स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 327, कुल 474 में से
संदर्भ में पढ़ेंतानीत्यर्थः । अत एव तिलैस्तथेत्यधिकृत्य बैजावापेनोक्तं—
नीत्वा पितॄणां त्रीण्येव कुर्यात् पात्राणि धर्मवित् ।
एकस्मिन्वा बहुषु वा ब्राह्मणेषु यथाविधि ॥
इति । तिलैर्नीत्वा तिलानर्घ्योदकेषु प्रक्षिपेदित्यर्थः । अर्घ्यो-
दकसंस्कारार्थं पवित्रकरणप्रकारमाह स एव—
कुशौ समावशीर्णाग्रावनन्तर्गर्भकौ कुशैः ।
छिनत्ति तत्पवित्रं स्याच्छ्राद्धे कर्मणि सर्वदा ॥
इति । कुशाविति युग्मसङ्ख्या वैश्वदेविकार्घ्यपात्रपवित्रविषया ।
पैतृकार्घ्यपात्रपवित्रविषये अनुचितत्वात् । अत एव चतुर्विंश-
तिमते पैतृकार्घ्यपवित्रे अयुग्मसङ्ख्या दर्शिता—
तिस्रस्तिस्रःशलाकास्तु पितृपात्रेषु पार्वणे ।
इति । शलाकाः शलाकासन्निभा दर्भाः, अच्छिन्नाग्रा इति
यावत् । अर्घ्यपात्रेषु तिलप्रक्षेपानन्तरं ब्रह्मपुराणे कर्तव्यमुक्तं—
अर्ध्याः पुष्पैश्च गन्धैश्च ताः प्रपूज्याश्च शास्त्रवत् ।
इति । अर्घ्या अर्ध्यार्था या आपः तिलमिश्रास्ताः गन्धैः
पुष्पैश्च प्रपूज्याः । तासु गन्धपुष्पाणि प्रक्षिपेदित्यर्थः । ग-
न्धादिप्रक्षेपानन्तरं शौनकः—‘ताः प्रतिग्राहयिष्यंश्च स्वधा-
र्ध्याः' इति । ताः अर्ध्यार्था अपः ब्राह्मणैः प्रतिग्राहयि-
ष्यन् स्वधार्ध्या इति मन्त्रेण ब्राह्मणानां पुरस्स्थापयेदित्यर्थः ।
स्थापनानन्तरं पैठीनसिः—‘ततो ब्राह्मणहस्तेषूदकपूर्वं दर्भान्
प्रदायोदकपूर्वमर्घ्योदकं ददाति या दिव्या आपः इत्यृचैतत्ते