स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
306 | स्मृतिचन्द्रिकायां
‘दक्षिणाग्रेषु दर्भेषु चमसेषु दक्षिणापवर्गेषु त्रिषु पवित्रान्तर्हितेषु
अप आसिञ्चेत् । शं नो देवीरभिष्टये’ इति । दक्षिणाग्रेषु
दर्भेषु दक्षिणापवर्गंतयाऽऽसादितेषु चमसाद्यर्घ्यपात्रेषु त्रिषु
पवित्रान्तर्हितेषु शं नो देवीरिति मन्त्रेण प्रतिपात्रमपो निनये
दित्यर्थः । प्रचेता अपि—‘यज्ञियवृक्षचमसेषु पवित्रान्तर्हिते-
ष्वेकैकस्मिन् अप आसिञ्चेत्’ इति । शौनकोपि—“तैजसाश्म-
मयन्मृण्मयेषु पात्रेष्वेकद्रव्येष्वनेकद्रव्येषु वा दर्भान्तर्हितेष्वपः
प्रदाय शं नो देवीरभिष्टये इत्यनुमन्त्रितान् तिलानावपति—
तिलोसि पितृदेवत्यो गोसवो देवनिर्मितः ।
प्रत्नवद्भिः पृक्तस्स्वधया पितॄनिमान् लोकान् प्री-
णयाहि नः स्वधा नमः” ॥
इति । तैजसं कांस्यादिमयम् । अश्ममयं मरकतादिमणिमयम् ।
एकद्रव्येषु कांस्यरजतताम्रादीनामन्यतमेषु । अनेकद्रव्येषु कां-
स्यादिनानाद्रव्यमयेषु वा । दर्भान्तर्हितेषु पवित्रान्तर्हितेषु ।
शं नो देवीरिति मन्त्रेणापो निनीयानुमन्त्रितासु पूर्वोक्तमन्त्रेण
नीतास्वप्सु तिलोसीति मन्त्रेण तिलान् प्रक्षिपेदित्यर्थः । पात्रे-
ष्विति बहुवचनं त्रिष्वेवावतिष्ठते, प्रकृतिभूते त्रिदेवताके
श्राद्धे प्रतिदैवतमेकैकपात्रविधिपरत्वात् । अत एव प्रचेतसा—
‘त्रीण्येवोदपात्राणि’ इत्युक्तम् । पित्रादीनां त्रयाणामेकैकस्या-
नेकब्राह्मणनियोजने सर्वेषामेकब्राह्मणनियोजनेऽपि श्राद्धस्य
त्रिदेवताकत्वात्त्रीण्येवोदपात्राणि न तु ब्राह्मणसंख्यया सङ्ख्या-
तानीत्यर्थः । अत एव तिलैस्तथेत्यधिकृत्य बैजावापेनोक्तं—
नीत्वा पितॄणां त्रीण्येव कुर्यात् पात्राणि धर्मवित् ।
एकस्मिन्वा बहुषु वा ब्राह्मणेषु यथाविधि ॥
इति । तिलैर्नीत्वा तिलानर्घ्योदकेषु प्रक्षिपेदित्यर्थः । अर्घ्यो-
दकसंस्कारार्थं पवित्रकरणप्रकारमाह स एव—
कुशौ समावशीर्णाग्रावनन्तर्गर्भकौ कुशैः ।
छिनत्ति तत्पवित्रं स्याच्छ्राद्धे कर्मणि सर्वदा ॥
इति । कुशाविति युग्मसङ्ख्या वैश्वदेविकार्घ्यपात्रपवित्रविषया ।
पैतृकार्घ्यपात्रपवित्रविषये अनुचितत्वात् । अत एव चतुर्विंश-
तिमते पैतृकार्घ्यपवित्रे अयुग्मसङ्ख्या दर्शिता—
तिस्रस्तिस्रःशलाकास्तु पितृपात्रेषु पार्वणे ।
इति । शलाकाः शलाकासन्निभा दर्भाः, अच्छिन्नाग्रा इति
यावत् । अर्घ्यपात्रेषु तिलप्रक्षेपानन्तरं ब्रह्मपुराणे कर्तव्यमुक्तं—
अर्ध्याः पुष्पैश्च गन्धैश्च ताः प्रपूज्याश्च शास्त्रवत् ।
इति । अर्घ्या अर्ध्यार्था या आपः तिलमिश्रास्ताः गन्धैः
पुष्पैश्च प्रपूज्याः । तासु गन्धपुष्पाणि प्रक्षिपेदित्यर्थः । ग-
न्धादिप्रक्षेपानन्तरं शौनकः—‘ताः प्रतिग्राहयिष्यंश्च स्वधा-
र्ध्याः' इति । ताः अर्ध्यार्था अपः ब्राह्मणैः प्रतिग्राहयि-
ष्यन् स्वधार्ध्या इति मन्त्रेण ब्राह्मणानां पुरस्स्थापयेदित्यर्थः ।
स्थापनानन्तरं पैठीनसिः—‘ततो ब्राह्मणहस्तेषूदकपूर्वं दर्भान्
प्रदायोदकपूर्वमर्घ्योदकं ददाति या दिव्या आपः इत्यृचैतत्ते
अर्घ्योदकमित्यप उपस्पृशेदित्येवमेवेतरयोः' इति । अर्घ्यस्था-
पनानन्तरं ब्राह्मणहस्तेषु प्रथममपो निनीयार्घ्यपवित्रदर्भान्
दक्षिणाग्रतया क्षिप्त्वा पुनरपो निनीय 'या दिव्या आपः' इति
मन्त्रमुक्त्वा मन्त्रान्ते अस्मत्पितरमुकगोत्र अमुकशर्मन् वसुरूप
सपत्नीकैतत्ते अर्घ्योदकमिति दक्षिणहस्ते पितृतीर्थेनार्घ्यं दत्वाऽप
उपस्पृशेत् । एवमेवेतरयोः पितामहप्रपितामहयोरपि ब्राह्मण-
हस्ते अर्घ्यं दद्यादित्यर्थः । अस्मत्पितामह अमुकगोत्र अमुक-
शर्मन् रुद्ररूप सपत्नीक, अस्मत्प्रपितामहादित्यरूपेति तु वि-
शेषः । कात्यायनेन 'या दिव्या आपः' इति मन्त्रं कृत्स्नं
पठित्वाऽर्घ्यसमर्पणमुक्तम्—"सपवित्रेषु हस्तेषु—'या दिव्या
