ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
DevanagariSanskritpublished518 पृष्ठ
पृष्ठ 210, कुल 518 में से
संदर्भ में पढ़ेंपृष्ठ 210
१९० ताण्ड्यमहाब्राह्मणे
मध्यतोऽन्नं दधातीत्युक्तं किं तन्मध्यमत्र विवक्षितं कथं वा तत्रा-
न्ननिधाने प्रजानां तृप्तिर्भवतीति तत्राह—
साम दे॒वानामन्न॑ꣳ साम्न्ये॒व तद्दे॒वेभ्यो॒ऽन्न॒मूर्ज्जन्द॑-
धाति॒ स ए॒व तदूर्जिꣳ श्रितः प्र॒जाभ्य॒ ऊर्जं॒ विभ॑जति॥१३॥
तस्य सामोपजीवनं प्रायच्छदिति, सामविधाने उक्तत्वादन्नवत्
प्रीतिकरत्वाद्वा देवानामन्रं साम तत्तथा सति साम्न्येव देवानामन्रभूते
सामनि ऊर्जमन्नन्दधाति किमर्थं ? देवेभ्यः देवांस्तर्पयितुम् । स इति श्रित
इति च लिङ्गव्यत्ययः । तत्तथा स एव तदेव देवानामन्रभूतम् ऊर्जि अन्ने
श्रितं साम प्रजाभ्य एषामर्थाय ऊर्जं विभजति प्रयच्छति ॥ १३ ॥
अथौदुम्बरिप्रसङ्गात् उद्गात्रादी