स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 57, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे पर्वनिर्णयः 37
त्रीनंशानौपवस्तस्य यागस्य चतुरो विदुः ।
द्वावंशौबुत्सृजेदन्त्यौ यागे च व्रतकर्मणि ॥
अन्त्यः पादः पञ्चदश्या औपवस्तेऽन्वाधानादौ परिहर्त्तव्यः,
पक्षादेश्चान्त्यः पादः यागे परिहरणीय इत्यर्थः । कथं तर्हि
यागे चतुर इत्यपेक्षिते यज्ञपार्श्वः-
पञ्चदश्याः परः पादः पक्षादेः प्रथमास्त्रयः ।
कालः पार्वणयागे स्यादन्यथा तु न विद्यते ॥
वृद्धशातातपोपि -
पर्वणो यश्चतुर्थोऽश आद्याः प्रतिपदस्त्रयः ।
यागकालस्स विज्ञेयः प्रातरुक्तो मनीषिभिः ॥
इति । अनेन प्रतिपच्चतुर्थांशे न यष्टव्यमित्युक्तं भवति ।
उक्तं च कात्यायनेन-
न यष्टव्यं चतुर्थांशे यागैः प्रतिपदः क्वचित् ।
रक्षांसि तद्विलुम्पन्ति श्रुतिरेषा सनातनी ॥
इति । यत्तु श्रुतौ 'सन्धौ यजेत' इति, तत्र सन्धेरति-
सूक्ष्मत्वात्तत्र यागानुपपत्तेः तत्समीपकाललक्षणायां प्रस्तुता-
यामाविशेषात्सन्धिशब्दसन्निहितपर्वप्रतिपदात्मककालद्वयपर इत्य-
विरोधः । अत एव श्रुत्यन्तरं-'सन्धिमभितो यजेत' इति ।
पर्वप्रतिपदोस्सन्धिमभित उभयतो यजेतेत्यर्थः । अतो यत्र
पर्वचतुर्थांशे यागस्तत्रादिप्रतिपद्येव यागसमाप्तिः, अन्यथा
'सन्धिमभितः' इति श्रुतिविरोधात् । उक्तं च गर्गेण-