सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

24 स्मृतिचन्द्रिकाया

पृथग्वचनं फलभूयस्त्वार्थम् । अत एव शङ्खः-

हस्तिच्छायासु यद्दत्तं यद्दत्तं राहुदर्शने ।

विषुवत्ययने चैव सर्वमानन्त्यमश्नुते ॥

इति । व्यतीपातो योगविशेषः वृद्धमनुनोक्तः-

श्रवणाश्विधनिष्ठाद्र्रानागदैवतमस्तकैः ।

यद्यमा रविवारेण व्यतीपातस्स उच्यते ॥

इति । यद्यमावास्या रविवारेण श्रवणादिना च युक्ता स

व्यतीपात इत्यर्थः । नागदैवतमाश्लेषानक्षत्रम् । मस्तकं मृग-

शिराः । तत्रापि श्राद्धं नित्यम् ।

अमावास्याव्यतीपातपौर्णमास्यष्टकासु च ।

विद्वान् श्राद्धमकुर्वाणः प्रायश्चित्तीयते तु सः ॥

इति पितामहस्मरणात् । गजच्छाया हस्तिच्छाया, तस्यां श्राद्धं

दद्यात् । तथा काठकश्रुतिः-'एतद्वि देवपितृणामयनं यद्ध-

स्तिच्छायायां श्राद्धं दद्यात्' इति । महाभारतेऽपि-

आजेन सर्वलोहेन वर्षासु नियतव्रतः ।

हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ॥

इति । श्राद्धं दद्यादिति शेषः । कर्णव्यजनवीजितमित्यनेनैत-

द्धस्तिच्छायाविषयमित्यवगम्यते । मनुरपि-

अपि नस्स कुले भूयाद्यो नो दद्यात्त्रयोदशीम् ।

पायसं मधुसर्पिभ्यां प्राक्छाये कुञ्जरस्य च ॥

[Header] श्राद्धकाण्डे श्राद्धकालाः 25

इति । प्राची छाया यस्य देशस्य स प्राक्छायः, तस्मि-
न्नित्यर्थः । अथवा पारिभाषिकी गजच्छाया । सा च स्मृ-
त्यन्तरे दर्शिता—
यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः ।
तिथिवैश्रवणी या च गजच्छायेति सा स्मृता ॥
इति । पितृदैवत्ये मघायाम् । हंसः सूर्यः । करो हस्तनक्षत्रम् ।
वैश्रवणी त्रयोदशी । पुराणेऽपि—
हंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी ।
तिथिवैश्रवणी नाम सा छाया कुञ्जरस्य तु ॥
हंसे करस्थिते या तु अमावास्या करान्विता ।
सा छाया कुञ्जरच्छाया इति बोधायनोऽब्रवीत् ॥
वनस्पतिगते सोमे या छाया प्राङ्मुखी भवेत् ।
गजच्छाया तु सा प्रोक्ता तस्यां श्राद्धं प्रकल्पयेत् ॥
इति । अमावास्यायां अपराह्न इत्यर्थः—
सैंहिकेयो यदा सूर्य ग्रसते पर्वसन्धिषु ।
गजच्छाया तु सा प्रोक्ता तस्यां श्राद्धं प्रकल्पयेत् ॥
सैंहिकेयो राहुः । अत्र फलविशेषो वायुपुराणे दर्शितः—
घृतेन भोजयेद्विप्रान् घृतं भूमौ समुत्सृजेत् ॥
छायायां हस्तिनश्चैव दत्त्वा श्राद्धं न शोचति ॥
श्रीविष्णुधर्मोत्तरेऽपि—
गयायां दर्शने राहोः खड्गमांसेन योगिनम् ।
SMRITI CHA.—Vol. V 4

भोजयेच्च कुलेऽस्माकं छायायां कुञ्जरस्य च ॥
आकाल्पिकी तु सा तृप्तिस्तेनास्माकं भविष्यति ।
दाता सर्वेषु लोकेषु कामचारी भविष्यति ॥
यदैतत्पञ्चकं न स्यादेकेनापि वयं सदा ।
तृप्तिं प्राप्स्याम चानन्तां किंपुनस्सर्वसम्पदा ॥
इति । तथा भोक्तुरपि दोषः स्मृत्यन्तरे दर्शितः—
कृष्णाजिनप्रतिग्राही विक्रयी वा भवेत्तु यः ।
गजच्छायाश्रितो भुक्त्वा न भूयः पुरुषो भवेत् ॥
ग्रहणं चन्द्रसूर्ययोरिति—ग्रहणमुपरागः । अत्रापि श्राद्धं नि-
त्यम् । अत एव शातातपः—
सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने ।
अकुर्वाणस्तु तच्छ्राद्धं पङ्के गौरिव सीदति ॥
तथाऽत्र फलविशेषो विष्णुना दर्शितः—
राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् ।
गुणवत्सर्वकामीयं पितॄणामुपतिष्ठति ॥
इति । ऋष्यशृङ्गोऽपि—
राहुग्रस्ते तु वै सूर्ये यस्तु श्राद्धं प्रकल्पयेत् ।
तेन वै सकला पृथ्वी दत्ता विप्रस्य वै करे ॥
इति । अत्र कालनियममाह वृद्धवसिष्ठः—
त्रिदशास्स्पर्शसमये तृप्यन्ति पितरस्तथा ।
मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः ॥