आपः पयसा संबभूवुः या अन्तरिक्ष उत पार्थिवीर्याः ।
हिरण्यवर्णा यज्ञियास्ता न आपश्शंश्योना सुहवा भवन्तु'
इति । पितस्ते अर्घ्यं पितामहैतत्ते अर्घ्यं प्रपितामहैतत्ते अर्घ्य-
मिति ब्राह्मणाञ्जलिषु पात्राणि निनीय पितृभ्योऽक्षय्यमस्त्विति
शेषं दर्भेष्ववनेजयति इति" पात्राणि पात्रस्थोदकानीत्यर्थः । धर्मेण
गोत्रग्रहणं च कार्यमित्युक्तम्—" 'या दिव्या आपः' इति पात्रं
पाणिभ्यामुद्धृत्य नाम गोत्रं च गृहीत्वा सपवित्रे हस्तेऽर्घ्यं
दद्यात्" इति । पाणिभ्यामुद्धृतेन पात्रेण दद्यादिति गम्यते ।
प्रचेता अपि—
अप्रदक्षिणमेतेषामेकैकं तु पितृक्रमात् ।
सम्बोध्य गोत्रनामभ्यामेष तेऽर्घ्यमितीरयेत् ॥
एतेषां पितृपितामहप्रपितामहानां पितृक्रमात् पित्रादिक्रमादे-
कैकं गोत्रनामभ्यां सम्बोध्य एष तेऽर्घ्यमित्युक्त्वा एकैकं
ब्राह्मणमेकैकेनार्घ्येणार्चयेदित्यर्थः । तथा चाह गौतमः—
पूर्ववत्पृथगेकैकमेकैकेनार्चयेत्क्रमात् ।
इति । एतत् ‘त्रीन् पित्र्ये’ इत्युक्तब्राह्मणसङ्ख्यापक्षाभिप्राये-
णोक्तम् । ‘त्रीन् त्रीन्’ इत्युक्तब्राह्मणसङ्ख्यपक्षे तु त्रीन् ब्राह्म-
णानैकेकेनार्घ्येणार्चयेत् । अत एव पैठीनासिना हस्तेष्वित्या-
द्युक्तम् । न च वाच्यं ‘त्रीन् पित्र्ये’ इति पक्ष एव हस्ते-
ष्वित्युपपद्यते, त्रिषु पितृवर्गब्राह्मणेषु दक्षिणहस्तत्रयसम्भवा-
दिति । यतस्तेन पितृस्थानस्थब्राह्मणार्चन एव हस्तेष्वित्युक्त्वा-
एवमितरयोरित्यभिधानात् । तस्मात्रीन् त्रीन् पित्र्ये इति पक्षे
पितृस्थानस्थब्राह्मणदक्षिणहस्तेष्वपामासेचनाद्यर्घ्यनिनयनान्तं स-
कृत्कुर्यात् । तथा पितामहस्थानस्थब्राह्मणहस्तेषु चैवं निन-
येत्, एवमितरयोरित्यभिधानात् । एवं मातामहादीनामर्घ्यपात्रा-
सादानादि ब्राह्मणहस्तेष्वर्घ्यदानान्तं यथोक्तं नामगोत्रसहितं
पदार्थानुसमयेन कुर्यात्, ‘मातामहानामप्येवम्’ इत्यातिदेश-
स्मरणात् । पित्रादिब्राह्मणहस्तेष्वर्घ्यदानान्तरं याज्ञवल्क्यः—
दत्त्वाऽर्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यस्स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥
तेषां प्रतिविप्रं दत्तानां अर्ध्याणां संस्रवान् विप्रहस्तेभ्यः
अन्येषु पात्रेषु गलितान् पितृपात्रे सम्भृत्य तत्पात्रं ‘पितृभ्यः
स्थानमसि' इति मन्त्रेण न्युब्जमधोबिलं अधःकरोति भूम्यां
निदध्यात् न पात्रादेरुपरीत्यर्थः । तथाच प्रचेताः—
प्रथमे पितृपात्रे तु सर्वान् सम्भृत्य संस्रवान् ।
पितृभ्यस्स्थानमसीत्युक्त्वा कुर्याद्भूमावधोमुखम् ॥
अत्र गोभिलेनोक्तो विशेषः ‘न्युब्जं कुर्यात्पवित्रवत्’ इति । ब्रा-
ह्मणहस्तेषु निक्षिप्तानि पवित्राण्यादाय पितृपात्रे निधाय तैस्सह
भूमौ न्युब्जं कुर्यादित्यर्थः । कात्यायनेनात्र विशेष उक्तः—
‘कुशवत्यां भूमौ अधोमुखं कुर्यात्तस्योपरि च कुशम्’ इति ।
निदध्यादिति शेषः । मत्स्येनापि—‘दत्वा संस्रवमादितः ।
पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत्’ इति । आदितः
प्रथममर्घ्यं दत्वा पितृपात्रे संस्रवं विधाय तत्पात्रं ब्राह्मणा-
ध्यासितदेशादुत्तरतः किञ्चिद्दूरे अधोमुखं निदध्यादित्यर्थः ।
अत्रिणाऽपि पितृपात्रं प्रकृत्य विशेष उक्तः—'गन्धादिभि-
स्तदभ्यर्च्य' इति । आदिशब्देन पुष्पाणि गृह्यन्ते । ‘गन्ध-
माल्यैस्तदभ्यर्च्य’ इति शौनकस्मरणात्। एवं न्युब्जकरणमनित्यं,
अपसव्यं ततः कृत्वा पिण्डपार्श्वे समाहितः ।
क्षिप्त्वा दर्भपवित्राणि ¹ मोचयेत्संस्रवांस्ततः ॥
इत्यत्रिवचने स्वधावाचनकालपर्यन्तं संस्रवोदकधारणदर्श-
नात् । धारणं च पितृपात्रस्योत्तानतया स्थपने सति भवति न
तु न्युब्जतया स्थापने । तस्मादुत्तानतया स्थापनपक्षोपि गम्यते ।
¹ क्षिप्त्वाऽथ दर्भपत्राणि. इति पाठान्तरम्.
