ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 227, कुल 518 में से
संदर्भ में पढ़ेंरोधेन पूर्वेणोत्तरसेधनम् । निरपेक्षोत्तरज्ञानं जायते पूर्वबाधया । न
बाधकान्तरं तस्य तेन प्रबलमुत्तरम्' उद्गातृप्रतिहर्तृकयोरवच्छेदयोर्यौ-
गपद्ये समानबहुत्वात्तु प्रायश्चित्तयोर्विकल्पः । यदा तु क्रमेणाव-
च्छेदौ स्यातां तदानीमसंजातविरोधित्वेन पूर्वस्य प्रबलत्वात् श्रुतिलि-
ङ्गादाविवोत्तरस्य प्रवृत्तिर्निरुध्यत इति चेत् ? मैवं, श्रुतिलिङ्गादावुत्तर-
स्य सापेक्षत्वात् । पूर्वेण विरोधे सत्युत्तरस्योत्पत्तिरेव नास्ति । इह तु ज्ञान-
द्वयमन्योन्यनिरपेक्षं वाक्यद्वयादुत्पद्यत इति नास्त्युत्पत्तिप्रबन्धे । उत्प-
द्यमानं चोत्तरज्ञानं स्वविरुद्धस्य पूर्वज्ञानस्य बाधेनैवोत्पद्यते। ननु निरपे-
क्षत्वस्य समानत्वात् पूर्वज्ञानमेवोत्तरस्य बाधकमस्त्विति चेत् ? न, पू-
र्वज्ञानोत्पत्तिदशायामविद्यमानस्योत्तरज्ञानस्य बाध्यत्वायोगात् । उत्तर-
काले तु स्वयं बाधितं पूर्वज्ञानं कथमुत्तरस्य बाधकं भवेत् । नचान्यत्कि-
ञ्चिदुत्तरस्य बाधकं पश्यामः । तस्मादुत्तरकालीनावच्छेदनिमित्तं प्रा-
यश्चित्तमनुष्ठेयम् । चतुर्थं दर्शयति 'उद्गातुः पश्चिमेच्छेदे पुनर्यागस्य द-
क्षिणा । शतं द्वादशयुक्तं स्याद्यदि वा सर्ववेदसम् । तद्यद्याद्यत्पुरादिष्ट-
मित्यक्ते शतदक्षिणा । प्रतिहर्तुः पुरा च्छेदात्सर्ववेदसबाधितम् । शत-
दानं पूर्वयागे सर्ववेदसदक्षिणा । प्राप्ते व्यूह्यं प्रयोगे तु दातव्यं सर्व-
वेदसम्' । यद्युद्गाता पश्चादवच्छिद्येत तदा तस्यावच्छेदस्य प्रबलत्वेन त-
न्निमित्तं प्रायश्चित्तमनुष्ठेयम् । तच्च प्रायश्चित्तमीदृशं, प्रथमप्रयोगं दक्षिणा-
रहितमनुष्ठाय द्वितीयप्रयोगे पूर्वन्दित्सुना दक्षिणा दातव्या इति । पूर्वं
गां द्वादशाधिकं शतं तत्प्रतिहर्तृवच्छेदनिमित्तसर्वस्वेन बाधितम् । नचो-
द्गात्रवच्छेदेन पश्चाद्भाविना सर्वस्वन्दित्सा बाध्यत इति शङ्कनीयम् । बा-
धकस्य दक्षिणान्तरस्य तत्रानुक्तत्वात् । यद्दित्सितं तदुत्तरप्रयोगे देयमि-
त्येतावदेव ततोऽत्रोच्यते । दित्सितञ्च सर्वस्वमित्युक्तम् । अत उत्तरका-
लीनोद्गात्रेऽवच्छेदनिमित्तेऽपि पुनः प्रयोगे पूर्वकालीनप्रतिहर्तृवच्छे-
दप्रयुक्तं सर्वस्वमेव दातव्यम् ॥ १५ ॥
अथ बहिष्पवमाने प्रसर्पणसमयेऽध्वर्योः प्रस्तरप्रतिहरणं विधत्ते—
अध्वर्युः॒ प्रस्त॑र॒ꣳ ह॑रति ॥ १६ ॥
प्रस्तरो दर्भमुष्टिः ॥ १६ ॥
प्रस्तरं प्रशंसति—
यज॑मानो वै प्रस्त॒रो यज॑मानमेव तत् स्व॒र्गँल्लो॒कꣳ
हर॑ति ॥ १७ ॥
प्रस्तरस्य हविरासादनादिद्वारा यागसाधनत्वात् यजमानोऽपि सा-