श्राद्धकाण्डे श्राद्धकालाः २७
इति । यत्तु मार्कण्डेयपुराणे—
विशिष्टब्राह्मणप्राप्तौ सूर्येन्दुग्रहणेऽयने ।
विषुवे रविसङ्क्रान्तौ व्यतीपाते च पुत्रके ॥
श्राद्धार्हद्रव्यसंप्राप्तौ तथा दुस्स्वप्नदर्शने ।
जन्मर्क्षग्रहपीडासु श्राद्धं कुर्वीत चेच्छया ॥
इति, इच्छा कामः, तदापि श्राद्धं कुर्वीतेत्येवं परम्, न पुनः
काम्यमेवेति वक्तुम् । अत एव कूर्मपुराणे—
नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नरकी स्यात्ततोऽन्यथा ॥
काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ।
इति । श्राद्धं प्रति रुचिरिति—रुचिरिच्छा श्राद्धं प्रति यदा
तदैव तत्कार्यमित्यर्थः । चकारोऽन्येषामपि श्राद्धकालानां
प्रदर्शनार्थः । अत एव यमः—
आषाढ्यामपि कार्त्तिक्यां माघ्यां त्रीन्पञ्च वा द्विजान् ।
तर्पयेत्पितृपूर्वं तु तस्याप्यक्षयमुच्यते ॥
देवलोपि—
तृतीया रोहिणीयुक्ता वैशाखस्य सिता तु या ।
मघाभिस्संहिता कृष्णा नभस्ये तु त्रयोदशी ॥
तथा शतभिषग्युक्ता कार्तिके नवमी तथा ।
इन्दुक्षयगजच्छायावैधृतीषु युगादिषु ॥
एते कालास्समुद्दिष्टाः पितॄणां प्रीतिवर्धनाः ।

28 स्मृतिचन्द्रिकायां

इति । युगादयस्तु मत्स्यपुराणे दर्शिताः—
वैशाखस्य तृतीया तु नवमी कार्तिकस्य तु ।
माघे पञ्चदशी चैव नभस्ये च त्रयोदशी ॥
युगादयस्स्मृता ह्येता दत्तस्याक्षयकारकाः ॥
इति । विष्णुपुराणेऽपि—
वैशाखमासस्य सिता तृतीया नवम्यसौ कार्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाससहस्रं रहस्यमेतत्पितरो वदन्ति ॥
अत्र शुक्लपक्षे तृतीया, पञ्चदशी कृष्णपक्षे इत्यन्वयः । अत
एव नारदीयपुराणम्—
द्वे शुक्ले द्वे च कृष्णे तु युगाद्याः कवयो विदुः ।
इति । ब्रह्मपुराणे तु माघस्य पौर्णमासी युगादिरित्युक्तं—
वैशाखशुक्लपक्षस्य तृतीयायां कृतं युगम् ।
कार्तिके शुक्लपक्षे च त्रेता च नवमेऽहनि ॥
अथ भाद्रपदे कृष्णे त्रयोदश्यां तु द्वापरम् ।
माघे च पौर्णमास्यां तु घोरं कलियुगं तथा ॥
युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः ।
सूर्यस्य सिंहसंक्रान्त्यामन्तं कृतयुगस्य तु ॥
अथ वृश्चिकसंक्रान्त्यामन्तं त्रेतायुगस्य तु ।
ज्ञेयो वृषभसंक्रान्त्यां द्वापरान्तश्च संख्यया ॥

श्राद्धकाण्डे श्राद्धकालाः २९
तथाच कुम्भसंक्रान्त्यामन्तः कलियुगे स्मृतः ।
युगादिषु युगान्तेषु श्राद्धमक्षयमुच्यते ॥
इति । पुराणेऽपि—
वैशाखस्य तृतीया या नवमी कार्तिकस्य तु ।
पौर्णमासी तु माघस्य नभस्ये च त्रयोदशी ।
युगादयस्मृता ह्येता दत्तस्याक्षयकारकाः ।
तथा मन्वन्तरादौ च देयं श्राद्धं विजानता ।
इति । अत्र कल्पभेदेन व्यवस्थेति केचित् । अत्र पुल-
स्त्योक्तो विशेषः—
अयनद्वितये श्राद्धं विषुवद्वितये तथा ।
युगादिषु च सर्वेषु पिण्डनिर्वपणादृते ॥
मन्वन्तरादयस्तु मत्स्यपुराणे दर्शिताः—
अश्वयुक्शुक्लनवमी कार्तिके द्वादशी सिता ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ।
फाल्गुनस्य त्वमावास्या पुष्यस्यैकादशी सिता ॥
आषाढस्यापि दशमी माघमासस्य सप्तमी ।
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ॥
कार्तिकी फाल्गुनी चैत्रे ज्येष्ठे पञ्चदशी सिता ।
मन्वन्तरादयस्त्वेते दत्तस्याक्षयकारकाः ॥
इति स्मृतिचन्द्रिकायां श्राद्धकालाः.