अस्मिन् पक्षे पितृपात्रस्य पितामहादिपात्रेणापिधानं कार्यम् ।
तथाच कात्यायनः—
पैतृकं प्रथमं पात्रं तस्मिन् पैतामहं न्यसेत् ।
प्रपितामहं ततो न्यस्य नोद्धरेन्न च चालयेत् ॥
पितृपात्रं पितामहपात्रेऽपिधाय प्रपितामहपात्रेण पिदध्यादित्यर्थः।
( प्रपितामहपात्राभावेऽन्येन केनचित्पात्रेण पिदध्यादित्यर्थः । )
अधोमुखतया उत्तानतया वा न्यस्तस्य पात्रस्यान्यथाकरणे
कात्यायनेन दोषो दर्शितः—
स्पृष्टमुद्धृतमन्यत्र नीतमुद्घाटितं तथा ।
पात्रं दृष्ट्वा व्रजन्त्याशु पितरः प्रशपन्ति च ॥
उद्घाटितं पिधायकपितामहादिपात्रापसारणेन विवृतमित्यर्थः ।
अत एवोशना—
उत्तानं विवृतं वाऽपि पितृपात्रं यदा भवेत् ।
अभोज्यं तद्भवेदन्नं क्रुद्धैः पितृगणैर्गतैः ॥
इति । न्युब्जं कृतं पितृपात्रं यदोत्तानं भवेत् । उत्तानतया
स्थापितं पात्रान्तरेण पिहितं पितृपात्रं यदा वा विवृतं भवे-
दिति पूर्वार्धस्यार्थः । न्युब्जं पात्रं कृत्वाऽऽह बैजवापः—
तस्योपरि कुशान् दत्त्वा प्रदद्याद्देवपूर्वकम् ।
गन्धपुष्पाणि धूपं च दीपं वस्त्रोपवीतके ॥
तस्योपरि कुशान् दत्त्वा तस्य न्युब्जकृतपितृपात्रस्योपरि कुश-
गन्धपुष्पाणि दत्त्वा वैश्वदैविकब्राह्मणपूर्वकं गन्धादि दद्या-
दित्यर्थः । अनेन गन्धदानं वैश्वदैविकब्राह्मणेषु कृत्वा पैतृक-
ब्राह्मणेषु कार्यमित्युच्यते । एवमेव पुष्पदानाद्यपि । ततश्च
वैश्वदैविकब्राह्मणार्चनं च पदार्थानुसमयेन सहैव कार्यमिति
वचोभङ्ग्याऽभिहितम् । एवञ्च वैश्वदैवे याज्ञवल्क्येन काण्डा-
नुरूपसमयक्रम उक्तः, तेन सह अनेनोक्तपदार्थानुसमयरूप-
क्रमस्य विकल्पो वेदितव्यः । न चायं विकल्पो गन्धदान-
प्रभृत्येव न पुनः प्रागपीति वाच्यं, अर्धवैशसापत्तेः, 'देवांश्च
पितूंश्चावाहयिष्ये इत्यनुज्ञाप्य' इत्यादिना गन्धादिदानात्प्रा-
गेव सहानुष्ठानस्य पैठीनसिना स्मृतत्वाच्च । विष्णुनाऽपि
गन्धादिदानमुक्तं- 'अनुलेपनवस्त्रालङ्करणपुष्पधूपैर्यथाशक्ति वि-
प्रान् समभ्यर्च्य' इति । अनुलेपनादीनि पित्रादिदेवतोद्देशेन
विप्रेभ्यो दद्यादित्यर्थः ।
श्राद्धकाण्डे अर्ध्याद्युपचारविधिः 313
अयं वो धूप इत्युक्त्वा धूपं सौम्यं निवेदयेत् ॥
इदं वो माल्यमित्युक्त्वा दद्यान्माल्यं सुशोभनम् ।
इति । एवमनया रीत्या इदं वो ज्योतिरित्युक्त्वा दीपं निवे-
दयेत् । इदं व आच्छादनमित्युक्त्वा वस्त्रं निवेदयेदित्यादि स्वयं
मेवोह्यम् । अत एवोहप्रकारप्रदर्शनार्थं देवलेनोक्तं—
इदं ज्योतिरिति ज्योतिः सुज्योतिरिति तेऽपि च ।
इति । इदं वो ज्योतिरिति ज्योतिर्निवेदयेत् । सुज्योतिरिति
ते विप्रा ब्रूयुरित्यर्थः । 'सुज्योतिरिति तेऽपि च' इति चश-
ब्दात् स्वासनमस्तु स्वर्घ्यं सुगन्धाः सुपुष्पाणि सुधूपः सु-
दीपः स्वाच्छादनमित्यासनादिषु यथालिङ्गं प्रतिवचनानि विप्रा
ब्रूयुरिति सूचितमिति मन्तव्यम् । अत एव गृह्यसङ्ग्रहकारे-
णैतानि प्रतिवचनान्युक्तानि । कीदृशा गन्धा देया इत्यपे-
क्षिते ब्रह्मपुराणं—
श्वेतचन्दनकर्पूरकुङ्कुमानि शुभानि तु ।
विलेपनार्थं दद्यात्तु यच्चान्यत्पितृवल्लभम् ॥
इति । लेपनं च विप्राः स्वयं कुर्युः श्राद्धकर्ता वा । तत्र
श्राद्धकर्त्रा विलेपनपक्षे विशेषमाह व्यासः—
