवानाम्प्रतीकरं
कुर्याम् । अस्य वाचञ्च वृञ्जीय जयेयं प्रतिहतवचनं करोमीति यस्य य-
स्मै यजमानाय कामयेतोद्गाता तस्मै द्रोणकलशं प्रोहन् बाहुभ्यामक्ष-
मुपस्पृशेत् । तथा सति अस्य यज्ञमसुर्य्यं करोति । अस्य वाचं वृङ्क्ते वर्ज-
यति । अथाऽक्षोपस्पर्शनं तत्र निषिद्धमित्यभिप्रायः । अथोक्तवैलक्षण्येन
यो यजमानोऽस्योद्गातुः प्रियः स्यात्तस्योक्तदोषद्वयाभावायाक्षमनुपस्पृ-
शन् प्रोहेत् । तथा सति योऽयं द्रोणकलशः सः। प्राणो वै प्राणाख्योऽभू-
त् । प्रजापतेः शिरस्त उत्पन्नत्वात् । अतः अनुपस्पृशन् द्रोणकलशं प्रोह-
न्नुद्गाता अस्य यजमानस्य प्राणानेव कल्पयति यजमाने स्थापितवान्
भवति । अतोऽक्षस्पर्शनमकृत्वा प्रोहेदिति तात्पर्यम् । नन्वक्षस्पर्शाभावेन
यजमाने वा ख्यापनमुचितं तदकृत्वा कथं प्राणकल्पनं विरुद्धमिति ?
नैषदोषः,यजमाने प्राणेन वा ध्रियते यदा च प्राणस्य तदतो व्याप्रीयते।
तथा च तैत्तिरीयकं 'यत्रैतदधीते वा भाषते वा व्वाचि
तदा प्राणो भवति व्वाक् तदा प्राणं रेढि । अथ यत्र तूष्णीं
वा भवति स्वपिति वा प्राणे तदा व्वाग्भवति प्राणस्तदा व्वाचं रेढी-
ति' नत्वितरेषामिवोद्गातॄणाम्मन्त्रेण वरणाभावात् ॥ १५ ॥
कथमेषामात्विज्यकरणमिति ब्रह्मवादिनः प्रश्नमुपक्षिपति—
य॒न्न्वित्या॑हु॒र्व्वाचा॒न्यानृत्विजो॑ वृण॒ते कस्मा॑दुद्गा॒-
तारो॑ वृ॒ता आ॑र्त्वि॒ज्यं कु॒र्व्वन्तीति॑ ॥ १६ ॥
यन्नु यद्यन्या नित्याहुरेवं साक्षेपं यदि ब्रूयुः । वचनप्रकारमेव प्र-
दर्शयति 'व्वाचा इन्द्रं हौत्रात् मरुतः पोत्रादि' त्यादि रूपया अन्यान् होत्रा-
दीन् ऋत्विजो वृणते । अध्वर्य्यवो वा कस्मादित्यादि स्पष्टम् ॥ १६ ॥

१९६ ताण्ड्यमहाब्राह्मणे
तेषामेवमुत्तरं ब्रूयादित्याह--
यद्द्रोणकलशमुपसीदन्ति तेनोद्गातारो वृताः ॥१७॥
यस्मादेते द्रोणकलशमुपसीदन्ति प्रोहन्ति तेन ते वृता एवमार्त्वि-
ज्यं कुर्वन्ति ॥ १७ ॥
कथं द्रोणकलशेनैषां वृतिरिरिति तत्राह--
प्राजापत्या वा उद्गातारः प्राजापत्यो द्रोणकलशो
द्रोणकलश एवैनानार्त्विज्याय वृणीते ॥ १८ ॥
यज्ञात्मकप्रजापतिसम्बन्धाद्वा 'प्रजापतिः सामे'ति श्रुतेः । तत्सम्ब-
न्धाद्वा उद्गातारः प्राजापत्याः । द्रोणकलशश्च तन्मूर्द्धत उत्पत्तेः प्राजा-
पत्यः । तथा सत्युभयोः समानसम्बन्धात्तेन तेषां वरणमिति ॥ १८ ॥
अथ द्रोणकलशस्य प्राङ्मुखप्रोहणस्यायमाशय इत्याह-
प्राञ्च उपसीदन्ति प्राञ्चो यज्ञस्याग्रे करवामेति ॥ १९ ॥
इतः पूर्वमेतेषामुद्गातॄणाङ्गाने प्राङ्मुखत्वासम्भवात् द्रोणकलश-
प्रोहणे प्राङ्मुखा एवोपसीदन्ति । कया बुद्ध्येति ? यज्ञस्याग्रे आदौ प्रथमं
कर्म प्राञ्चः सन्तः करवामेति ॥ १९ ॥
अथ द्रोणकलशं प्राङ्मुखः प्रोहेत्प्राच्या दिशोऽभिजयायेत्याह-
अनभिज्रिता वा एषोद्गातॄणां दिग्यत्प्राची यद्द्रो-
णकलशं प्राञ्चं प्रोहन्ति दिशोऽभिजित्यै ॥ २० ॥
प्राच्या अनभिजितत्वमौदुम्बरे गाने उद्गातॄणां प्राङ्मुखगानाभा-
वाभिप्रायकं स्पष्टम् । न तु रथादिकमश्वादयो युक्ता वहन्ति ॥ २० ॥
कथमुद्गातॄणां यज्ञे योग इति प्रश्नमवतार्य द्रोणकलशोपसम्पत्तिरे-
व तेषां योग इत्याह-
यन्न्वित्याहुरन्तराश्वः प्रासेवौ युज्यतेऽन्तरा श-
म्य अनड्वान्क उद्गातॄणां योग इति यद्द्रोणकलशमु-
पसीदन्ति स एषां योगस्तस्माद्युक्तैरेवोपसद्यन्न ह्ययु-
क्तो वहति ॥ २१ ॥
प्रासेवौ रथयुगस्य सुषिरगतोभयपार्श्वरज्जू तयोर्मध्ये अश्वो यु-
ज्यते । शम्ये शकटयुगस्योभयपार्श्वकीलके तयोर्मध्येऽनड्वान् । तथा
सति यज्ञाख्ये रथे कथमुद्गातॄणां योग इति प्रश्नः ? यदेते द्रोणकलशं
हविर्द्धानाक्षाधःस्थितमुपसीदन्ति स एवैषां योग इति तस्योत्तरम् । त-
स्माद्युक्तैरेवानन्यचित्तैरेव उपसद्यं कलशोपसदनं कर्त्तव्यम्। तथा सति न
ह्ययुक्तो वहत्ययमुद्गातृवर्गः ॥ २१ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य पञ्चमः खण्डः ॥ ६ ॥ ५ ॥

