ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 212, कुल 518 में से
संदर्भ में पढ़ें१९२ ताण्ड्यमहाब्राह्मणे
तं प्रजापतिशिरस्त उत्पन्नं कलशं वानस्पत्य इत्यादिना मन्त्रेण प्राञ्चं
प्रोहेत् प्रेरयेत् । एतत्प्रोहणमध्वर्य्वादिभिस्त्रिभिरपि कर्त्तव्यं, तथा च
सूत्रम् 'ऋतमसीति द्रोणकलशमालभ्य ऽवानस्पत्योऽसीति प्रोहेयुरि'ति
अयं मन्त्रः पूर्वं व्याख्यातः ॥ ३ ॥
अथ मन्त्रस्य प्रथमभागस्य तात्पर्यं व्याचष्टे—
यदाह ऽवानस्पत्य इति सत्येनैवैतं तत्प्रोहति ॥ ४ ॥
मन्त्रे उद्गाता वानस्पत्य इति यदाह तत्तेन एनं द्रोणकलशं सत्ये-
नैव प्रोहति । वस्तुतो द्रोणकलशस्य वनस्पतिविकारत्वात् सत्य इति
'बृहस्पतिर्वै देवानामुद्गाता तमेव तद्युनक्ती'ति एतेन मन्त्रभागेनैव प्रो-
हणं कृतवान् भवति ॥ ४ ॥
अथ द्वितीयभागस्य तात्पर्यमाह—
यदाह बार्हस्पत्य इति बृहस्पतिर्वै देवानामुद्गाता
तमेव तद्युनक्ति ॥ ५ ॥
तं बृहस्पतिमेव युनक्ति प्रेरयति ॥ ५ ॥
अथ तृतीयचतुर्थभागयोस्तात्पर्यमाह—
यदाह प्राजापत्य इति प्राजापत्यो ह्येष देवताया
यद्द्रोणकलशो यदाह प्रजापतेर्मूर्द्धेति प्रजापतेर्ह्येष मूर्द्ध
उदहन्यत ॥ ६ ॥
द्रोणकलशस्य प्रजापतेर्मूर्द्धरूपत्वमुक्तप्रकारेण स्पष्टन्तत्सम्बन्धा
देव स प्राजापत्य इत्युच्यते ॥ ६ ॥
अथ पञ्चमस्य तात्पर्यमाह—
यदाहा"त्यायु