स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 332, कुल 474 में से
संदर्भ में पढ़ेंदित्यर्थः । अनेन गन्धदानं वैश्वदैविकब्राह्मणेषु कृत्वा पैतृक-
ब्राह्मणेषु कार्यमित्युच्यते । एवमेव पुष्पदानाद्यपि । ततश्च
वैश्वदैविकब्राह्मणार्चनं च पदार्थानुसमयेन सहैव कार्यमिति
वचोभङ्ग्याऽभिहितम् । एवञ्च वैश्वदैवे याज्ञवल्क्येन काण्डा-
नुरूपसमयक्रम उक्तः, तेन सह अनेनोक्तपदार्थानुसमयरूप-
क्रमस्य विकल्पो वेदितव्यः । न चायं विकल्पो गन्धदान-
प्रभृत्येव न पुनः प्रागपीति वाच्यं, अर्धवैशसापत्तेः, 'देवांश्च
पितूंश्चावाहयिष्ये इत्यनुज्ञाप्य' इत्यादिना गन्धादिदानात्प्रा-
गेव सहानुष्ठानस्य पैठीनसिना स्मृतत्वाच्च । विष्णुनाऽपि
गन्धादिदानमुक्तं- 'अनुलेपनवस्त्रालङ्करणपुष्पधूपैर्यथाशक्ति वि-
प्रान् समभ्यर्च्य' इति । अनुलेपनादीनि पित्रादिदेवतोद्देशेन
विप्रेभ्यो दद्यादित्यर्थः ।