[header] षष्ठाध्याये षष्ठः खण्डः । १९७

अथ षष्ठः खण्डः ।
अथ ग्राव्णामुपरि द्रोणकलशाव्यूहनं विधत्ते—
ग्राव्णः संऽसाद्य द्रोणकलशमध्यूहन्ति विड्वै ग्रा-
वाणोऽन्नँ सोमो राष्ट्रं द्रोणकलशो यद्ग्रावसु द्रोणक-
लशमध्यूहन्ति विश्येव तद्राष्ट्रमध्यूहन्ति ॥ १ ॥
द्रोणकलशाव्यूहनकर्तृभिरुद्गातृभिः प्रथममभिषवसाधनान् ग्राव्णः
संसाद्य पश्चात् द्रोणकलशाव्यूहनं कर्त्तव्यम् । तथा सति ये ग्रावाणः स-
न्ति ते विड्वै बहुत्वसंख्यायोगात् तेषां विड्व्यवहारः । सोमस्यान्नत्वं
प्रसिद्धम् । यो द्रोणकलशः स राष्ट्रं राष्ट्रमिति राजेति केचिद्राज्यमित्यपरे ।
तथा सति यद्ग्रावसु सोमरसाधारं द्रोणकलशमध्यूहन्ति तत्तेन विश्ये-
व राष्ट्रम् अन्नस्येदमध्यूहन्ति स्थापितवन्तो भवन्ति ॥ १ ॥
अथ यजमानस्य पापं कामयमान उद्गाता एवं कुर्यादित्याह—
यं द्विष्याद्विमुखान् ग्राव्णः कृत्वेदमहममुममुष्याय-
णममुष्याः पुत्रममुष्या विशोऽमुष्मादन्नाद्यान्निरूहामी-
ति निरूहेद्विश एवैनमन्नाद्यान्निरूहति ॥ २ ॥
उद्गाता यं यजमानं द्विष्यात् द्वेष्टि तस्मै ग्राव्णः । अभिषवोपलाभिमु-
खान् परस्परनिवृत्तमुखान् कृत्वा इदमिदानीमहममुं द्वेष्यं यजमानं ‘अ-
मुमित्यत्र तन्नामनिर्देशात्’ कथममुष्यायणं अमुष्यगोत्रोत्पन्नम् अमुष्याः
पुत्रम् अमुष्या विशः सकाशात् ‘अत्राप्यमुष्या इति पञ्चम्या विशो नाम
निर्देशात्’ एवमहममुं द्वेष्यं यजमानं विशोऽन्नाद्याच्च निरूहामि नाश-
यामि इत्येवं मन्त्रमुच्चार्य्य निरूहेत् । एवं कुर्वन्नुद्गाता विशोऽन्नाद्या-
च्चैनं यजमानं निरूहति ॥ २ ॥
अथ यजमानस्य भद्रं कामयमान एवं कुर्यादित्याह--
योऽस्य प्रियः स्यात्सम्मुखान् ग्राव्णः कृत्वेदमहममु-
ष्यायणममुष्याः पुत्रममुष्यां विश्यमुष्मिन्नन्नाद्येऽव्यूहामी-
त्यव्यूहेद्विश्येवैनमन्नाद्येऽव्यूहति ॥ ३ ॥
पूर्ववाक्येनैव व्याख्यातप्रायमिदम् ॥ ३ ॥
द्वेष्यस्य च प्रियस्य चोभयस्य प्रयोगमनादृत्यात्मन एव श्रेयःकाम-
यमान आह--
अथो तदुभयमनादृत्येदमहं मां तेजसि ब्रह्मवर्च-

have a horizontal line?
Wait, look at नि in अभिनिदध्यात् (line 8):
द भि नि द ध्या दि द म ह म मु या
Look at नि: it has a horizontal line at the bottom, a loop, and a vertical stem.
Now look at the letter in line 6:
It has: ि matra, then a vertical line, with a horizontal line at the bottom, and a loop?
WAIT! That's नि!
Wait, if that is नि, then what is the letter after it?
Is the letter after it शा?
Wait! Where is व?
Wait, is the letter वि just printed with a broken type, or is it a specific ligature?
Wait, look at line 8:
अमुया विशाऽदो
Look at विशाऽदो: the letter before शा is IDENTICAL to the one in line 6 and line 9!
And in commentary line 12:
अमुया विशा अमूभिः परिजनैः
The commentary clearly says: अमुया विशा!
And the mantra in line 8 is quoting: इदमहममुया विशाऽदो राष्ट्रं हन्मीति!