विपवित्रकरो गन्धैर्गन्धद्वारेति पूजयेत् ।
इति । गन्धद्वारेति मन्त्रेण तदन्ते नामगोत्रग्रहणपूर्वकं अ-
मी वो गन्धा इत्युक्त्वा ब्राह्मणहस्ते गन्धान् प्रदाय तैर्गन्धैः
पूजयेत् । विपवित्रकरो विप्रललाटे गन्धं विलेपयेदित्यर्थः ।
SMRITI CHA.—VOL. V. 40
314 स्मृतिचन्द्रिकायां
स्वयं विलेपनपक्षेऽपि गन्धद्वारेति मन्त्रोस्ति, गन्धदाने कर-
णमन्त्रत्वात् । विपवित्रकरत्वलक्षणधर्म एव न विद्यते । अत एव
श्राद्धकर्त्रा विलेपनपक्ष एव सपवित्रकरेण विलेपने कृते
वृद्धशातातपेन दोषो दर्शितः—
पवित्रं तु करे कृत्वा यस्समाpageलभते द्विजान् ।
राक्षसानां भवेच्छ्राद्धं निराशाः पितरो गताः ॥
समालम्भनं गन्धैर्विलेपनम् । पक्षद्वयसाधारणदोषो देवलेन
दर्शितः—
यज्ञोपवीतं विप्राणां स्कन्धान्नैवावतारयेत् ।
गन्धादिपूजासिद्धयर्थं दैवे पित्र्ये च कर्मणि ॥
विप्राणां यज्ञोपवीतं गन्धाद्यनुलेपनसिद्धयर्थमनुलेपको नाव-
तारयेदित्यर्थः । स्कन्धादवतार्यानुलेपने कृते शङ्खेन दोष
उक्तः—
उपवीतं कटौ कृत्वा कुर्याद्गात्रानुलेपनम् ।
एकवासाश्च योऽश्नीयात् निराशाः पितरो गताः ॥
क्रतुना तु ललाटे वर्तुलतया पुण्ड्रे कृते दोष उक्तः—
ललाटे पुण्ड्रकं दृष्ट्वा स्कन्धे मालां तथैव च ।
निराशाः पितरो यान्ति दृष्ट्वा तु वृषलीपतिम् ॥
इति दोषस्मृतिबलेन कल्प्यस्य निषेधस्य कॢप्तोर्ध्वपुण्ड्रविध्य-
बाधेन कल्प्यत्वाद्वर्तुलपुण्ड्रविषयमेतत् । स्कन्धे मालाधारणे दोष-
श्राद्धकाण्डे अर्घ्याद्युपचारविधिः. 315
स्मरणात् शिरस्येव विप्रेण माला धार्या । तत्रापि शिखा-
यामेव—
न नियुक्तश्शिखावर्जं मालां शिरसि वेष्टयेत् ।
इति वृद्धमनुस्मरणात् । नियुक्तः श्राद्धे निमन्त्रितो विप्रः ।
माल्यं च विहितपुष्पमयं देयम् । कानि पुनर्विहितानि पुष्पा-
णीत्यपेक्षिते ब्रह्मपुराणे—
शुक्लास्सुमनसश्श्रेष्ठाः तथा पद्मोत्पलानि च ।
गन्धधूपोपपन्नानि यानि चान्यानि कृत्स्नशः ॥
इति । विष्णुस्तु पुष्पदाने मन्त्रमाह 'पुष्पावतीरिति पुष्पम्'
इति । दद्यादिति पूर्ववाक्यश्रुतमिहानुषज्यते ।
ओषधयः प्रतिमोदध्वं पुष्पावतीस्सुपिप्पलाः ।
अयं वो गर्भऋत्वियः प्रत्नं सधस्थमासदत् ॥
इति मन्त्रस्य मध्यमप्रतीकोपादानमेतत् पुष्पावतीरिति । म-
न्त्रान्ते नामगोत्रग्रहणपूर्वकामिदं वः पुष्पमिति पुष्पं देयम् ।
धूपद्रव्ये विशेषश्शङ्खेनोक्तः—
धूपार्थे गुग्गुलं दद्यात् घृतयुक्तं मधूत्कटम् ।
इति । व्यासस्तु धूपदाने मन्त्रमाह—'धूपं च धूरसीत्युक्त्वा'
इति । 'धूरसि धूर्व धूर्वन्तम्' इति यजुर्वेदमन्त्रमुक्त्वा धूपं दद्या-
दित्यर्थः । पुराणे तु मन्त्रान्तरमुक्तं—
वनस्पतिरसो दिव्यो गन्धाढ्यस्सुमनोहरः ।
आघ्रेयस्सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
इति। धूरसीत्यनेन सहास्य विकल्पो वेदितव्यः। अत्रापि मन्त्रान्ते
नामगोत्रग्रहणपूर्वकमयं वो धूप इति धूपो देयः। हस्तवात-
प्रापितो धूपो न विप्रेण सेव्यः तस्य निषेधात्। शातातपः-
हस्तवाताहतं धूपं ये पिबन्ति द्विजोत्तमाः।
वृथा भवति तच्छ्राद्धं तस्मात्तं परिवर्जयेत् ॥
दीपे तु विशेषमाह मरीचिः-
घृताद्वा तिलतैलाद्वा नान्यद्रव्यात्तु दीपकम्।
