स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 326, कुल 474 में से
संदर्भ में पढ़ें306 | स्मृतिचन्द्रिकायां
‘दक्षिणाग्रेषु दर्भेषु चमसेषु दक्षिणापवर्गेषु त्रिषु पवित्रान्तर्हितेषु
अप आसिञ्चेत् । शं नो देवीरभिष्टये’ इति । दक्षिणाग्रेषु
दर्भेषु दक्षिणापवर्गंतयाऽऽसादितेषु चमसाद्यर्घ्यपात्रेषु त्रिषु
पवित्रान्तर्हितेषु शं नो देवीरिति मन्त्रेण प्रतिपात्रमपो निनये
दित्यर्थः । प्रचेता अपि—‘यज्ञियवृक्षचमसेषु पवित्रान्तर्हिते-
ष्वेकैकस्मिन् अप आसिञ्चेत्’ इति । शौनकोपि—“तैजसाश्म-
मयन्मृण्मयेषु पात्रेष्वेकद्रव्येष्वनेकद्रव्येषु वा दर्भान्तर्हितेष्वपः
प्रदाय शं नो देवीरभिष्टये इत्यनुमन्त्रितान् तिलानावपति—
तिलोसि पितृदेवत्यो गोसवो देवनिर्मितः ।
प्रत्नवद्भिः पृक्तस्स्वधया पितॄनिमान् लोकान् प्री-
णयाहि नः स्वधा नमः” ॥
इति । तैजसं कांस्यादिमयम् । अश्ममयं मरकतादिमणिमयम् ।
एकद्रव्येषु कांस्यरजतताम्रादीनामन्यतमेषु । अनेकद्रव्येषु कां-
स्यादिनानाद्रव्यमयेषु वा । दर्भान्तर्हितेषु पवित्रान्तर्हितेषु ।
शं नो देवीरिति मन्त्रेणापो निनीयानुमन्त्रितासु पूर्वोक्तमन्त्रेण
नीतास्वप्सु तिलोसीति मन्त्रेण तिलान् प्रक्षिपेदित्यर्थः । पात्रे-
ष्विति बहुवचनं त्रिष्वेवावतिष्ठते, प्रकृतिभूते त्रिदेवताके
श्राद्धे प्रतिदैवतमेकैकपात्रविधिपरत्वात् । अत एव प्रचेतसा—
‘त्रीण्येवोदपात्राणि’ इत्युक्तम् । पित्रादीनां त्रयाणामेकैकस्या-
नेकब्राह्मणनियोजने सर्वेषामेकब्राह्मणनियोजनेऽपि श्राद्धस्य
त्रिदेवताकत्वात्त्रीण्येवोदपात्राणि न तु ब्राह्मणसंख्यया सङ्ख्या-