षष्ठाध्याये षष्ठः खण्डः । १९९

पुनन्त्वेतानि वै दैवानि पवित्राणि पूतो यज्ञियो भव-
तिय एवँवेद ॥ ७ ॥
सिद्धा मन्त्रार्थाः, सम्मृजन्त्विति मन्त्राम्नाने सिद्धे पुनन्तु इदानीं
वर्णनं संमृजन्त्वित्यस्य व्याख्यानार्थमिति मन्तव्यम् । अथवा मन्त्रपाठा-
देव तस्मिन् सिद्धे पुनन्त्विति वा प्रयोक्तव्यमिति वैकल्पिकत्वबोधनार्थम्।
मन्त्रब्राह्मणयोरप्युभयोरपि प्रमाणत्वाविशेषात् । यथेन्द्रं गीर्भिर्हवामह
इत्येव स्वाध्याये सिद्धे इन्द्रं गीर्भिर्हवामह इत्यनुवर्णनं हवामह इति वा
प्रयोक्तव्यमित्येवमर्थमिति तद्वदिहापीति मन्तव्यम् । एवं जातीयकेषु वि-
कल्पो द्रष्टव्य इति निदाने निर्णीतत्वात् ॥ ७ ॥
अपूर्वमेव दशापवित्रस्य शुक्लत्वं विधातुमाख्यायिकामाह—
स्वर्भानुर्वा आसुर आदित्यन्तमसाविध्यत्तं देवा
न व्यजानँस्तेऽत्रिमुपाधावँस्तस्यात्रिर्भासेन तमो-
पाहन्यत् प्रथममपाहन् सा कृष्णाविरभवद्यद्द्वितीयꣳ
सा रजता यत्तृतीयꣳ सा लोहिनी यया वर्णमभ्यतृणत्
सा शुक्लासीत् ॥ ८ ॥
पूर्वं स्वर्भानुर्नामकोऽसुर आदित्यं तमसान्धकारेणाविध्यदातत-
वान्। तं सर्वे देवा नाज्ञासिषुः। ते देवा अत्रिं महर्षिमुपाधावन्नादित्यस्या-
वरणान्धकारमपजहीति। तस्य तमोऽत्रिर्भासेनापाहन्नपजघान। तत् यत्त-
मोभागं प्रथममपाहन् सा कृष्णा कृष्णवर्णाऽऽविरभवत्, यद्द्वितीयꣳ
सा रजतवर्णा आविर्भवत्, यत्तृतीयꣳ सा लोहिनी लोहिताऽऽविरभ-
वत्। यया अन्त्योपादेयलिङ्गेन स्त्रीलिङ्गता येन प्रयोगेणेत्यर्थः । वर्णमत्र
रोहितम् अभ्यतृणत् प्रकाशं चकार। अत्र तृदिः प्रकाशनकर्मा। तस्मादु-
पपदिका यत्र क च स्वनति तदपामितृन्दन्तीत्यादिषु तथा दर्शनात् । सा
शुक्ला मेध्यासीत् ॥ ८ ॥
इदानीं तद्विधत्ते—
तस्माच्छुक्लँ पवित्रꣳ शुक्रः सोमः स शुक्रत्वाय ॥९॥
तस्मात्तिरोहितवर्णस्यैव शुक्लाविरूपेण परिणतत्वात् शुक्लं शुक्लावि-
रोममयं दशापवित्रं कर्त्तव्यम् । तथा हि सोमोऽपि शुक्रः सोमः निर्म्मलः ।
अतः स शुक्रत्वाय शुक्रसोमानुगुण्याय भवति ॥ ९ ॥
एवं पवित्रस्य शुक्लत्वं विधाय तदेवान्वयव्यतिरेकाभ्यां दृढयति—
यं द्विष्यात्तस्यैतेषां वर्णानामपि पवित्रे कुर्यात्पा-

[Header]
२०० ताण्ड्यमहाब्राह्मणे

प्म॒नैवै॑नं॒ तम॑सा॒ वि॒वि॑ध्यति कृ॒ष्णमि॑व॒ हि तमो॑ योऽस्य॑ प्रि॒-
यः स्यादास॑क्तिशु॒क्लं कु॑र्या॒ज्ज्योति॒र्वै हिर॑ण्यं॒ ज्योति॑रे॒-
वास्मि॑न्दधाति ॥ १० ॥
यं यजमानमुद्गाता द्विष्यात्तस्य प्रयोगः । एतेषां शुक्लव्यतिरिक्ताना-
मन्यतमवर्णमपि पवित्रे कुर्यात् । तथा सति कृष्णादित्रयस्यापि पाप-
रूपत्वात् पाप्मनैवेनं यजमानं तमसा विध्यति पापभूयिष्ठं करोतीत्यर्थः ।
कृष्णमिव हि कृष्णं तमः शुक्लव्यतिरिक्तवर्णमिव हि पापमिव हि वर्त्तते
विरोधित्वसाम्यात् । यश्च यजमानोऽस्योद्गातुः प्रियः स्यात्तस्य प्रयोगे
पवित्रमाशक्तिशुक्लं कृष्णवर्णान्तरस्य लेशतोऽपि संसर्गाभावेन शुक्लवर्णं
कुर्यात् । हिरण्यशब्देनात्र तत्रत्यं तेजो लक्ष्यते । पवित्रगतं य

षष्ठाध्याये षष्ठः खण्डः । २०१
पवित्रप्रसारणे तत्सङ्कोचाभावाय किञ्चिद्वक्तव्यमित्याह—
तं ब्रूयाद्वेपमानः प्रमेष्यस इति ब्वेपमान एव प्रमीयते॥ १५॥
तम् उद्गातारं पवित्रं प्रसारयन्तं ब्रूयात्किमिति ? उच्यते—वेपमानः क-
म्पमानः प्रमेष्यसे। नित्यमपि वेपमान एव प्रमीयते स इति। तथा स प्र्रि-
योऽत उक्तं पवित्रविग्रहणं सूत्रकार आह “अवधूय पवित्रमुद्गदशमवा-
ङ्नाभि वितनुयुः पवित्रन्त इति ऋचैक” इति ॥ १५ ॥
अथोद्गातृद्धारानुमन्त्रणं समन्त्रैकदेशोपादानं विधत्ते—
प्र शुकैतु देवी मनीषास्मद्रथः सुतष्टो न वाजीत्यु-
द्गाता धारामनुमन्त्रयते ॥ १६ ॥
मन्त्रैकदेशः पूर्वं व्याख्यातः। इत्यनेन मन्त्रेण शोध्यमानसोमधारा-
मनुमन्त्रयते ॥ १६ ॥
अथानुमन्त्रणमन्त्र

