स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 329, कुल 474 में से
संदर्भ में पढ़ेंएतेषां पितृपितामहप्रपितामहानां पितृक्रमात् पित्रादिक्रमादे-
कैकं गोत्रनामभ्यां सम्बोध्य एष तेऽर्घ्यमित्युक्त्वा एकैकं
ब्राह्मणमेकैकेनार्घ्येणार्चयेदित्यर्थः । तथा चाह गौतमः—
पूर्ववत्पृथगेकैकमेकैकेनार्चयेत्क्रमात् ।
इति । एतत् ‘त्रीन् पित्र्ये’ इत्युक्तब्राह्मणसङ्ख्यापक्षाभिप्राये-
णोक्तम् । ‘त्रीन् त्रीन्’ इत्युक्तब्राह्मणसङ्ख्यपक्षे तु त्रीन् ब्राह्म-
णानैकेकेनार्घ्येणार्चयेत् । अत एव पैठीनासिना हस्तेष्वित्या-
द्युक्तम् । न च वाच्यं ‘त्रीन् पित्र्ये’ इति पक्ष एव हस्ते-
ष्वित्युपपद्यते, त्रिषु पितृवर्गब्राह्मणेषु दक्षिणहस्तत्रयसम्भवा-
दिति । यतस्तेन पितृस्थानस्थब्राह्मणार्चन एव हस्तेष्वित्युक्त्वा-
एवमितरयोरित्यभिधानात् । तस्मात्रीन् त्रीन् पित्र्ये इति पक्षे
पितृस्थानस्थब्राह्मणदक्षिणहस्तेष्वपामासेचनाद्यर्घ्यनिनयनान्तं स-
कृत्कुर्यात् । तथा पितामहस्थानस्थब्राह्मणहस्तेषु चैवं निन-
येत्, एवमितरयोरित्यभिधानात् । एवं मातामहादीनामर्घ्यपात्रा-
सादानादि ब्राह्मणहस्तेष्वर्घ्यदानान्तं यथोक्तं नामगोत्रसहितं
पदार्थानुसमयेन कुर्यात्, ‘मातामहानामप्येवम्’ इत्यातिदेश-
स्मरणात् । पित्रादिब्राह्मणहस्तेष्वर्घ्यदानान्तरं याज्ञवल्क्यः—
दत्त्वाऽर्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यस्स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥
तेषां प्रतिविप्रं दत्तानां अर्ध्याणां संस्रवान् विप्रहस्तेभ्यः
अन्येषु पात्रेषु गलितान् पितृपात्रे सम्भृत्य तत्पात्रं ‘पितृभ्यः