सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 224, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 224

ये अध्वर्युप्रमुखाः बहिष्पवमानार्थं सदः सकाशाच्चात्वालं प्रति
सर्पन्ति तत्तेन स्वर्गं लोकमेव प्रति सर्पन्ति । यजमानस्य एतत् कर्तृक-
प्रसर्पणाभावे स्वर्गासिद्धेस्तस्य स्वर्गार्थमेवैते प्रसर्पन्ति ॥ ९ ॥
प्रसर्पणे किञ्चिन्नियमद्वयं विधत्ते—
प्रक्वाणा इव सर्पन्ति प्रतिकूलमिव हीतः स्वर्गो लोकः
त्सरन्त इव सर्पन्ति मृगधर्म्मा वै यज्ञो यज्ञस्य शान्त्या
अपत्रासाय ॥ १० ॥
बहिष्पवमानस्य स्वर्गत्त्वेनोपन्यासात्तदर्थं प्रसर्पणं प्रक्वाणैरिव कर्त्त-
व्यम् । यद्यपि स्वर्गः सर्वान् प्रत्यविशिष्टत्वादनुकूल एव तथापि मृगवृत्त्य-
नन्तरभावित्वात्प्रतिकूलमिवोच्यते । किञ्च त्सरन्त इव 'त्सरच्छद्मगतौ'
यथा पादप्रसारणध्वनिर्नोत्पद्यते तथा मृदुपदन्यासैर्गन्तव्यम् । यथा मृग-
ग्राहिभिस्तद्वत् 'त्सरद्गमने'कारणमाह—यो यज्ञः स मृगधर्म्मा वै मृगस्य
यः पलायनधर्म्मः स तद्धर्म्मयुक्तः खलु । किमर्थमेवं कृतिरिति चेदुच्यते—
यज्ञस्य शान्त्यै शमनाय स्थैर्याय । तदेवाह—अपत्रासाय। प्रसर्पणे हि त्रा-
सो भवति ॥ १० ॥
अथ तत्र वाङ्नियमं तदभावे दोषं कथयन् विधत्ते—
वाचं यच्छन्ति यज्ञमेव तद्यच्छन्ति यद्यववदेयुर्यज्ञं
निर्ब्रूयुस्तस्मान्न व्यववद्यम् ॥ ११ ॥
तदेतत् प्रसर्पकाः वाचं यच्छन्ति नियमयन्ति तत्तेन यज्ञमेव यच्छ-
न्ति । यज्ञस्य मन्त्रादिलक्षणवाक्पूर्वकत्वाद्वागेव यज्ञः। यद्यपि व्यवहरे-
युर्विविधं दुष्टां वाचं ब्रूयुस्तर्हि यज्ञमेव निर्ब्रूयुः नितरां ब्रूयुः । अयमिति
प्रकाशयेयुरित्यर्थः । तस्मात्तैर्न व्यववद्यम् ॥ ११ ॥
अथाध्वर्युप्रभृतिब्रह्मान्तानां पञ्चर्त्विजां तत्र समारम्भणं विधत्ते—
पञ्चर्त्विजः सꣳरब्धाः सर्पन्ति पाङ्क्तो यज्ञो यावान्
यज्ञस्तमेव सन्तन्वन्ति ॥ १२ ॥
यजमानवर्ज्जिताः पञ्चर्त्विजः । सꣳरब्धाः सम्यक् परस्परं सङ्गताः
सर्पन्ति । तत्रत्यपञ्चसंख्या स्तूयते—पाङ्क्तो यज्ञः। यज्ञस्य पाङ्क्तत्वं तैत्तिरीये
प्रश्नमुखेन स्पष्टीकृतम् । “नर्च्चा न यजुषा पङ्क्तिराप्यते यत्किञ्च यज्ञस्य
पाङ्क्तत्वमि”ति धानाः करम्भः परिवापः पुरोडाशः पयस्याशेन पङ्क्तिरुच्यते
तेन यज्ञस्य पाङ्क्तत्वमिति । एतैरेव तु हविष्पङ्क्त्यक्षरपङ्क्तिनराशंसपङ्क्ति-
सवनपङ्क्तीनां प्रदर्शनेन यज्ञस्य पाङ्क्तत्वमुपवर्णितम् ॥ १२ ॥