इति। आच्छादने मन्त्रमाच्छादनाभावे तत्प्रतिनिधिं चाह
शातातपः- 'युवा सुवासा इति वस्त्रं दद्यात्तदभावे यज्ञो-
पवीतम्' इति। अत्रापि मन्त्रान्ते नामगोत्रग्रहणपूर्वकं इदं
व आच्छादनमिदं वो यज्ञोपवीतमिति वा उक्त्वा आच्छादनं
यज्ञोपवीतं वा देयम्। अन्यान्यपि ग्राह्यवर्जनीयगन्धपुष्पधूप-
दीपाच्छादनविषयाणि स्मृत्यन्तरवचनानि सन्ति, तानि चा-
स्माभिः श्राद्धाङ्गद्रव्योपकल्पनप्रकरणे लिखितानीहाप्यनुसन्धे-
यानि। एवं मातामहादीनामपि गन्धपुष्पादिदानं नामगोत्र-
सहितं पदार्थानुसमयेन कार्यं, 'मातामहानामप्येवम्' इत्यतिदेश-
स्मरणात्। मातुःप्रपितामहाच्छादनानन्तरं अर्चनं पूर्णमस्त्विति
कर्ता ब्रूयात्। अस्त्विति विप्रा ब्रूयुः। संकल्पसिद्धिरस्त्विति
भवन्तो ब्रुवन्त्विति कर्ता वदेत्। अस्तु सङ्कल्पसिद्धिरिति
विप्रा वदेयुः॥
इति स्मृतिचन्द्रिकायां अर्घ्याद्युपचारविधिः.
श्राद्धकाण्डे अग्नौकरणविधिः. 317
अथाग्नौकरणविधिः.
तत्र कात्यायनः—
गन्धान् ब्राह्मणसात्कृत्वा पुष्पाण्यृतुभवानि च ।
धूपं चैवानुपूर्वेण अग्नौ कुर्यादतःपरम् ॥
ऋतुभवानि पुष्पाणि स्वोद्भवकालत्वेन प्रसिद्धवसन्तादि-
कालप्रभवानि । चशब्दोऽनुक्तसमुच्चयार्थः । एवञ्चायमर्थः—
गन्धपुष्पालङ्कारधूपाच्छादनानि ब्राह्मणार्थानि कृत्वाऽनन्तरम-
ग्नौकरणाख्यं कर्म कुर्यादिति । कथं कुर्यादित्यपेक्षिते हारीतः—
‘अथोद्धृतान्नः पङ्क्तिमूर्धनि सर्वान् पृच्छेदग्नौ करिष्ये’ इति ।
निगमोपि—‘अन्नमुद्धृत्याभिघार्याग्नौ करिष्य इति पृच्छति’ ।
इति । विष्णुपुराणेऽपि—
अग्नौ करिष्य इत्युक्त्वा तैरुक्तः क्रियतामिति ।
गृह्योक्तेनैव विधिना हुत्वा पात्रेषु दापयेत् ॥
हुत्वा हुतशेषं पितृब्राह्मणभाजनेषु दद्यादित्यर्थः । गृह्योक्तेनै-
वेत्येवकारो न धर्मशास्त्राद्युक्तविधिनिवृत्त्यर्थः, धर्मशास्त्रोक्तविधेर्गृ-
ह्योक्तविधेश्च परस्परापेक्षत्वात् । तेनात्रैवकारः पुराणोक्तविधि-
निवृत्त्यर्थः । अत एव गृह्योक्तविधानेनाग्नौकरणं कार्यमित्यभि-
धाय तस्मिन्नेव पुराणे गृह्येष्वनुक्तो विधिर्दर्शितः—
जुहुयाद्व्यञ्जनक्षारवर्जमन्नं ततो नरः ।
अनुज्ञातो द्विजैस्तैस्तु त्रिःकृत्वो भरतर्षभ ॥
318 स्मृतिचन्द्रिकायाम्।
इति । व्यञ्जनक्षारवर्जमन्नं हविष्यमन्नमित्यर्थः । यत्तु पुरा-
णान्तरे—
पुष्पाणां च फलानां च भक्ष्याणां च प्रयत्नतः ।
अग्रमुद्धृत्य सर्वेषां जुहुयाज्जातवेदसि ॥
इति पित्रर्थपाकसिद्धलवणादिसंसृष्टाहविष्यहोमस्मरणं तद्येषां
गृह्येऽग्नौकरणहोमानन्तरं अहविष्यहोमान्तरममन्त्रकं कार्यमिति
विधीयते तद्विषयम् । अतो न पूर्वोक्तविरोधः । जातवेदसि
उष्णभस्मगताग्नावित्यर्थः । तथाचापस्तम्बेनाग्नौकरणाङ्गतयोक्तं
‘न क्षारलवणहोमो विद्यते तथाऽवरान्नसंस्पृष्टस्याहविष्यस्य
होमः। उदीचीनमुष्णं भस्मापोह्य तस्मिन् जुहुयात्तद्धुतमहुतं चाग्नौ-
भवति’ इति । पारस्करोप्यग्नौकरणमाह—
दत्वा गन्धादि धूपांश्च सर्पिष्मद्धविरुद्धरेत् ।
पैतृकैरभ्यनुज्ञातो जुहोति पितृयज्ञवत् ॥
इति । पैतृकैर्ब्राह्मणैरिति शेषः—
अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैस्सह ।
इति मनुस्मरणात् । ब्राह्मणैः पैतृकैस्सर्वैस्सह युगपदनुज्ञात