30 स्मृतिचन्द्रिकायां

अथ अमावास्याद्वैधनिर्णयः.
अत्र गौतमः—
'अथ श्राद्धममावास्यायां पितृभ्यो दद्यात्' इति ।
अमावास्या कृष्णपक्षस्य पञ्चदशी तिथिः । तस्यां श्राद्धं
कार्यमित्यर्थः । तत्र कात्यायनोक्तो विशेषः—
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीयेऽंशे नातिसन्ध्यासमीपतः ॥
इति । पिण्डपितृयज्ञाङ्गभूतानां पिण्डानामनु पश्चादाह्रियते
क्रियत इति पिण्डान्वाहार्यकं श्राद्धममावास्यायां क्षीणे रा-
जनि इन्दौ कर्तव्यमित्यर्थः । सोपीन्दुक्षयः कदा भवती-
त्यपेक्षिते स एवाह—
अष्टमांशे चतुर्दश्याः क्षीणो भवति चन्द्रमाः ।
अमावास्याष्टमांशे च पुनः किल भवेदणुः ॥
इति । एवं च तिथिद्वैधे सिनीवाल्यामेव श्राद्धं कार्यमित्युक्तं
भवति । उक्तं च व्यासेन—
दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्माता ।
सिनीवाली यदा पित्र्ये कुहूदैवे तु कर्मणि ॥
हारीतोपि—
यस्यां सन्ध्यागतस्सोमो मृणालमिव दृश्यते ।
अपराह्णे क्षयस्तस्यां पिण्डानां करणं ध्रुवम् ॥

श्राद्धकाण्डे अमावास्याद्वैधनिर्णयः ३१
इति । यस्यां तिथौ शर्वर्यां पूर्वस्यां दिशि सन्ध्यागतस्सोमः
सूक्ष्म इव दृश्यते तस्यामपराह्ने चन्द्रक्षय इति तत्रैव श्रा-
द्धं कार्यमित्यर्थः । एतच्च कर्मकालव्यापिन्यां सिनीवाल्यां द्र-
ष्टव्यं, अन्यथा दोषश्रवणात्, तथाच बोधायनः—
मध्याह्नात्परतो यत्र चतुर्द्दश्यनुवर्तते ।
सिनीवाली तु सा ज्ञेया पितृकार्ये तु निष्फला ॥
इति । उक्तलक्षणा सिनीवाली पितृकार्ये निष्फलेति ज्ञेये-
त्यर्थः । बृहस्पतिरपि—
मध्याह्नाद्वा त्वमावास्या परस्तात्संप्रवर्तते ।
भूतविद्धा तु सा ज्ञेया न सा पञ्चदशी भवेत् ॥
मध्याह्नात्परस्तात् कर्मकालमतिक्रम्येत्यर्थः । अनेनैवाभिप्रायेण
कार्ष्णाजिनिरपि—
भूतविद्धाममावास्यां मोहादज्ञानतोपि वा ।
श्राद्धकर्माणि ये कुर्युस्तेषामायुः प्रहीयते ॥
इति । अतः कर्मकालव्यापिन्येव सिनीवाली ग्राह्येत्यर्थः ।
अत एव वृद्धमनुः—
यस्यामस्तं रविर्याति पितरस्तामुपासते ।
तिथिं तेभ्यो यतो दत्तो ह्यपराह्नस्स्वयंभुवा ॥
इति । यदा त्वेवंविधा सिनीवाली न लभ्यते तदा कर्म-
कालव्यापिनी कुहूरेव ग्राह्येत्याह हारीतः—