२०२ ताण्ड्यमहाब्राह्मणे
अथ सप्तमः खण्डः ।
अथ प्रवृत्तहोमस्य यौ "सूर्यो मा बेकुरे"त्यादिकौ मन्त्रौ तयोर्द्वितीय-
मन्त्रसाध्यहोमं विधातुमाख्यायिकामाह—
बृहस्पतिर्व्वै देवानामुदगायत्तꣳ रक्षाꣳस्यजिघाꣳ-
सन् स य एषां लोकानामधिपतयस्तान् भागधेयेनोपा-
धावत् ॥ १ ॥
बृहस्पतिर्मन्त्राभिमानी एतन्नामको देवः देवानां यज्ञे पूर्वमुद्गा-
यत् औद्गात्रमकरोत् तं तथा कुर्वाणं रक्षांस्यजिघांसन् हन्तुमैच्छन्
स बृहस्पतिः एषां पृथिव्यादीनां लोकानां येऽधिपतयोऽभ्यायँस्तान्
भागधेयेन वक्ष्यमाणमन्त्रसाध्यहोमलक्षणेन भागधेयेनोपाधावत् अप्री-
णयदित्यर्थः ॥ १ ॥
इदानीं समन्त्रकं होमं विधत्ते—
सूर्य्यो मा दिव्याभ्यो नाष्ट्राभ्यः पातु व्वायुरन्तरिक्षा-
भ्योऽग्निः पार्थिवाभ्यः स्वाहेति जुहोति ॥ २ ॥
मन्त्रस्तु पूर्वमेव व्याख्यातः । उक्तमन्त्रो भागत्रयेण कर्त्तव्यः ॥ २ ॥
अथ मन्त्रस्य तात्पर्य्यमाह—
एते वा एषां लोकानामधिपतयस्तान् भागधेयेनो-
पासरत् ॥ ३ ॥
य एषां भूरादीनां लोकानामधिपतयः त एते वै निर्द्दिष्टाः सूर्य्या-
दयः खलु । तथाहि तिस्र एव देवताः क्षित्यन्तरिक्षद्युस्थानाः अग्निर्व्वायुः
सूर्य्य इति तान् भागधेयेन तदुचितभागप्रदानेन उपासरत् अनुसृतवान्
भवति । यतस्ते प्रीता रक्षःकृतोपद्रवं पर्य्याहरन् । अत इदानीमप्युद्गातृभि-
रेतत्कर्त्तव्यमित्यभिप्रायः ॥ ३ ॥
वेदितुः फलमाह—
करोति व्वाचा व्वीर्य्यन्न सदस्यामार्त्तिमार्च्छति य
एवँव्वेद ॥ ४ ॥
वाचा वीर्य्यकरणन्नाम वेदशास्त्रादिना स्वसामर्थ्यप्रकटनम् ॥ ४ ॥
अथ बेकुरेत्यनेनाप्युक्तं प्रवृत्तहोमं विधातुमाख्यायिकामाह—
वाग्वै देवेभ्योऽपाक्रामत्तां देवा अन्वमन्त्रयन्त सा
ऽब्रवीद्भागास्मि भागधेयम्मेऽस्त्विति कस्ते भागधेयं

षष्ठाध्याये सप्तमः खण्डः । - २०३
कु॒र्या॑दि॒त्युद्गातार इत्य॒ब्रवी॑दु॒द्गाता॑रो॒ वै वा॒चे भा॒गधे॑यं
कु॒र्व्वन्ति॑ ॥ ५ ॥
पुरा वाग्देवता देवेभ्यः सकाशात् अपाक्रामत् मन्त्रात्मिका वाक् दे-
वान् गुणैः प्रकाशयन्ती अपगताभूदित्यर्थः । तां वाचं देवा अन्वमन्त्रयन्त
अनुमन्त्रणमाह्वानमकुर्वन् । सा आहूता वागब्रवीत् किमिति ? अभागाऽ-
स्मि यथा भवतां यज्ञे भागोऽस्ति तद्वत् मह्यन्नास्ति इति । तथोक्ता देवा-
स्तर्हि ते कः भागधेयं कुर्यादित्यब्रुवन् । सा च पुनरुद्गातार इत्यब्रवीत् ।
तेषां तद्भागप्रदानयोग्यतोच्यते । उद्गातारः खलु वाचे देव्यै भागधेयं कु-
र्व्वन्ति तेषामध्वर्य्यादिवदङ्गस्तनव्यापारलक्षणक्रियाया अभावाद्वागेकव्यापा-
रत्वाच्चेत्यभिप्रायः ॥ ५ ॥
इदानीं समन्त्रकहोमं विधत्ते-
तस्यै॑ जुहुयाद् बेकुराना॑मासि जु॒ष्टा दे॒वेभ्यो॒ नमो॑
वा॒चे नमो॑ वा॒चस्पत॑ये दे॒वि वा॒ग्यत्ते॑ वा॒चो मधु॑मत्त॒-
स्मिन् मा धाः सर॑स्वत्यै॒ स्वाहेति॑ ॥ ६ ॥
अयम्मन्त्रः पूर्वं व्याख्यातः । अनेन यो यः सर्पति स स जुहुयात् ॥६॥
मन्त्रगतयोर्वाक्सरस्वतीशब्दयोरैक्यार्थमाह-
वाग्वै सर॑स्वती तामे॒व तद्भा॑गधेये॒नार॑भते ॥ ७ ॥
आलम्बते उद्गात्रादिकमित्यर्थः ॥ ७ ॥
अद्वेष्यस्य वाग्ध्यानात्मप्रयोगकथनव्याजेन अद्वेष्ययजमानप्रयोगेण
वाग्ध्यानमात्रप्रयोगेण नालं किन्तु मन्त्रपाठः कर्त्तव्य इत्याह-
यं द्वि॒ष्यात्तस्यै॒तामाहु॑तिञ्जुहुयाद्वा॒चं मन॑सा ध्यायेद्वा॒-
च॑मे॒वास्य॒ वृङ्क्ते॑ ॥ ८ ॥
यं यजमानं द्विष्यादुद्गाता तस्य प्रयोगे एतामाहुतिं जुह्वद्धोमं कुर्व्व-
न् वाचंमनसाध्यायेन्मन्त्रं ब्रूते । कुतः ? अद्वेष्यस्य प्रयोगे मन्त्र उच्चार-
यितव्य इत्यभिप्रायः । अत्र मन्त्रसमाम्नाये बेकुरानामासीति मन्त्रः प्रथ-
मं समाम्नातः सूर्योमेति पश्चात् । अत्र क्रमविपर्य्यासः किमर्थः ? मन्त्रेषु
स्तुतिमात्रमेव विवक्षितं न क्रम इति केचित् । अपरे तु स्तुतिमात्रविवक्षा-
यामपि क्रमविलङ्घनस्यान्न्याय्यत्वादेवं वा क्रमः स्यादिति क्रमविकल्पा-
र्थमिति ॥ ८ ॥
अथ बहिष्पवमानार्थं प्रसर्पणं विधत्ते-
ब॒हि॒ष्प॒व॒मानꣳ॑ सर्पन्ति स्व॒र्गमे॒व तल्लो॒कꣳ सर्प॑न्ति ॥ ९ ॥