इत्यर्थः । पितृयज्ञवज्जुहोतीत्यस्यार्थो हारीतेन प्रपञ्चितः—‘कुरु-
ष्वेत्यनुज्ञातः पूर्वोद्धृतेऽग्नौ सकृदाच्छिन्नैरुपमूललूनैः परिस्तीर्णे
समित्तन्त्रेण प्राङ्मुखो मेक्षणेनाहुतिद्वयं हुत्वा मेक्षणमग्नावेव
कुर्यात्’ इति । पूर्वोद्धृतेऽग्नौ परिस्तरणात्पूर्वमेवोद्बोधितेऽग्नौ
मूलसमीपप्रदेशे सकृदेकयत्नेन छिन्नैर्दर्भैः परिस्तीर्णे समित्तन्त्रेण
प्राङ्मुखो मेक्षणेन आहुतिद्वयार्थमेकामेव समिधमादाय मेक्ष-
णेन यज्ञियकाष्ठकृतेन आहुतिद्वयं हुत्वा अग्नावेव मेक्षणं
प्रक्षिपेदित्यर्थः । समित्तन्त्रेणेत्यनेन न पितृयज्ञधर्म उक्तः,
पितृयज्ञे समिदाधानस्याभावात् । किंत्विह धर्मान्तरमुपदिष्टम् ।
तेन सुयज्ञोप्युपदिष्टधर्माभ्यां सहातिदिष्टधर्मानाह—'परिसमूह्य
पर्युक्ष्य परिस्तीर्य दक्षिणं जान्वाच्य यज्ञोपवीती प्राङासीनो
मेक्षणेन जुहोति' इति । अत्र परिसमूहनपर्युक्षणे उपदिष्टे ।
'जुहुयात्पितृयज्ञवत्' इत्यतिदेशतः प्राप्तौ होममन्त्रौ मदाल-
सया दर्शितौ—
अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः ।
सोमाय वै पितृमते स्वाहेत्यन्या तथा भवेत् ॥
वैशब्दः पादपूरणार्थत्वात्स प्रयोगकाले न प्रयोज्यः । गोवि-
लेन तु विपरीतक्रमेण पुरस्तात्स्वाहाकारौ होममन्त्रौ अग्नौक-
रणमधिकृत्योक्तौ—'मेक्षणेनोपघातं जुहुयात्स्वाहा सोमाय पितृ
मते इति प्रथमां, स्वाहाऽग्नये कव्यवाहनायेति द्वितीयां,
अत ऊर्ध्वं प्राचीनावीती' इति । होमानन्तरं प्राचीनावी-
तीत्यभिधानादर्थाद्धोमे यज्ञोपवीतीत्येवेति गम्यते । मेक्षणेनो-
पघातं मेक्षणेनावदाय जुहोतीत्यर्थः । पुराणे त्वाहुतित्रयपक्षः
स्वधानमोन्तैर्मन्त्रैरुक्तः—
अन्तर्निधाय समिधं जुहुयाज्जातवेदसि ।
अग्नये कव्यवाहनाय स्वधा नम इति ब्रुवन् ॥
320 स्मृतिचन्द्रिकायाम्
सोमाय च पितृमते स्वधा नम इति ब्रुवन् ।
यमायाङ्गिरसां पत्ये स्वधा नम इति ब्रुवन् ॥
इत्येते होममन्त्रास्तु त्रयाणामनुपूर्वशः ।
उत्तरतोऽग्नये नित्यं सोमायेति च दक्षिणे ।
एतयोरन्तरे नित्यं जुहुयाद्वै विवस्वतः ॥
इति । अत्र निधेयायास्समिधो ग्राह्याग्राह्यत्वनिरूपणार्थमुक्तं
तत्रैव—
पलाशफल्गुन्यग्रोधप्लक्षश्वत्थविकङ्कताः ।
उदुम्बरशमीबिल्वचन्दना यज्ञियाश्च ये ॥
पनसो देवदारुश्च सालश्चखदिरस्तथा ।
समिदर्थे प्रशस्तास्स्युरेते वृक्षा विशेषतः ॥
ग्राह्याः कण्टकिनश्चैव यज्ञिया ये च केचन ।
श्लेष्मातको नक्तमालः कपित्थः शाल्मलिस्तथा ॥
नीपो विभीतकश्चैव श्राद्धकर्मणि गर्हिताः ।
चिरिबिल्वस्तथा टङ्कस्तिन्दुकाम्रातकौ तथा ॥
तिलवकः कोविदारश्च एते श्राद्धविगर्हिताः ।
फल्गुः काकोदुम्बरिका । एवमुक्ताहुतिसंख्याविकल्पो व्यपदे-
शादेव सिद्धः । प्रकृतौ पिण्डपितृयज्ञे पक्षद्वयमप्युक्तम् ।
तथाऽऽपस्तम्बः पिण्डपितृयज्ञमधिकृत्याह— 'अध्वर्युरुपवीती
दक्षिणं जान्वाच्य मेक्षणे उपस्तीर्य तेनावदायाभिघार्य
सोमाय पितृपीताय स्वधा नम इति दक्षिणाग्नौ जुहोति ।
श्राद्धकाण्डे अग्नौकरणविधिः. 321
यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयां, अग्नये
कव्यवाहनाय स्वधा नम इति तृतीयां, ये मेक्षणे तण्डुला-
स्तान् हुत्वा तूष्णीं मेक्षणमादधाति न यमाय जुहोती त्येके'
