सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 328, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 328

अर्घ्योदकमित्यप उपस्पृशेदित्येवमेवेतरयोः' इति । अर्घ्यस्था-
पनानन्तरं ब्राह्मणहस्तेषु प्रथममपो निनीयार्घ्यपवित्रदर्भान्
दक्षिणाग्रतया क्षिप्त्वा पुनरपो निनीय 'या दिव्या आपः' इति
मन्त्रमुक्त्वा मन्त्रान्ते अस्मत्पितरमुकगोत्र अमुकशर्मन् वसुरूप
सपत्नीकैतत्ते अर्घ्योदकमिति दक्षिणहस्ते पितृतीर्थेनार्घ्यं दत्वाऽप
उपस्पृशेत् । एवमेवेतरयोः पितामहप्रपितामहयोरपि ब्राह्मण-
हस्ते अर्घ्यं दद्यादित्यर्थः । अस्मत्पितामह अमुकगोत्र अमुक-
शर्मन् रुद्ररूप सपत्नीक, अस्मत्प्रपितामहादित्यरूपेति तु वि-
शेषः । कात्यायनेन 'या दिव्या आपः' इति मन्त्रं कृत्स्नं
पठित्वाऽर्घ्यसमर्पणमुक्तम्—"सपवित्रेषु हस्तेषु—'या दिव्या
आपः पयसा संबभूवुः या अन्तरिक्ष उत पार्थिवीर्याः ।
हिरण्यवर्णा यज्ञियास्ता न आपश्शंश्योना सुहवा भवन्तु'
इति । पितस्ते अर्घ्यं पितामहैतत्ते अर्घ्यं प्रपितामहैतत्ते अर्घ्य-
मिति ब्राह्मणाञ्जलिषु पात्राणि निनीय पितृभ्योऽक्षय्यमस्त्विति
शेषं दर्भेष्ववनेजयति इति" पात्राणि पात्रस्थोदकानीत्यर्थः । धर्मेण
गोत्रग्रहणं च कार्यमित्युक्तम्—" 'या दिव्या आपः' इति पात्रं
पाणिभ्यामुद्धृत्य नाम गोत्रं च गृहीत्वा सपवित्रे हस्तेऽर्घ्यं
दद्यात्" इति । पाणिभ्यामुद्धृतेन पात्रेण दद्यादिति गम्यते ।
प्रचेता अपि—
अप्रदक्षिणमेतेषामेकैकं तु पितृक्रमात् ।
सम्बोध्य गोत्रनामभ्यामेष तेऽर्घ्यमितीरयेत् ॥