32 स्मृतिचन्द्रिकायां
अपराह्नः पितॄणां तु याऽपराह्नानुयायिनी ।
सा ग्राह्या पितृकार्येषु न पूर्वाऽस्तानुयायिनी ॥
या कुहूरपराह्नानुयायिनी सैव ग्राह्या, न पुनरेवंविधा सिनी-
वालीत्यर्थः । एवञ्च तिथिद्वैधे या कर्मकालव्यापिनी सैव
ग्राह्येत्युक्तं भवति । उक्तं च तेनैव—
भूतविद्धाऽप्यमावास्या प्रतिपन्मिश्रिताऽपि वा ।
पित्र्ये कर्मणि विद्वद्भिः ग्राह्या कुतुपकालिका ॥
भूतविद्धा चतुर्दशीविद्धा । स्मृत्यन्तरेऽपि—
मध्याह्नव्यापिनी या तु तिथिः पूर्वा पराऽपि वा ।
तदहः कर्म कुर्वीत ह्रासवृद्धी न कारणम् ॥
इति । यदा तु तिथिद्वयेऽपि कर्मकालव्यापिनी न भवति तदा
भूतविद्धैव परिग्राह्येत्याह बोधायनः—
घटिकैकाऽप्यमावास्या प्रतिपत्सु न चेत्तथा ।
भूतविद्धाऽपि कर्तव्या दैवे पित्र्ये च कर्मणि ॥
इति । प्रतिपत्सु घटिकैका कर्मकालसंबन्धिनी यदि न स्या-
दित्यर्थः । अत एव जाबालिः—
प्रतिपत्स्वप्यमावास्या पूर्वाह्णव्यापिनी यदि ।
भूतविद्धाऽपि सा कार्या पित्र्ये कर्मणि सर्वदा ॥
इति । एवञ्च यदुक्तं हारीतेन---
पूर्वाह्णे चेदमावास्या अपराह्णे न चेत्तु सा ।
प्रतिपद्यपि कर्तव्यं श्राद्धं श्राद्धविदो विदुः ॥

श्राद्धकाण्डे अमावास्याद्वैधनिर्णयः 33
इति, तत् यत्र पूर्वेद्युश्चन्द्रदर्शनासम्भवेन पिण्डपितृयज्ञोत्कर्षः,
तत्र प्रतिपदि पिण्डपितृयज्ञविधानार्थं, अन्यथा पूर्वोक्तव-
नविरोधात् । यदपि तेनैवोक्तं—
तुलामकरमीनेषु कन्यायां मिथुने तथा ।
भूतविद्धाऽप्यमावास्या पूज्या भवति यत्नतः ॥
इति, एतत् व्रतोपवासादिविषयमिति कैश्चिद्व्याख्यातम् ।
यदा तु तिथद्वयेऽपि कर्मकालव्यापिनी तदा प्रचेतसोक्तं—
सिनीवाली कुहूश्चैव श्रुत्युक्ते श्राद्धकर्मणि ।
स्यातां चेत्ते तु मध्याह्ने श्राद्धं दद्यात्कथं तदा ॥
तिथिक्षये सिनीवाली तिथिवृद्धौ कुहूस्तथा ।
साम्येऽपि च कुहूर्ज्ञेया वेदवेदाङ्गवेदिभिः ॥
साम्ये क्षयवृद्धचभावे । एवमविशेषेण सर्वेषामपि क्षये सिनी-
वाल्यामेव श्राद्धप्राप्तौ विशेषार्थमाह लौगाक्षिः—
सिनीवाली द्विजैः कार्या साग्निकैः पितृकर्मणि ।
स्त्रीभिश्चूद्रैः कुहूः कार्या तथाचानाग्निकैर्द्विजैः ॥
इति । एवञ्च क्षये साग्निकैः सिनीवाल्यां श्राद्धं कार्यम् ।
वृद्धौ तु सर्वैरेव परेद्युः कार्यमित्यनुसन्धेयम् । नन्वेवमपि न
क्षयमात्रे साग्निकैस्सिनीवाली ग्राह्या । यत्र क्षये सिनीवा-
ल्यां पिण्डपितृयज्ञः तत्रैव । अन्यथा—
पितृयज्ञं तु निर्वर्त्य विमश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥
SMRITI CHA.—VOL. V. 5

34 स्मृतिचन्द्रिकायां
इति मनुना साग्निकैः कृते पिण्डपितृयज्ञे श्राद्धविधानाद्य-
टनात् । अतो यत्र क्षये कुह्वां पिण्डपितृयज्ञस्तत्र साग्निकै-
रपि सैव ग्राह्येति । मैवं, दिनद्वयेऽपि मध्याह्नव्यापित्वे क्षये
सिनीवाल्यामेव चन्द्रदर्शनसम्भवेन कदाचिदपि पिण्डपितृ-
यज्ञाप्राप्तेः 'यदहश्चन्द्रमसं न पश्यन्ति तदहः पिण्डपितृयज्ञं
कुर्वीत' इत्यापस्तम्बेन चन्द्रादर्शन एव पिण्डपितृयज्ञविधा-
नात् । चन्द्रादर्शनं च यत्र चतुर्दशी मुहूर्तत्रयादर्वागेव स-
माप्यते तत्रैवेति ज्योतिषशास्त्रे प्रसिद्धम् । अतो यत्र श्राद्ध-
दिने चन्द्रादर्शने च पिण्डपितृयज्ञप्राप्तिः तत्राग्निमान् कृत्वैव
पितृयज्ञं श्राद्धं कुर्यादिति मनुना नियम्यते, न पुनस्सर्वत्र
कृतपिण्डपितृयज्ञस्यैव अग्निमतः श्राद्धाधिकार इति पितृयज्ञ-
शब्दस्य पिण्डपितृयज्ञपरत्वमङ्गीकृत्योक्तम् । परमार्थतस्तु-पितृ-
यज्ञशब्दः तर्पणाख्यपितृयज्ञपर एव। तदुक्तं मत्स्यपुराणे-
पितृयज्ञं तु निर्वर्त्य तर्पणाख्यं तु योऽग्निमान् ।
पिण्डान्वाहार्यकं कुर्याच्छ्राद्धमिन्दुक्षये सदा ॥ इति ॥
इति स्मृतिचन्द्रिकायाममावास्याद्वैधनिर्णयः
अथान्यान्यप्यमावास्याविषयाणि कानिचिद्वचनानि लिख्यन्ते.
तत्र व्यासः-
अमा वै सोमवारेण रविवारेण सप्तमी ।
चतुर्थी भौमवारेण विषुवत्सदृशं फलम् ॥