ये अध्वर्युप्रमुखाः बहिष्पवमानार्थं सदः सकाशाच्चात्वालं प्रति
सर्पन्ति तत्तेन स्वर्गं लोकमेव प्रति सर्पन्ति । यजमानस्य एतत् कर्तृक-
प्रसर्पणाभावे स्वर्गासिद्धेस्तस्य स्वर्गार्थमेवैते प्रसर्पन्ति ॥ ९ ॥
प्रसर्पणे किञ्चिन्नियमद्वयं विधत्ते—
प्रक्वाणा इव सर्पन्ति प्रतिकूलमिव हीतः स्वर्गो लोकः
त्सरन्त इव सर्पन्ति मृगधर्म्मा वै यज्ञो यज्ञस्य शान्त्या
अपत्रासाय ॥ १० ॥
बहिष्पवमानस्य स्वर्गत्त्वेनोपन्यासात्तदर्थं प्रसर्पणं प्रक्वाणैरिव कर्त्त-
व्यम् । यद्यपि स्वर्गः सर्वान् प्रत्यविशिष्टत्वादनुकूल एव तथापि मृगवृत्त्य-
नन्तरभावित्वात्प्रतिकूलमिवोच्यते । किञ्च त्सरन्त इव 'त्सरच्छद्मगतौ'
यथा पादप्रसारणध्वनिर्नोत्पद्यते तथा मृदुपदन्यासैर्गन्तव्यम् । यथा मृग-
ग्राहिभिस्तद्वत् 'त्सरद्गमने'कारणमाह—यो यज्ञः स मृगधर्म्मा वै मृगस्य
यः पलायनधर्म्मः स तद्धर्म्मयुक्तः खलु । किमर्थमेवं कृतिरिति चेदुच्यते—
यज्ञस्य शान्त्यै शमनाय स्थैर्याय । तदेवाह—अपत्रासाय। प्रसर्पणे हि त्रा-
सो भवति ॥ १० ॥
अथ तत्र वाङ्नियमं तदभावे दोषं कथयन् विधत्ते—
वाचं यच्छन्ति यज्ञमेव तद्यच्छन्ति यद्यववदेयुर्यज्ञं
निर्ब्रूयुस्तस्मान्न व्यववद्यम् ॥ ११ ॥
तदेतत् प्रसर्पकाः वाचं यच्छन्ति नियमयन्ति तत्तेन यज्ञमेव यच्छ-
न्ति । यज्ञस्य मन्त्रादिलक्षणवाक्पूर्वकत्वाद्वागेव यज्ञः। यद्यपि व्यवहरे-
युर्विविधं दुष्टां वाचं ब्रूयुस्तर्हि यज्ञमेव निर्ब्रूयुः नितरां ब्रूयुः । अयमिति
प्रकाशयेयुरित्यर्थः । तस्मात्तैर्न व्यववद्यम् ॥ ११ ॥
अथाध्वर्युप्रभृतिब्रह्मान्तानां पञ्चर्त्विजां तत्र समारम्भणं विधत्ते—
पञ्चर्त्विजः सꣳरब्धाः सर्पन्ति पाङ्क्तो यज्ञो यावान्
यज्ञस्तमेव सन्तन्वन्ति ॥ १२ ॥
यजमानवर्ज्जिताः पञ्चर्त्विजः । सꣳरब्धाः सम्यक् परस्परं सङ्गताः
सर्पन्ति । तत्रत्यपञ्चसंख्या स्तूयते—पाङ्क्तो यज्ञः। यज्ञस्य पाङ्क्तत्वं तैत्तिरीये
प्रश्नमुखेन स्पष्टीकृतम् । “नर्च्चा न यजुषा पङ्क्तिराप्यते यत्किञ्च यज्ञस्य
पाङ्क्तत्वमि”ति धानाः करम्भः परिवापः पुरोडाशः पयस्याशेन पङ्क्तिरुच्यते
तेन यज्ञस्य पाङ्क्तत्वमिति । एतैरेव तु हविष्पङ्क्त्यक्षरपङ्क्तिनराशंसपङ्क्ति-
सवनपङ्क्तीनां प्रदर्शनेन यज्ञस्य पाङ्क्तत्वमुपवर्णितम् ॥ १२ ॥

यो वै यज्ञहविष्पङ्किं वेदेत्यत्र समारभ्य प्रसर्पताम्मध्ये प्रस्तोतृवि-
च्छेदे प्रयोगमाह—
यदि प्रस्तोताऽवच्छिद्यते यज्ञस्य शिरश्छिद्यते ब्रह्म-
णे वरन्दत्वा स एव पुनर्वर्त्तव्यश्छिन्नमेव तत्प्रति-
दधाति ॥ १३ ॥
यदि प्रस्तोता अध्वर्योरन्वारम्भादवच्छिद्यते तदा यज्ञस्य शिर एव
छिद्यते । तस्य शिरो हि तन्मुखस्य प्रथमभागस्य गातृत्वात् । तस्य प्राय-
श्चित्तार्थं ब्रह्मणे वरङ्गं दत्वा स एव ब्रह्मा पुनर्वर्त्तव्यो वरणीयः । तत्तेन
विच्छिन्नमपि शिरः प्रति दधाति ॥ १३ ॥
अथोद्गात्रवच्छेदे प्रयोगमाह—
यद्युद्गातावच्छिद्यते यज्ञेन यजमानो व्यृद्ध्यतेऽदक्षि-
णः स यज्ञक्रतुः संस्थाप्योऽथान्य आहृत्यस्तस्मिन्द्देयं
यावद्दास्यन् स्यात् ॥ १४ ॥
यदि उद्गातावच्छिद्यते प्रस्तोत्रन्वारम्भणात्तदा व्यृद्ध्येन नष्टेन यज-
मानो व्यृद्ध्यते गतसमृद्धो नष्टो भवति । तस्माद्यज्ञ एव क्रतुर्यज्ञक्रतुः सप्र-
वृत्तैः अदक्षिणो दक्षिणाविहीनः समापनीयः । अथानन्तरं अन्यस्तत्सं-
स्थोयाग आहृत्यः पुनरनुष्ठेयः । तस्मिन् पुनः कृते यज्ञे देयं दातव्यं किं
द्रव्यमन्यदिति ? नेत्याह । यावद्धनं पूर्वस्मिन् यज्ञे दास्यन् स्यात् यजमा-
नस्तदेव धनं तस्मिन् यज्ञे तेन देयम् ॥ १४ ॥
अथ प्रतिहर्त्रवच्छेदमाह—
यदि प्रतिहर्त्ताऽवच्छिद्यते पशुभिर्यजमानो व्यृद्ध्यते
पशवो वै प्रतिहर्त्ता सर्व्ववेदसन्देयं यदि सर्व्ववेदसन्न
ददाति सर्व्वज्यानिञ्जीयते ॥ १५ ॥
यदीत्यादि स्पष्टम् । प्रतिहारमानभागे पशुसमृद्धेस्तदङ्गांगता अपि
पशव इत्युच्यते । पशुनाशाभावाय सर्व्ववेदसं देयं सर्वमपि धनं दातव्यम् ।
यदि सर्वं धनं न दद्यात् तदानीं यजमानः सर्व्वज्यानि जीयते सर्वेषु·
त्रपशुधनादिरूपां हानिं हीयते । अपरो धात्वर्थोऽनुवादः । सर्व्वाभिः समृ-
द्धिभिर्विहीनो भवतीत्यर्थः। अत्रावच्छेदप्रकरणे एकैकावच्छेदे प्रतिनिय-
तप्रायश्चित्तानुष्ठानान्न कदाचित्प्रतिपत्तिः । उद्गातृप्रतिहर्त्रोः सहावच्छेदे
कथमित्याशंका पूर्वतन्त्रेऽधिकाराध्याये प्रायश्चित्तपादे अत्रोक्त उद्गातृ-
प्रतिहर्त्रोरवच्छेदवाक्यद्वयं विषयीकृत्य सहावच्छेदे कथमित्याहाऽस्ति