इति । स्वधानमोऽन्तमन्त्राणां स्वाहाकारान्तमन्त्रैस्सह विक-
ल्पोऽपि पूर्ववदतिदेशत एव सिद्धः, प्रकृतौ द्विविधमन्त्राणाम-
विधानात् । तत्र स्वधानमोन्ता मन्त्रा आपस्तम्बेनोक्ता दर्शिताः।
स्वाहान्तमन्त्रास्तु पिण्डपितृयज्ञे साङ्ख्यायनेनोक्ताः- 'दक्षिणं
जान्वाच्य यज्ञोपवीती प्राङासीनो मेक्षणेन जुहोत्यग्नये कव्य-
वाहनाय स्वाहा सोमाय यमायाङ्गिरस्वते पितृमते स्वाहा' इति ।
सोमायेत्यत्र पितृमते स्वाहेत्यनुषज्यते । अतोऽग्नये स्वाहा सो-
माय स्वाहेति विशेषविहिताव
322
प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिश्रुतेः ॥
इति । अयमर्थः—अग्नौकरणहोमप्रकृतिभूतपिण्डपितृयज्ञहोमवि-
धायकश्रुतौ ‘स उदास्याग्नौ द्वे आहुती जुहोति देवेभ्यः’
इति श्रुतेः तद्वलात्प्रकृतिदैविकधर्मवत् तद्विकृतिभूताग्नौकर-
णहोमोप्युपवीतित्वादिदैविकधर्मेण कर्तव्य इति । अत्र ‘द्वे
आहुती जुहोति’ इति विहितहोमद्वये ‘सोमाय पितृमते स्वाहाऽ-
ग्नये कव्यवाहनाय स्वाहा’ इति मन्त्रवर्णे देवतात्वेनावग-
तयोः सोमाग्न्योः चातुर्मास्यान्तर्गतपितृयज्ञवाक्यशेषादिषु क-
चित्पितृरूपेण कचिद्देवरूपेण व्यपदेशदर्शनादिह किं पितृ-
रूपयोर्देवतात्वमुत देवरूपयोरिति संदेहे देवेभ्ये इत्यनुवाद-
सरूपार्थवाददर्शनादिह देवरूपयोरेव देवतात्वमिति गम्यत
इत्यभिप्रायेण देवेभ्यो जुहोतीति श्रुतिश्रुतेरित्युक्तम् । न तु
साक्षाद्देवरूपयोरेव देवतात्वमिति श्रुतौ श्रूयत इत्याभिप्रा-
णेति मन्तव्यम् । अत एवानन्तरमपरितोषात्पक्षान्तरमुक्तं
तेनैव—
अपसव्येन वा कार्यो दक्षिणाभिमुखेन वा ।
निरुप्य हविरन्यस्मा अन्यस्मै न हि हूयते ॥
इति । अस्यार्थः—पिण्डपितृयज्ञे ‘पितृभ्यो जुष्टं निर्वपामि’
इति मन्त्रेण सकृदेव होमार्थं पितृदेवतार्थं च निर्वापः क्रियते ।
ततश्च निर्वापमन्त्रसामर्थ्यात् पितृरूपयोरेव सोमाग्न्योर्होमदे-
वतात्वमिति गम्यते । देवरूपयोस्तु देवतात्वे देवेभ्य इति
वाक्यशेषबलादाश्रियमाणे अन्यस्मै निरुप्तमन्यस्मै हूयत
इत्युक्तं स्यात् । तस्मात्पितृरूपयोरेव देवतात्वं तेन प्रकृति-
भूतो होमः प्राचीनावीतिना दक्षिणाभिमुखेन च क्रियते इति
विकृतिभूताग्नौकरणहोमोपि प्राचीनावीतिना दक्षिणामुखेन च
कार्य इति । अयमेव पक्षश्श्रेयानिति मन्यमान आश्वलायनः
स्वमतत्वेन पिण्डपितृयज्ञहोमं पैतृकधर्मकं परमतत्वेन दैविक-
धर्मकमाह— ‘प्राचीनावीतीध्ममुपसमाधाय मेक्षणेनावदायाव-
दानसंपदा जुहुयात्सोमाय पितृमते स्वधा नमोऽग्नये कव्यवा-
हनाय स्वधा नम इति स्वाहाकारेण वाऽग्निपूर्वं यज्ञोपवीती’
इति । एवं प्रकृतिभूतपिण्डपितृयज्ञस्योभयविधत्वेन विकल्पित-
धर्मकत्वात्तद्विकृतिभूताग्नौकरणहोमोप्यतिदेशत एव विकल्पित-
धर्मक इति यज्ञोपवीतिना प्राचीनावीतिना वा कार्यः । तत्रा-
श्वलायनगृह्यानुसारिणां पैतृकधर्मकः कार्यः । तथाच तेनैव
स्वकृतगृह्येऽभिहितम्—‘उद्धृत्यघृताक्तमन्नमनुज्ञापयत्यग्नौ करि-
ष्ये करवै करवाणीति वा । प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व
कुर्विति वा । अथाग्नौ जुहोति यथोक्तं पुरस्तात्’ इति ।
कात्यायनगृह्ये तु—‘उद्धृत्य घृताक्तमन्नं पृच्छत्याग्नौ करिष्य