लभ्यतेऽसौ ॥"

Line 19:
काले धनिष्ठा यदि नाम तस्मिन् भवेत्तु भूपाल तदा
Line 20:
पितृभ्यः ।
Line 21:
दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ॥

Wait, let's check lines 19-21:
Line 19: काले धनिष्ठा यदि नाम तस्मिन् भवेत्तु भूपाल तदा
Line 20: पितृभ्यः ।
Line 21: दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ॥

Wait, look at line 19-20:
काले धनिष्ठा यदि नाम तस्मिन् भवेत्तु भूपाल तदा पितृभ्यः ।
Is "पितृभ्यः ।" on its own line?
Looking at the image:
Line 19 ends with "तदा":
"काले धनिष्ठा यदि नाम तस्मिन् भवेत्तु भूपाल तदा"
Line 20 is just:
"पितृभ्यः ।" indented!
Line 21:
"दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ॥"

36 स्मृतिचन्द्रिकायां
तस्मिन् काले माघासितपञ्चदश्यामित्यर्थः ।
तत्रैव चेद्भाद्रपदास्तु पूर्वाः काले तदा यत्क्रियते पितृभ्यः।
श्राद्धं परां तृप्तिमुपेत्य तेन युगान् सहस्रं पितरस्स्वपन्ति ॥
तत्रैव तस्यामेव पञ्चदश्यामित्यर्थः ॥
इति स्मृतिचन्द्रिकायाममावास्याविषयाणि.
अथ प्रसङ्गात्पर्वापि निर्णीयते.
तत्र गोभिलः—'यः परमो विप्रकर्षस्सूर्याचन्द्रमसोस्सा पौर्ण-
मासी, यः परमसन्निकर्षस्साऽमावास्या' इति । ते च द्विविधे
तथाच पुराणम्—
राका चानुमतिश्चैव पौर्णमासी द्विधा स्मृता ।
सिनीवाली कुहूश्चैव अमावास्या द्विधैव तु ॥
इति । अत्रानुमतिस्सिनीवाली च चतुर्दशीमिश्रा, राका कु-
हूश्च प्रतिपन्मिश्रे । तथाच श्रुतिः—'या पूर्वा पौर्णमासी
साऽनुमतिः, योत्तरा सा राका, या पूर्वाऽमावास्या सा सि-
नीवाली, योत्तरा सा कुहूः' इति । अत्र व्यवस्थया कर्म-
निर्णयमाह गोभिलः—'पक्षान्ता उपवस्तव्याः पक्षादयोऽभि-
यष्टव्याः' इति । पक्षान्ताः पञ्चदश्य उपवस्तव्यास्तास्व-
न्वाधानादि कार्यम् । पक्षादयः प्रतिपदः, ता अभियष्टव्याः ।
तासु हस्तावनेजनाद्यभीज्या कार्येत्यर्थः । अत्र लौगाक्षिणोक्तो
विशेषः—

श्राद्धकाण्डे पर्वनिर्णयः 37
त्रीनंशानौपवस्तस्य यागस्य चतुरो विदुः ।
द्वावंशौबुत्सृजेदन्त्यौ यागे च व्रतकर्मणि ॥
अन्त्यः पादः पञ्चदश्या औपवस्तेऽन्वाधानादौ परिहर्त्तव्यः,
पक्षादेश्चान्त्यः पादः यागे परिहरणीय इत्यर्थः । कथं तर्हि
यागे चतुर इत्यपेक्षिते यज्ञपार्श्वः-
पञ्चदश्याः परः पादः पक्षादेः प्रथमास्त्रयः ।
कालः पार्वणयागे स्यादन्यथा तु न विद्यते ॥
वृद्धशातातपोपि -
पर्वणो यश्चतुर्थोऽश आद्याः प्रतिपदस्त्रयः ।
यागकालस्स विज्ञेयः प्रातरुक्तो मनीषिभिः ॥
इति । अनेन प्रतिपच्चतुर्थांशे न यष्टव्यमित्युक्तं भवति ।
उक्तं च कात्यायनेन-
न यष्टव्यं चतुर्थांशे यागैः प्रतिपदः क्वचित् ।
रक्षांसि तद्विलुम्पन्ति श्रुतिरेषा सनातनी ॥
इति । यत्तु श्रुतौ 'सन्धौ यजेत' इति, तत्र सन्धेरति-
सूक्ष्मत्वात्तत्र यागानुपपत्तेः तत्समीपकाललक्षणायां प्रस्तुता-
यामाविशेषात्सन्धिशब्दसन्निहितपर्वप्रतिपदात्मककालद्वयपर इत्य-
विरोधः । अत एव श्रुत्यन्तरं-'सन्धिमभितो यजेत' इति ।
पर्वप्रतिपदोस्सन्धिमभित उभयतो यजेतेत्यर्थः । अतो यत्र
पर्वचतुर्थांशे यागस्तत्रादिप्रतिपद्येव यागसमाप्तिः, अन्यथा
'सन्धिमभितः' इति श्रुतिविरोधात् । उक्तं च गर्गेण-