२०६ ताण्ड्यमहाब्राह्मणे

प्रायश्चित्तं तच्च विकल्पितमिति विचारद्वयम् । तयोरेव क्रमावच्छेदे
उत्तरावच्छेदः प्रबल इत्येकः। सचोद्गातृसम्बन्धी चेत् सर्वस्वमेव दातव्यं
'न द्वादश शतमिति' द्वितीय इति विचारद्वयं कृतम् । ते चत्वारो वि-
चाराः क्रमेणात्र निर्णयाय प्रदर्श्यन्ते । तत्र प्रथमं दर्शयति 'उद्गातुः प्र-
तिहर्तुश्च सहावच्छेदनेऽस्ति न । प्रायश्चित्तमुतास्त्यत्र तन्निमित्तवि-
घाततः । एकैकस्यैव विच्छेदकर्तृत्वान्न निहन्यते । कालमात्रं तु तत्रैकं
प्रायश्चित्तमतो भवेत्' ज्योतिष्टोमस्तु श्रूयते । तद्यद्युद्गातावच्छिद्येत अद-
क्षिणो यज्ञः समाप्योऽथान्य आहृत्य तत्र तद्दद्याद्यद्दास्यन् स्यात् । यदि
प्रतिहर्त्तावछिद्यते सर्वस्वं दद्यादिति । अस्यायमर्थः प्रातःसवनेन बहि-
ष्पवमानेन स्तोष्यमाणा ऋत्विजः शालाया बहिः प्रसर्पन्ति तदानीमेक-
स्य पृष्ठतोऽन्य इत्येवं पिपीलिकावत् पङ्क्त्याकारेण गन्तव्यम् । तत्र पुरतो
गन्तुः कच्छं गृहीत्वैव पृष्ठतोऽन्यो गच्छेत् । एवं सति यदि प्रमादादुद्गाता
गृहीतं कच्छं मुञ्चेत्तदा दक्षिणामदत्वा प्रक्रान्तो यज्ञः समापनीयः । तं स-
माप्य पुनरपि स यज्ञः प्रयोक्तव्यः । तस्मिन् प्रयोगे यदीप्सितं द्रव्यं तद्-
दद्यात् । यदा प्रतिहर्त्ता मुञ्चेत् तदा तस्मिन्नेव प्रयोगे सर्वं दद्यादिति ।
तत्र यद्युद्गातृप्रतिहर्त्तारौ युगपत् मुञ्चेतां तदानीमुक्तं प्रायश्चित्तनिमित्तं
विहन्येत । एकैककर्तृकोऽवच्छेदो निमित्तत्वेन श्रुतः । अयं तूभयकर्तृ-
कत्वान्नैकेन व्यपदेष्टुं शक्यते । तस्माच्छ्रूयमाणस्य निमित्तस्य विहित-
त्वान्नास्ति प्रायश्चित्तमिति प्राप्ते ब्रूमः, द्वौ ह्यत्रावच्छेदौ तयोरेकैकस्यैक
एव कर्त्तेति निमित्तस्य नास्ति विघातः । कालमात्रैक्यात्तु एकत्वभ्रा-
न्तिः । तस्मान्निमित्तविघाताभावादस्ति प्रायश्चित्तम् । द्वितीयं दर्शयति
'समुच्चयो विकल्पो वा प्रायश्चित्तद्वयेऽग्रिमः। अदक्षिणं पूर्वमस्मिन् प्रयो-
गेऽन्यत्तु पश्चिमम् । प्रयोगे पश्चिमे नास्ति निमित्तं तेन तद्द्वयम् । प्राप्तमेक-
प्रयोगेऽतो विरुद्धत्वाद्विकल्पिते' अदक्षिणत्वं सर्वस्वदानं चेति यत्प्रा-
यश्चित्तद्वयन्निमित्तभेदेन श्रुतं तन्निमित्तद्वयसन्निपाते समुच्चेतव्यम् । य-
द्यदक्षिणत्वसर्वस्वदानयोरन्योन्यविरोधः तर्हि प्रयोगभेदेन व्यवस्थापनी-
यम् । अवच्छेदयुक्ते प्रथमप्रयोगे दक्षिणा न दातव्या उत्तरप्रयोगे सर्व-
स्वं दातव्यम् । सत्यपि प्रयोगभेदे कर्म्मण एकत्वात् । समुच्चय इति
प्राप्ते ब्रूमः, न ह्युत्तरप्रयोगे दक्षिणा दातव्या विच्छेदो विद्यते न च । सति
निमित्ते प्रायश्चित्तं युक्तम् । तस्मात्प्रथमप्रयाग एव निमित्तद्वयवशा-
त्प्रायश्चित्तद्वयं प्राप्तं तच्चान्योन्ये विरुद्धाविरुद्धत्वाद्विकल्पते ।
तृतीयं दर्शयति 'अवच्छेदक्रमे पूर्वः प्रबलः स्यादुतोत्तरः । असंजातवि-

