ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
DevanagariSanskritpublished518 पृष्ठ
पृष्ठ 221, कुल 518 में से
संदर्भ में पढ़ेंपृष्ठ 221
षष्ठाध्याये षष्ठः खण्डः । २०१
पवित्रप्रसारणे तत्सङ्कोचाभावाय किञ्चिद्वक्तव्यमित्याह—
तं ब्रूयाद्वेपमानः प्रमेष्यस इति ब्वेपमान एव प्रमीयते॥ १५॥
तम् उद्गातारं पवित्रं प्रसारयन्तं ब्रूयात्किमिति ? उच्यते—वेपमानः क-
म्पमानः प्रमेष्यसे। नित्यमपि वेपमान एव प्रमीयते स इति। तथा स प्र्रि-
योऽत उक्तं पवित्रविग्रहणं सूत्रकार आह “अवधूय पवित्रमुद्गदशमवा-
ङ्नाभि वितनुयुः पवित्रन्त इति ऋचैक” इति ॥ १५ ॥
अथोद्गातृद्धारानुमन्त्रणं समन्त्रैकदेशोपादानं विधत्ते—
प्र शुकैतु देवी मनीषास्मद्रथः सुतष्टो न वाजीत्यु-
द्गाता धारामनुमन्त्रयते ॥ १६ ॥
मन्त्रैकदेशः पूर्वं व्याख्यातः। इत्यनेन मन्त्रेण शोध्यमानसोमधारा-
मनुमन्त्रयते ॥ १६ ॥
अथानुमन्त्रणमन्त्र