38 स्मृतिचन्द्रिकायां
प्रतिपद्यप्रविष्ठायां यदा त्विष्टिस्समाप्यते ।
पुनः प्रणीय कृत्स्नेष्टिः कर्तव्या यागवित्तमैः ॥
इति । प्रतिपद्योगे तु सन्धेः पूर्वमग्न्यन्वाधानादित्यविरोधः ।
सन्धिपरिज्ञाने तु स्मृत्यन्तरे विशेषो दर्शितः—
तिथेः परस्या घटिकास्तु यास्स्युः
न्यूनास्तथा चाभ्यधिकास्तु तासाम् ।
अर्धं वियोज्यं च तथा प्रयोज्यं
ह्रासे च वृद्धौ प्रथमे दिने तत् ॥
इति । परस्यास्तिथेः प्रतिपदो या घटिकाः पूर्वस्यास्तिथेस्स्युः
न्यूना अधिका वा तासामर्धं पूर्वस्मिन् दिने ह्रासे वियोज्यं
वृद्धौ तु संयोज्यमित्यर्थः । अनेन राकाकुह्वोरुत्तरेऽहनि च
यत्पर्वप्रतिपदोः घटिकाबृन्दं तदहर्भरितं तदेकीकृत्य द्वेधा
विभज्य सन्धिपरिज्ञानं कार्यमित्युक्तं भवति । एवञ्च यस्मि-
न्नहनि पर्वसन्धिस्तस्मिन्नुत्तरेद्युर्वा प्रातः पर्वचतुर्थांशादिविहि-
तसन्धिसम्भवः तत्रैव यागो नान्यत्रेत्यनुसन्धेयम् । अत एव
लौगाक्षिः—
पूर्वाह्णे वाऽथ मध्याह्ने यदि पर्व समाप्यते ।
उपोष्य तत्र पूर्वेद्युः तदहर्याग इष्यते ॥
अपराह्णेऽथवा रात्रौ यदि पर्व समाप्यते ।
उपोष्य तस्मिन्नहनि श्वोभूते याग इष्यते ॥ इति ॥
तत्रैव विहितकालसम्भवादिति भावः । गृह्यकारिकाऽपि—

पञ्चदशी प्रतिपच्च समेते एकदिने महती यदि तस्मिन् ।
पञ्चदशी प्रकृतेरुपवासः पञ्चदशीह तनुर्यदि यागः ॥
इति । समेते सम्बद्धे इत्यर्थः । अनेनैवाभिप्रायेणापस्त-
म्बोऽपि—‘यदहः पुरस्ताच्चन्द्रमाः पूर्ण उत्सर्पेत्तां पौर्णमा-
सीमुपवसेत् । श्वः पूरितेति वा । खर्विकां तृतीयां वाजसनेयिन-
स्समामनन्ति । यदहर्न दृश्यते तदहरमावास्या । श्वो नद्रष्टार
इति वा’ इति । तत्र खर्विकासूत्रस्यार्थ उपरिष्टाद्भविष्यति ।
यदहः पुरस्ताच्चन्द्रमाः पूर्ण उत्सर्पेत् यदहर्न दृश्यते इति
च सूत्रद्वयस्यायमर्थः । सर्वथा तावद्राकाकुह्वोरेव चन्द्रमसः
पूर्णत्वमदर्शनत्वं चेति ज्योतिषशास्त्रे प्रसिद्धम् । तत्र यस्मि-
न्नहनि पुरस्तात्पूर्वस्यां दिशि चन्द्रमाः पूर्ण उत्सर्पेत् उदया-
न्न दृश्येत वा तत्र यद्यप्यपराह्ने रात्रौ वा पर्वसन्धिः तदा
पौर्णमासीममावास्यां वोपवसेदिति । यदा तु पूर्वाह्ने वा मध्य-
न्दिने वा पर्वसन्धिस्तदा यस्याह्नश्चन्द्रमाः पूरिता पूर्णो भविता
यस्यां वा नद्रष्टारो नेक्षितारो भवेयुः तामनुमतिं सिनीवालीं
वोपवसेदिति श्वःपूरिता श्वो नद्रष्टार इति वेति सूत्रद्वयस्याय-
मर्थः । उक्तं च भाष्यार्थसङ्ग्रहकारेण—
अपराह्नेऽथवा रात्रौ यदि पर्व समाप्यते ।
उपोष्या तत्र राका स्यात् सा पूर्णोत्सर्पिलक्षणा ॥
पूर्वाह्ने वाऽथ मध्याह्ने यदि पर्व समाप्यते ।
उपोष्याऽनुमतिस्तत्र सा श्वःपूरितलक्षणा ॥