रोधेन पूर्वेणोत्तरसेधनम् । निरपेक्षोत्तरज्ञानं जायते पूर्वबाधया । न
बाधकान्तरं तस्य तेन प्रबलमुत्तरम्' उद्गातृप्रतिहर्तृकयोरवच्छेदयोर्यौ-
गपद्ये समानबहुत्वात्तु प्रायश्चित्तयोर्विकल्पः । यदा तु क्रमेणाव-
च्छेदौ स्यातां तदानीमसंजातविरोधित्वेन पूर्वस्य प्रबलत्वात् श्रुतिलि-
ङ्गादाविवोत्तरस्य प्रवृत्तिर्निरुध्यत इति चेत् ? मैवं, श्रुतिलिङ्गादावुत्तर-
स्य सापेक्षत्वात् । पूर्वेण विरोधे सत्युत्तरस्योत्पत्तिरेव नास्ति । इह तु ज्ञान-
द्वयमन्योन्यनिरपेक्षं वाक्यद्वयादुत्पद्यत इति नास्त्युत्पत्तिप्रबन्धे । उत्प-
द्यमानं चोत्तरज्ञानं स्वविरुद्धस्य पूर्वज्ञानस्य बाधेनैवोत्पद्यते। ननु निरपे-
क्षत्वस्य समानत्वात् पूर्वज्ञानमेवोत्तरस्य बाधकमस्त्विति चेत् ? न, पू-
र्वज्ञानोत्पत्तिदशायामविद्यमानस्योत्तरज्ञानस्य बाध्यत्वायोगात् । उत्तर-
काले तु स्वयं बाधितं पूर्वज्ञानं कथमुत्तरस्य बाधकं भवेत् । नचान्यत्कि-
ञ्चिदुत्तरस्य बाधकं पश्यामः । तस्मादुत्तरकालीनावच्छेदनिमित्तं प्रा-
यश्चित्तमनुष्ठेयम् । चतुर्थं दर्शयति 'उद्गातुः पश्चिमेच्छेदे पुनर्यागस्य द-
क्षिणा । शतं द्वादशयुक्तं स्याद्यदि वा सर्ववेदसम् । तद्यद्याद्यत्पुरादिष्ट-
मित्यक्ते शतदक्षिणा । प्रतिहर्तुः पुरा च्छेदात्सर्ववेदसबाधितम् । शत-
दानं पूर्वयागे सर्ववेदसदक्षिणा । प्राप्ते व्यूह्यं प्रयोगे तु दातव्यं सर्व-
वेदसम्' । यद्युद्गाता पश्चादवच्छिद्येत तदा तस्यावच्छेदस्य प्रबलत्वेन त-
न्निमित्तं प्रायश्चित्तमनुष्ठेयम् । तच्च प्रायश्चित्तमीदृशं, प्रथमप्रयोगं दक्षिणा-
रहितमनुष्ठाय द्वितीयप्रयोगे पूर्वन्दित्सुना दक्षिणा दातव्या इति । पूर्वं
गां द्वादशाधिकं शतं तत्प्रतिहर्तृवच्छेदनिमित्तसर्वस्वेन बाधितम् । नचो-
द्गात्रवच्छेदेन पश्चाद्भाविना सर्वस्वन्दित्सा बाध्यत इति शङ्कनीयम् । बा-
धकस्य दक्षिणान्तरस्य तत्रानुक्तत्वात् । यद्दित्सितं तदुत्तरप्रयोगे देयमि-
त्येतावदेव ततोऽत्रोच्यते । दित्सितञ्च सर्वस्वमित्युक्तम् । अत उत्तरका-
लीनोद्गात्रेऽवच्छेदनिमित्तेऽपि पुनः प्रयोगे पूर्वकालीनप्रतिहर्तृवच्छे-
दप्रयुक्तं सर्वस्वमेव दातव्यम् ॥ १५ ॥
अथ बहिष्पवमाने प्रसर्पणसमयेऽध्वर्योः प्रस्तरप्रतिहरणं विधत्ते—
अध्वर्युः॒ प्रस्त॑र॒ꣳ ह॑रति ॥ १६ ॥
प्रस्तरो दर्भमुष्टिः ॥ १६ ॥
प्रस्तरं प्रशंसति—
यज॑मानो वै प्रस्त॒रो यज॑मानमेव तत् स्व॒र्गँल्लो॒कꣳ
हर॑ति ॥ १७ ॥
प्रस्तरस्य हविरासादनादिद्वारा यागसाधनत्वात् यजमानोऽपि सा-