इति कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञवद्धुत्वा’ इत्युक्तं, तत्र यद्यपि
पिण्डपितृयज्ञशब्देन पिण्डैस्साध्यः पितृयज्ञः पिण्डपितृयज्ञ
इति व्युत्पत्त्या पिण्डदानात्मकापितृयज्ञस्यैव नामधेयं, न तु
होमात्मकपिण्डपितृयज्ञस्येति प्रतिभाति, तथाऽपि पिण्डदाना-
त्मकपितृयज्ञस्य होमात्मकपितृयज्ञस्य च दण्डिन इतिवल्लक्षणया
नामधेयं, चातुर्मास्येषु प्रथमपर्वणि क्रियमाणानामाग्नेयादि-
सप्तयागानां वैश्वदेवयागस्य च वैश्वदेवनामधेयवत् । एवञ्च
पिण्डदानं होमश्चात्र प्रधानं, न तु पिण्डदानमेव प्रधानं हो-
मोऽङ्गम् । यत एवं होमोऽपि प्रधानं, अत एवोक्तमापस्तम्बेन-
‘यदि जीवपिता दद्यादाहोमात्कृत्वा विरमेत्’ इति । यदि
तु होमोऽङ्गं, तदा पिण्डदानाख्यप्रधाननिवृत्तौ प्रयोजकप्रधा-
नस्याभावादङ्गभूतहोमस्यापि निवृत्तेः ‘आहोमात्कृत्वा विर-
मेत्’ इति सूत्रमत्यन्तानुपपन्नं स्यात् । ततो ज्ञायते होमा-
त्मकोऽपि पितृयज्ञः प्रधानभूत इति । एवञ्च पितृयज्ञवद्धुत्वा,
इत्यस्यायमर्थः—होमात्मकपिण्डपितृयज्ञवदग्नौकरणं कुर्यादिति।
एवं वदतस्तस्य स्वकीयस्मृतौ—
प्राङ्मुखेनैव देवेभ्यो जुहोतीतिश्रुतिश्रुतेः ।
निरुप्य हविरन्यस्मा अन्यस्मै न हि हूयते ॥
इत्येताभ्यामुक्तदैविकपैतृकधर्मकपिण्डपितृयज्ञवदित्यभिप्रायः प्रत्ये-
तव्यः, पिण्डपितृयज्ञविधायकसूत्रविशेषानुक्तेः । बैजवापगृह्ये---
‘यज्ञोपवीत्यग्नौ करवाणीत्यामन्त्रयग्नौकरणम्’ इत्यभिधानात्
स्वसूत्रोक्तपिण्डपितृयज्ञवदग्नौकरणहोमो दैविकधर्मवानिति स्फु-
टम् । यत्तु याज्ञवल्केन पिण्डपितृयज्ञमनुक्तैवोक्तं—
ओं कुरुष्वेत्यनुज्ञातो हुत्वाऽग्नौ पितृयज्ञवत् ।
[Header] श्राद्धकाण्डे अग्नौकरणविधिः. 325
इति, यच्च पारस्करेण-
पैतृकैरभ्यनुज्ञातो जुहोति पितृयज्ञवत् ॥
इति, । अत्र सर्वत्र दैविकधर्मकपितृयज्ञवादित्यर्थो ग्राह्यः 'दै-
विकधर्मकपितृयज्ञवत्' इति बहुभिस्सूत्रकारैरुक्तत्वात् । न च
बहुभिरुक्तत्वमप्रयोजकमिति वाच्यं 'भूयसां स्यात्सधर्मत्वम्'
इति जैमिनिना प्रयोजकत्वस्याभिधानात् । ननु भूयसामपि
मतं 'निरुप्य हविरन्यस्मा अन्यस्मै न हि हूयते' इति
न्यायविरुद्धत्वादप्रयोजकम् । मैवं-ते खल्वापस्तम्बादयोप्येवं
मन्यन्ते यथा दर्शयोगेनैकदेवतासम्बन्धित्वेन निरुप्तेषु शूर्प-
रूपैकस्थानगतेषु प्रोक्षितव्येषु 'अग्नये वो जुष्टं प्रोक्षामि'
इति प्रोक्षणमन्त्रस्थो व इत्ययं शब्दः केषुचित्पर्यवस्यति न
सर्वेषु वर्तते । यथाच तेष्वेव व्रीहिषु 'इन्द्राग्निभ्यां वो
जुष्टं प्रोक्षामि' इति प्रोक्षणमन्त्रस्थो व इत्ययं शब्दः केषु-
चित्पर्यवस्यति न सर्वेषु वर्तते । तथा स्थालीरूपैकस्थान-
गतेषु व्रीहिषु 'पितृभ्यो वो जुष्टं निर्वपामि' इति निर्वा-
पमन्त्रस्थो व इत्ययं शब्दः केषुचित्पर्यवस्यति न सर्वेषु
व्रीहिषु वर्तते इति न स्थालस्थं सर्वं पितृभ्यो निरुप्तं किन्तु
तदर्धम्, तेन पितृभ्यो. निरुप्तं पितृमदन्तसोमादिभ्यो हूयते
अतो न भूयसां मतं न्यायविरुद्धमिति सर्वमनवद्यम् । तू-
ष्णीमेव सर्वनिर्वापपक्षे तु न्यायाविरोधस्सुतराम् । सोपि
पक्ष आपस्तम्बेनोक्तः -'मृण्मये निर्वपति पितृभ्यो वो जुष्टं