अपराह्ने क्षपायां वा पर्वसन्धिर्भवेद्यदि ।
उपोष्या तु कुहूस्तत्र यदहर्नैतिलक्षणा ॥
पूर्वाह्ने वाऽथ मध्याह्ने पर्वसन्धिर्यदा भवेत् ।
तत्रोपोष्या सिनीवाली श्वो नद्रष्टारलक्षणा ॥
इति । तत्र पूर्वाह्नापराह्नशब्दाभ्यां द्वेधा विभक्तस्याह्नः पूर्वा-
परभागौ प्रतिपाद्येते । मध्याह्नशब्देन तु तयोसन्धिरित्यनुस-
न्धेयम् । नन्वत्र—पूर्वाह्नादिशब्दानां त्रेधा विभक्तस्याह्नः क्र-
मेण भागत्रयपरत्वमस्तु । मैवं, तस्मिन् पक्षे मध्याह्नस्याव-
र्तनादुपरिघटिकापञ्चकपर्यन्तत्वात्तत्र सन्धौ तदहरेव यागः
प्रसज्येत । न च प्रसज्यतामिति वाच्यं, तत्र प्रातः पर्वचतु-
र्थांशादिविहितकालासम्भवेन 'पर्वणो यश्चतुर्थोऽशः' इत्यादि-
वचनविरोधात् । ननु—द्वेधा विभागेन यत्रावर्तनादुपरि घटि-
कामात्रे पर्वसन्धिः तत्रोत्तरेद्युरेव याग इति तत्रापि
कालासम्भवाद्वचनविरोधस्तुल्य एव । मैवम्, 'पर्वणो य
श्चतुर्थोऽशः' इत्यादिकालस्य यागान्वयावगतेः भवितव्यं
तावद्यागस्य कालान्वयेनेत्युपगन्तव्यम् । एवञ्च तत्रोत्तरेद्यु-
र्यागे क्रियमाणे न यागस्य कालान्वय इति पूर्वेद्युरेव याग
इत्यविरोधः । एवं सर्वत्र द्रष्टव्यम् । नन्वेवं तर्ह्यपराह्नसं-
धावुत्तरेद्युर्यागविधानं विरुध्येत । मैवं, यत्रापराह्ने पर्वस-
न्धावुत्तरेद्युः प्रतिपच्चतुर्थांशे यागो न भवति, तथाविधापरा-
ह्नस्यैवात्र ग्रहणमित्यविरोधः । युक्तं चैतत्, अन्यथा हेम-

[Header] श्राद्धकाण्डे पर्वनिर्णयः 41

न्तकालेऽतिस्वल्पत्वादह्नां तत्र किञ्चिदूनचतुर्दशघटिकामात्र
आवर्तनं भवति । तथा तत्रैव तिथिवृद्धौ कदाचित् षोडश-
नाडिकोपि चतुर्थांशो भवति । तत्रावर्तनादुपरि घटिकामात्र
पर्वसन्धायुत्तरेद्युरेव यागः प्रसज्येत, न चैतद्युक्तं, तत्र वि-
हितकालासम्भवान्न यष्टव्यमिति निषेधात् पूर्वेद्युः कालस-
म्भवाच्च । अत्रोक्तापराह्नशब्दस्य सङ्कोच एव स्यात् ज्या-
यान्। किञ्च—ग्रीष्मकालेऽह्नामतिदीर्घत्वात्तत्र पादाधिकषोडशघ-
टिकात्मके काले आवर्तनं भवति । तथा तत्रैव तिथिह्रासे
कदाचित्सार्धत्रयोदशनाडिकोपि पर्वचतुर्थांशो भवति । तत्र
यदा पादोनावर्तनेन पर्वसन्धिः तदा पूर्वाह्न एव पर्वसन्धि-
रिति तदहरेव यागस्स्यात् । न चैतद्युक्तम्, तत्र प्रातः प-
र्वचतुर्थांशादिविहितकालासम्भवात् । अस्मिन् पक्षे तूत्तरेद्युरेव
यागः, तत्रैव विहितकालसम्भवात् । अतएवोक्तमापस्तम्बेना-
पि ‘खर्विकां तृतीयां वाजसनेयिनस्समामनन्ति’ इति । ख-
र्विकामल्पिकामिति यावत् । अल्पत्वं च दिनार्धत्वाभावात् ।
उक्तं च भाष्यार्थसङ्ग्रहकारेण—
मध्यन्दिनात्स्यादहनीह यस्मिन् प्राक्पर्वणस्सन्धिरियं तृतीया ।
सा खर्विका वाजसनेयिमत्या तस्यामुपोप्याथ परेद्युरिष्टिः॥
इति । अमावास्यायां तु सुतरामत्रोत्तरेद्युरेव यागः, उदया-
त्प्रागेव तस्यास्तत्र प्रारम्भात् । नन्वेवं तर्हि पूर्वाह्नसन्धौ तद-
हरेव यागविधानं विरुध्येत । मैवम्, तस्यैतद्व्यतिरिक्तविष-