क्षाद्यङ्गसाधनमिति साधनत्वसाम्यात् प्रस्तरो यजमानत्वेन स्तूयते । त-
त्तथा सति बहिष्पवमानस्य स्वर्गत्त्वेन पूर्वं प्रतिपादितत्वात् प्रस्तरं प्रह-
रन् अध्वर्युर्यजमानमेव स्वर्गं लोकं प्रति हरति प्रापयति । इदमेव वा-
क्यं विषयीकृत्य प्रथमाध्यायस्य चतुर्थपादे 'प्रस्तरइति कर्म्मनामधेयं वा
गुणो वा प्रस्तरस्य स्तुतिर्वेति' त्रेधा संशय्य स्तुतिरिति सिद्धान्तितम् ।
तथाहि 'यजमानः प्रस्तरोऽत्र गुणो वा नाम वा स्तुतिः । सामानाधि-
करण्येन स्यादेकस्याप्यन्यता । गुणो वा यजमानस्तु कार्य्यप्रस्तरल-
क्षिते । अंशांशित्वाद्यभावेन पूर्ववन्नात्र संस्तुतिः । अर्थभेदान्नामत्वं
गुणश्चेद्विकियेत सः । यागसाधकत्वाद्वारा विधेयप्रस्तरस्तुतिः' । इदमा-
म्नायते यजमानः प्रस्तर इति । तत्र यजमानस्य प्रस्तरशब्दो नामधेयं प्र-
स्तरस्य वा यजमानशब्दो नामधेयम् कुतः ? उद्भिदा यागेनेत्यादाविव
सामानाधिकरण्यादित्येकः पक्षः, गुणविधिरेष इत्यपरः पक्षः । तत्रापि
यजमानकार्य्ये जपादौ प्रस्तरस्याचेतनस्य सामर्थ्याभावात् प्रस्तरकार्य्ये
सम्यग्धारणादौ यजमानस्त्वशक्तत्वात् यजमानरूपो गुणो विधीयते । ए-
वं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्य्यलक्षकत्वेन प्रथमश्रुतो यज-
मानशब्दो मुख्यवृत्तिर्भविष्यति । न चात्र पूर्वन्यायेन स्तुतिः सम्भवति
अष्टाकपालद्वादशकपालयोरिव प्रस्तरयजमानयोरंशांशित्वाभावात् । 'वा-
युर्वै क्षेपिष्ठा देवता ऊर्जोऽवरुध्या' इत्यादिष्विव स्तुतिरिति चेत् ? न, क्षिप्र-
त्वादिधर्मवत् कस्यचिदुत्कर्षस्याप्रतीतेः तस्मान्नामगुणयोरन्यतरत्वप्रा-
प्तौ ब्रूमः । गोमहिषयोरिवार्थभेदस्यात्यन्तप्रसिद्धत्वान्नामत्वन्न युक्तम् । गु-
णपक्षे त्वग्नौ प्रहरणस्य प्रस्तरविषयत्वात् यजमाने प्रहृते सति कर्म्मलो-
पः स्यात् । तस्माद्येषः प्रस्तरो यजमानशब्देन स्तूयते । यथा सिंहो देवद-
त्त इत्यत्र सिंहगुणेन शौर्य्यादिनोपेतो देवदत्तः सिंहशब्देन स्तूयते । त-
था यजमानगुणेन यागसाधकत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते ।
एवं यजमान एककपाल इत्यादिषु द्रष्टव्यम् ॥ १७॥
अथ प्रकारान्तरेण प्रस्तरं प्रशंसति ।
यज्ञो वै देवेभ्योऽश्वो भूत्वाऽपाक्रामत्तं देवाः प्रस्तरेणा-
रमयंस्तस्मादश्वः प्रस्तरेण सम्मृज्यमान उपावरमते
यदध्वर्युः प्रस्तरँ हरति यज्ञस्य शान्त्या अप्रत्रा-
साय ॥ १८ ॥
यज्ञः खलु पूर्वं देवेभ्यः सकाशादश्वो भूत्वा अपाक्रामदपगतवान् ।
तदा देवाः अश्वस्य घासः प्रस्तर इति मत्वा तमश्वं प्रस्तरेण प्रदर्शिते-

षष्ठाध्याये सप्तमः खण्डः । २०९

नारमन्। तस्मादिदानीमपि अश्वः प्रस्तरेण तृणमुष्टिना सम्मृज्यमान उप-
समीपेनारमते क्रीडति। तस्मादध्वर्युः प्रस्तरं हरति यज्ञस्य शान्त्यै
अप्रत्रासाय अपलापनाय च भवति ॥ १८ ॥
अथ प्रकारान्तरेण स्तौति—
प्रजापतिः पशूनसृजत तेऽस्मात् सृष्टा अशनायन्तो-
ऽपाक्रामँस्तेभ्यः प्रस्तरमन्नं प्रायच्छत्त एनमुपावर्त्तन्त त-
स्मादध्वर्युणा प्रस्तर ईषदिव विधूयो विधूतमिव हि तृ-
णं पशव उपावर्त्तन्ते ॥ १९ ॥
पूर्वं प्रजापतिना सृष्टाः पशव अशनायन्तो अशनामिच्छन्तः स्रष्टुः
सकाशात् अपाक्रामन् अपसृत्यागच्छन्। तेभ्यः प्रस्तरं दर्भमुष्टिमन्नत्वेन
प्रायच्छत्। ततो लब्धान्नास्ते प्रजापतिमुपावर्त्तन्ते। तस्मात् पशूनामन्नत्वा-
दध्वर्युणा प्रस्तर ईषदिव विधूयश्चालनीयः। तथा सति विधूतमिव हि तृ-
णं ईषद्धिधूतंतृणमपेक्ष्य पशवो यजमानं उपावर्त्तन्ते। यजमानस्य शान्त्यै
पशवः समृद्धा भवन्तीत्यर्थः ॥ १९ ॥
अथ विदुषः फलमाह—
उपैनं पशव आवर्त्तन्ते य एवँ वेद ॥ २० ॥
स्पष्टोऽर्थः ॥ २० ॥
अथ प्रस्तरं भूमौ स्थापयित्वा गानं विधत्ते—
प्रस्तरमासद्योद्गायेद्धविषोऽस्कन्दाय ॥ २१ ॥
उद्गाता प्रस्तरमपि हरन् आसद्य भूमावासञ्जनं कृत्वोद्गायेत्। तथा
सति प्रस्तरस्य हविरासादनार्थत्वात्तदपरित्यज्यासञ्जनं हविषोऽस्कन्दा-
याप्रच्युत्यै भवति ॥ २१ ॥
एवमुक्तप्रकारेण गुणसद्भावेऽपि दोषोऽप्यस्तीत्याह—
यजमानन्तु स्वर्गाल्लोकादवगृह्णाति ॥ २२ ॥
तुशब्दो वैलक्षण्यद्योतनार्थः। तु किन्तु 'यजमानो वै प्रस्तर' इत्युक्त-
त्वाद्यजमानमेव स्वर्गाल्लोकादवगृह्णाति निरुध्य भूमौ स्थापितवान्
भवति प्रस्तरं भूमावासञ्जयन्नुद्गाता ॥ २२ ॥
तर्हि क उपाया इति चेत्तत्राह—
अष्ठीवतोपस्पृशतोद्गेयन्तेनास्य हविरस्कन्नं भवति
न यजमानँ स्वर्गाँल्लोकादवगृह्णाति ॥ २३ ॥