[Footer] SMRITI CHA.—Vol. V. 6

42 स्मृतिचन्द्रिकायां
यान्तरसम्भवेनाविरोधात् । ननु तर्हि 'पूर्वाह्णे वाऽथ मध्याह्ने'
इति लौगाक्षिवचनबलादेव विहितकालाभावेऽपि तत्रैव या-
गोऽस्तु । मैवम्,
पञ्चदश्याः परः पादः पक्षादेः प्रथमात्रयः ।
कालः पार्वणयागे स्यादन्यथा तु न विद्यते ॥
इति वचनार्थशोधितकालव्यतिरेकेण कालान्तराभावस्मर-
णात् । किञ्च—एवंसति 'पर्वणो यश्चतुर्थांशः' इत्यादिका-
लविधायकशास्त्राणां विषयासम्भवेन वैयर्थ्यमेव स्यात् । अतो
यत्कैश्चिदुक्तम्—'अपराह्नसन्धावुत्तरेद्युः प्रतिपच्चतुर्थांशेऽपि या-
गो न दोषाय' इति, तदपास्तम् । एवञ्च यदुक्तं कात्या-
यनेन—
यजनीयेऽह्नि सोमश्चेत् वारुण्यां दिशि दृश्यते ।
तत्र व्याहृतिभिर्हुत्वा दण्डं दद्याद्द्विजातये ॥
इति, यदापि स्मृत्यन्तरं—
त्रिमुहूर्ता द्वितीया चेत्प्रतिपद्यापराह्निकी ।
अन्वाधानं चतुर्दश्यां परतस्सोमदर्शनात् ॥
इति, तत् पूर्वाह्णपर्वसन्धिविषयमित्यवगन्तव्यम् । यदपि वच-
नान्तरं—
षोडशेऽहन्यभीष्टेष्टिर्मध्या पञ्चदशेऽहनि ।
चतुर्दशे जघन्येष्टिः पापा सप्तदशेऽहनि ॥

श्राद्धकाण्डे पर्वनिर्णयः ४३

इति, तेन सप्तदशेऽहनीष्टिं न कुर्यान्नान्वादधीतेति तत्रान्वा-
धानमेव निषिध्यते न यागः । तथात्वे तिथिवृद्धौ विशिष्टै-
रनुष्ठानमेव स्यात् । अतो यजनीयदिनादारभ्य सप्तदशेऽह-
न्यौपवसथकर्म न कार्यमित्यवगन्तव्यम् । अत एव बोधायनः—
यत्रौपवसथं कर्म यजनीयात्त्रयोदशम् ।
भवेत्सप्तदशं वाऽपि तत्प्रयत्नेन वर्जयेत् ॥
इति । ननु दिनद्वयस्य क्षयवृद्धयोस्सम्भवात्त्रयोदशेऽहनि स-
प्तदशेऽहनि वा कदाचिदौपवसथ्यं कर्म न प्राप्तमिति कथं नि-
षेधः ? उच्यते—यद्यप्राप्तिः तर्हि 'नान्तरिक्षे न दिवि' इति-
वन्नित्यानुवाद इति सर्वमनवद्यम् । पौर्णमास्यां त्वापस्तम्बो-
क्तो विशेषः—'पौर्णमास्यामन्वाधानपरिस्तरणोपवासास्सद्यो
वा सद्यस्कालायां सर्वं क्रियते' इति । अस्यार्थः—सद्यस्का-
लायां पौर्णमास्यामग्न्यन्वाधानादीनि सद्यः समानेऽहनि क्रि-
यन्ते पूर्वेद्युर्वा तत्र सर्वं ब्राह्मणतर्पणान्तं क्रियते । नेडा-
न्तादिकमित्युक्तं भाष्यार्थसङ्ग्रहकारेण—
अन्वाहितिश्चास्तरणोपवासाः पूर्वेद्युरेते खलु पौर्णमास्याम् ।
आवर्तनात् प्राग्यदि पर्वसन्धिः सद्यस्तदा वा क्रि-
यते समस्तम् ॥
इति । आवर्तनात्प्राक् सङ्गवादूर्ध्वमिति शेषः ।
सन्धिश्चेत्सङ्गवादूर्ध्वं प्राक्पर्यावर्तनाद्रवेः ।
सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथिः ॥